Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.286

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.286.1

ततो निविशमानांस्तान्सैनिकान्रावणानुगाः ।
अभिजग्मुर्गणाऽनके पिशाचक्षुद्ररक्षसाम् ॥ ३.२८६.१ ॥

此时,罗波那的随从、众多毕舍遮与低级罗刹的队伍,向那些进入战场的士兵扑来。

3.286.2

पर्वणः पतनो जम्भः खरः क्रोधवशो हरिः ।
प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ॥ ३.२८६.२ ॥

帕尔瓦那、帕塔那、江婆、卡罗、愤怒自在、哈里、普拉鲁阇、阿鲁阇、普拉伽萨,以及其他类似者。

3.286.3

ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् ।
अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ॥ ३.२८६.३ ॥

此时,知晓他们隐身之秘的毗undefined伊沙那设法杀死了那些来袭的隐形恶徒。

3.286.4

ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः ।
निहताः सर्वशो राजन्महीं जग्मुर्गतासवः ॥ ३.२८६.४ ॥

他们被远处投掷的强大猴子们看见,全部被杀,大王啊,失去生命倒在地上。

3.286.5

अमृष्यमाणः सबलो रावणो निर्ययावथ ।
राक्षसानां बलैर्घोरैः पिशाचानांच संवृतः ॥ ३.२८६.५ ॥

罗波那不能忍受,便率军出战,被可怖的罗刹与毕舍遮大军所包围。

3.286.6

युद्धशास्त्रविधानज्ञ उशना इव चापरः ।
व्यूह्यचौशनसं व्यूहं हरीनभ्यवहारयत् ॥ ३.२८६.६ ॥

另一位精通兵法规则、如同乌尚那斯的人,依照乌尚那斯的阵法布置猴军并引领其前进。

3.286.7

राघवस्तु विनिर्यान्तं व्यूढानीकं दशाननम् ।
बार्हस्पत्यं विधं कृत्वा प्रतिव्यूह्य ह्यदृश्यत ॥ ३.२८६.७ ॥

罗怙之子(罗摩)见十首罗波那列阵而出,便依布里哈斯帕蒂之法布阵相对,也现身于阵前。

3.286.8

समेत्य युयुधे तत्र ततो रामेण रावणः ।
युयुधे लक्ष्मणश्चापि तथैवेन्द्रजिता सह ॥ ३.२८६.८ ॥

二人在那里相遇,罗波那随后与罗摩交战;罗什曼那同样与因陀罗吉特一同作战。

3.286.9

विरूपाक्षेण सुग्रीवस्तारेण च निस्वर्वटः ।
पौण्ड्रेण च नलस्तत्र पदुशः पनसेन च ॥ ३.२८६.९ ॥

那里,须羯哩婆与毗卢波刹、多罗及尼斯伐尔跋作战;那罗与奔德罗作战,波那萨则与步兵交战。

3.286.10

विषह्यं यं हि यो मेने स स तेन समेयिवान् ।
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः ॥ ३.२८६.१० ॥

他遇上了自以为不可战胜的对手,在交战之时,依靠自己臂膀的力量而战。

3.286.11

स संप्रहारो ववृधे भीरूणां भयवर्धनः ।
रोमसंहर्षणो घोरः पुरा देवासुरे यथा ॥ ३.२८६.११ ॥

那场冲突愈演愈烈,使怯懦者更加恐惧、毛骨悚然,犹如往昔天神与阿修罗之战那般可怖。

3.286.12

रावणो राममानर्च्छच्छक्तिशूलासिवृष्टिभिः ।
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ॥ ३.२८६.१२ ॥

罗波那以投枪、三叉戟和刀剑如雨般攻击罗摩;罗怙之子也以锋利的铁箭射向罗波那。

3.286.13

तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः ।
इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ॥ ३.२८६.१३ ॥

同样,罗什曼那以穿透要害的箭射中了奋力作战的因陀罗耆 (Indrajit);因陀罗耆也以许多箭射穿了苏弥特拉之子罗什曼那。

3.286.14

विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् ।
खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ॥ ३.२८६.१४ ॥

毗毗沙那以带羽的利箭射向普拉哈斯塔,普拉哈斯塔也同样射向毗毗沙那;二人都毫不动摇。

3.286.15

तेषां बलवतामासीन्महास्त्राणां समागमः ।
विव्यथुः सकला येन त्रयो लोकाश्चराचराः ॥ ३.२८६.१५ ॥

那些强大者之间发生了大神兵的交锋,由此动与不动的三界皆感痛苦。