Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 3.285

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.285.1

प्रभूतान्नोदकेतस्मिन्बहुमूलफले वने ।
सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ॥ ३.२८५.१ ॥

食物と水が豊かで、根や果実の多いその森に、カークツトスタ(ラーマ)は軍を駐屯させ、規定どおりにこれを守った。

3.285.2

रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम् ।
प्रकृत्यैवदुराधर्षा दृढप्राकारतोरणा ॥ ३.२८५.२ ॥

ラーヴァナはラーンカーに、論書に従って築かれた防備を整えた。それは本来攻めがたく、堅固な城壁と門を備えていた。

3.285.3

अगाधतोयाः परिखा मीननक्रसमाकुलाः ।
बभूवुः सप्त दुर्धर्षाः स्वादिरैः शङ्कुभिश्चिताः ॥ ३.२८५.३ ॥

底知れぬ水をたたえ、魚や鰐に満ちた七つの堀があった。渡りがたく、カディラ材の杭が打ち込まれていた。

3.285.4

कर्णाटयन्त्रा दुर्धर्षा बभूवुः सहुडोपलाः ।
साशीविषघटायोधाः ससर्जरसपांसवः ॥ ३.२८५.४ ॥

カルナータの仕掛けは攻めがたく、投石、毒蛇の壺と戦士、樹脂の粉があった。

3.285.5

मुसलालातनाराचतोमरासिपरश्वथैः ।
अन्विताश्चशतघ्नीभिः समधूच्छिष्टमुद्गराः ॥ ३.२८५.५ ॥

杵、松明、矢、槍、剣、斧を備え、百殺の器と蜂蜜と蝋を塗った棍棒も備えていた。

3.285.6

पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः ।
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ॥ ३.२८५.६ ॥

城門のすべてには、固定の守備隊と機動の部隊がおり、歩兵が多く、象と馬も豊富にいた。

3.285.7

अङ्गदस्त्वथ लङ्कायां द्वारदेशमुपागतः ।
विदितो रराक्षसेन्द्रस्य प्रविवेशगतव्यथः ॥ ३.२८५.७ ॥

そこでアンガダはラーンカーの門前に至った。羅刹王に告げられた後、憂いなく中へ入った。

3.285.8

मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः ।
शुशुभे मेघमालाभिरादित्य इव संवृतः ॥ ३.२८५.८ ॥

幾千万もの羅刹の只中で、大いなる力を持つアンガダは雲の列に囲まれた太陽のように輝いた。

3.285.9

ससमासाद्य पौलस्त्यममात्यैरभिसंवृतम् ।
रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ॥ ३.२८५.९ ॥

大臣たちに囲まれたパウラスティヤ(ラーヴァナ)に近づき、雄弁なアンガダは呼びかけてからラーマの伝言を語り始めた。

3.285.10

आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः ।
प्राप्तकालमिदं वाक्यं तदादत्स्व सुदुर्मते। ॥ ३.२८५.१० ॥

王よ、大いなる名声を持つコーサラの主ラーガヴァが、この時宜を得た言葉をお前に告げる。愚かな者よ、それを受け入れよ。

3.285.11

अकृतात्मानमासाद्य राजानमनये रतम् ।
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ॥ ३.२८५.११ ॥

自らを制御せず不正を喜ぶ王のもとに至れば、国も都市も不正に呑まれて滅びる。

3.285.12

त्वयैकेनापराद्धं मे सीतामाहरता बलात् ।
वधायानपराद्धानामन्येषां तद्भविष्यति ॥ ३.२८५.१२ ॥

シーターを力づくで奪い去ったのは、お前一人が私に罪を犯したのだ。罪なき者への滅びは、他の者たちに及ぶだろう。

3.285.13

ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः ।
ऋषयोहिंसिताः पूर्वंदेवाश्चाप्यवमानिताः ॥ ३.२८५.१३ ॥

力と慢心にとらわれた汝は、森に住む聖仙たちを害し、かつては神々をも侮辱した。

3.285.14

राजर्षयश्च निहता रुदत्यश्चाहृताः स्त्रियः ।
तदिदं समनुप्राप्तं फलंतस्यानयस्य ते ॥ ३.२८५.१४ ॥

王仙たちは殺され、泣く女たちは連れ去られた。その悪行の報いが今、汝に訪れたのだ。

3.285.15

हन्तास्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव ।
पश्य मे धनुषो वीर्यं मानुषस् निशाचर ॥ ३.२८५.१५ ॥

汝を大臣らとともに我は討つ。戦え、男らしくあれ。夜行者よ、人間たる我が弓の勇力を見よ。

3.285.16

मुच्यतां जानकी सीता न मे मोक्ष्यमसि कर्हिचित् ।
अराक्षसमिमं लोकंकर्ताऽस्मि निशितैः शरैः ॥ ३.२८५.१६ ॥

ジャーナキー・シーターを解放せよ。汝は決して我から逃れられぬ。鋭い矢で、この世界から羅刹を無くしてやろう。

3.285.17

इतितस् ब्रुवाणस् दूतस् परुषं वचः ।
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्च्छितः ॥ ३.२८५.१७ ॥

使者がこのような荒々しい言葉を述べると、羅刹王ラーヴァナはそれを聞いて耐えられず、怒りに気を失わんばかりになった。

3.285.18

हङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः ।
चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ॥ ३.२८५.१८ ॥

すると主君の合図を解した四人の夜行者たちは、鳥が虎を捕らえるように、彼の四肢を押さえつけた。

3.285.19

तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् ।
आदायैव खमुत्पत्य प्रासादतलमाविशत् ॥ ३.२८५.१९ ॥

アンガダは、その手足にしがみついた夜行者たちを捕らえたまま空に跳び上がり、宮殿の床へと入った。

3.285.20

वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः ।
भुवि संभिन्नहृदयाः प्रहारवरपीडिताः ॥ ३.२८५.२० ॥

彼が勢いよく跳び上がると、夜行者たちは心臓を砕かれ、最上の打撃に打ちひしがれて地に落ちた。

3.285.21

संसक्तोहर्म्यशिखरात्तस्मात्पुनरवापतत् ।
लङ्घयित्वा पुरं लङ्कां सुवेलस्य समीपतः ॥ ३.२८५.२१ ॥

宮殿の頂に取りついていた彼は、またそこから落ちた。ラーンカー市を跳び越え、スヴェーラ山の近くへ。

3.285.22

कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः ।
विशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥ ३.२८५.२२ ॥

その後、コーサラ王のもとへ行き、すべてを報告して、その輝かしい猿は休んだ。ラーガヴァにより称賛された。

3.285.23

ततः सर्वाभिसारेण हरीणां वातरंहसाम् ।
भेदयामास लङ्कायाः ग्राकारं रघुनन्दनः ॥ ३.२८५.२३ ॥

そして風のように速い猿たち全軍の突撃によって、ラグの歓びであるラーマはラーンカーの城壁を打ち破った。

3.285.24

विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः ।
दक्षिणं नगरद्वारमवामृद्गाद्दुरासदम् ॥ ३.२८५.२४ ॥

そしてヴィビーシャナと熊の王を前に立て、ラクシュマナは、近づき難いこの都の南門を打ち砕いた。

3.285.25

करभारुणगात्राणां हरीणां युद्धशालिनाम् ।
कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ॥ ३.२८५.२५ ॥

若い駱駝のように赤い体をもち、戦いに長けた猿たちが、そのとき百万の千万倍の数でランカーに襲いかかった。

3.285.26

प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम् ।
ऋक्षाणआं धूम्रवर्णानां तिस्रः कोठ्यो व्यवस्थिताः ॥ ३.२८५.२६ ॥

長い腕や腿、手、脛が間に垂れ下がる煙色の熊が三コーティ、陣形を組んで控えていた。

3.285.27

उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः ।
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ॥ ३.२८५.२७ ॥

跳び上がり、落ち、襲いかかる猿たちによって、そのとき塵に光を奪われ、太陽は見えなくなった。

3.285.28

शालिप्रसूनसदृशैः शिरीपकुसुमप्रभैः ।
तरुणादित्यसदृशैः शणगौरैश्च वैनरैः ॥ ३.२८५.२८ ॥

稲の花のよう、シリーシャの花の輝きをもち、若い太陽のよう、麻のように白い猿たちで軍勢は満ちていた。

3.285.29

प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् ।
राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ॥ ३.२८५.२९ ॥

羅刹たちは四方が茶褐色に染まった城壁を見た。王よ、女や老人たちを含む羅刹たちは、四方で驚き呆れた。

3.285.30

बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च ।
भग्नोन्मथितशृङ्गाणि यन्त्राणि च विचिक्षिपुः ॥ ३.२८५.३० ॥

彼らは宝石をはめ込んだ柱と装飾された城壁の頂を砕き、折れて粉々になった頂をもつ器械を四方へ投げ散らした。

3.285.31

परिगृह्य शतघ्नीश्च सचक्राः सगुडोपलाः ।
चिक्षिपुर्भुजवेगेन लङ्कामध्येमहास्वनाः ॥ ३.२८५.३१ ॥

百殺器、車輪、グダ石を手に取り、大声で吠えながら腕の力でラṅカーの中央へ投げつけた。

3.285.32

प्राकारस्थाश्चये केचिन्निशाचरगणास्तथा ।
प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ॥ ३.२८५.३२ ॥

城壁に立っていた夜行者の群れの一部も同様に、猿たちに追われて数百単位で逃げ去った。

3.285.33

ततस्तु राजवचनाद्राक्षसाः कामरूपिणः ।
निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः ॥ ३.२८५.३३ ॥

そこで王の命により、思いのままに姿を変える羅刹たちが、醜い姿で千、百の群れをなして出撃した。

3.285.34

शखवर्षाणि वर्षन्तो द्रावयित्वा वनौकसः ।
प्राकारं शोभयन्तस्ते परं विस्मयमास्थिताः ॥ ३.२८५.३४ ॥

枝の雨を降らせ、森に住む猿たちを追い散らし、城壁を飾って、大きな驚きに包まれていた。

3.285.35

स मापराशिसदृशैर्बभूव क्षणादाचरैः ।
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ॥ ३.२८५.३५ ॥

一瞬のうちに城壁は恐ろしい姿の夜行者の山のようになり、再び猿のいない状態にされた。

3.285.36

पेतुः शलविभिन्नाङ्गा बहवो वानरर्पभाः ।
स्तम्भतोरणभग्नाश्चपेतुस्तत्रनिशाचराः ॥ ३.२८५.३६ ॥

槍で体を貫かれた多くの猿の雄牛たちが倒れ、柱と門楼に砕かれた夜行者たちもそこに倒れた。

3.285.37

केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह ।
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ॥ ३.२८५.३७ ॥

羅刹と猿軍の間で、髪をつかみ合う格闘戦が起こった。勇士たちは爪と歯で互いに噛みついた。

3.285.38

निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः ।
हतानिपतिता भूमौ न मुञ्चन्ति परस्परम् ॥ ३.२८५.३८ ॥

そこでは両軍の猿と羅刹が呻きながら、殺されて地に倒れてなお、互いを離さなかった。

3.285.39

रामस्तु शरजालानिववर्ष जलदो यथा ।
तानिलङ्कां समासाद्य जघ्रुस्तान्रजनीचरान् ॥ ३.२८५.३९ ॥

ラーマは雲のように矢の網を降らせた。彼らはラーンカーに至り、その夜の徘徊者たちを打ち倒した。

3.285.40

सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः ।
आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ॥ ३.२८५.४० ॥

スミトラーの子ラクシュマナもまた強弓で疲れを知らず、幾度も指示を与えつつ、砦にいる羅刹たちを鉄の矢で倒した。

3.285.41

ततः प्रत्यवहारोऽभूत्सैन्यानां राधवाज्ञया ।
कृते विमर्दे लङ्कायां लब्धलक्ष्योजयोत्तरः ॥ ३.२८५.४१ ॥

その後、ラーガヴァの命により軍は退いた。ラーンカーでの殺戮は終わり、目的を果たした彼らは勝利によって最も優れた者となった。