摩诃婆罗多 · 章 3.288
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.288.1
ततो निर्याय स्वपुरात्कुम्भकर्णः सहानुगः ।
अपश्यत्कपिसैन्यं रतज्जितकाश्यग्रतः स्थितम् ॥ ३.२८८.१ ॥
随后,昆跋迦叻那携随从走出自己的城池,看见猴子大军列阵于罗摩所胜的迦尸之前。
3.288.2
स वीक्षमाणस्तत्सैन्यं रामदर्शनकाङ्क्षया ।
अपश्यच्चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम् ॥ ३.२८८.२ ॥
他环视那支军队,渴望见到罗摩,又看见手持弓箭、稳稳站立的悉密特里(罗什曼那)。
3.288.3
तमभ्येत्याशु हरयः परिवब्रुः समन्ततः ।
शैलवृक्षायुधा नादानमुञ्चन्भीषणास्ततः ॥ ३.२८८.३ ॥
猴子们迅速逼近他,从四面八方将他包围,以山石和树木为武器,发出可怕的吼声。
3.288.4
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः ।
करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ॥ ३.२८८.४ ॥
有的用巨大的身躯和许多生长于大地上的树木击打他;有的则抛弃了极大的恐惧,用爪子撕抓他。
3.288.5
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः ।
नानाप्रहरणैर्भीमै राक्षसेन्द्रमताडयन् ॥ ३.२८८.५ ॥
那些跳跃的猴子以多种方式作战,用战争的各种方法和各式可怕的兵器打击罗刹之王。
3.288.6
स ताड्यमानः प्रहसन्भक्षयामास वानरान् ।
बलं चण्डबलाख्यं च वज्रबाहुं च वानरम् ॥ ३.२८८.६ ॥
他虽遭击打,仍大笑着吞食了诸猴:名为旃达跋罗的跋罗,以及猴子伐阇罗波诃。
3.288.7
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः ।
उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ॥ ३.२८८.७ ॥
罗刹鸠槃羯罗做出那残害的行为,多罗等人见后惊恐万分,便大声呼喊起来。
3.288.8
तानुच्चैः क्रोशतः सैन्याञ्श्रुत्वा स हरियूथपान् ।
अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ॥ ३.२८८.८ ॥
苏羯里婆听见大军和猴群统帅高声呼喊,便无所畏惧地朝鸠槃羯罗冲去。
3.288.9
ततो निपत्य वेगेन कुम्भकर्णं महामना ।
सालेन जघ्निवान्मूर्ध्निं बलेन कपिकुञ्जरः ॥ ३.२८८.९ ॥
于是心胸宽广的猴中象苏羯里婆迅猛跃下,用沙罗树猛击鸠槃羯罗的头部。
3.288.10
स महात्मा महावेगः कुम्भकर्णस् मूर्धनि ।
बिभेद सालं सुग्रीवो न चैवाव्यथयत्कपिः ॥ ३.२८८.१० ॥
那位心胸宽广、行动迅猛的苏羯里婆将沙罗树折断在鸠槃羯罗的头上,然而那猴形者(鸠槃羯罗)竟丝毫不为所动。
3.288.11
ततो विनद्यसहसा सालस्पर्शविबोधितः ।
दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ॥ ३.२८८.११ ॥
那时,被沙罗树的触碰惊醒的鸠槃羯罗突然咆哮,用双臂抓住苏羯里婆,强行将他劫走。
3.288.12
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा ।
अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ॥ ३.२८८.१२ ॥
罗刹鸠槃羯罗正劫走苏羯里婆,英雄、朋友的欢喜者苏弥多罗(罗什曼那)见状,便朝他冲去。
3.288.13
सोऽभिपत्य महर्वेगं रुक्मपुङ्खं महाशरम् ।
प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ॥ ३.२८८.१३ ॥
激动地冲上前去,击败敌方英雄的罗什曼那向俱槃羯罗射出一支金羽大箭。
3.288.14
स तस्य देहावरणं भित्त्वा देहं च सायकः ।
जगाम दारयन्भूमिं रुधिरेण समुक्षितः ॥ ३.२८८.१४ ॥
那支箭穿透了他的身甲与身体,裂开大地而去,沾满了鲜血。
3.288.15
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् ।
वेगेन महताऽऽविष्टस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ३.२८८.१५ ॥
他心脏被刺穿,松开了猴王,被巨大的怒气所攫,喊道:“站住,站住!”
3.288.16
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ।
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ॥ ३.२८८.१६ ॥
大弓手俱槃羯罗以石为武器,举起巨石向苏弥德拉扑去。
3.288.17
तस्याभिपततस्तूर्णं क्षुराभ्यामुच्छितौ करौ ।
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ॥ ३.२८८.१७ ॥
他急速冲来时,高举的双手被锋利如刀的箭矢斩断,于是他变成了四臂。
3.288.18
तानप्यस् भुजान्सर्वान्प्रगृहीतशिलायुधान् ।
क्षुरैश्चिच्छेदलघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् ॥ ३.२८८.१८ ॥
精于兵器的苏弥德拉以刀刃箭斩断了所有持石兵器的手臂,展示了他的技艺。
3.288.19
स बभूवातिकायश्च बहुपादशिरोभुजः ।
तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम् ॥ ३.२८८.१९ ॥
他化为巨大的身躯,拥有许多足、头和臂。补路人以梵天神箭将他劈开,如同一堆山峦。
3.288.20
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे ।
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ॥ ३.२८८.२० ॥
这位大勇士在战场上被神箭射中,倒下了,如同被大雷击焚的发芽之树。
3.288.21
तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम् ।
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ॥ ३.२८८.२१ ॥
看见迅捷如弗栗多的俱睡,已无气息倒在地上,罗刹们因恐惧而逃散。
3.288.22
तथातान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ ।
अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम् ॥ ३.२८८.२२ ॥
看见战士们如此逃散,杜沙那的两位幼弟阻住补路人,怒气冲冲地扑向他。
3.288.23
तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ ।
अभिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ॥ ३.२८८.२३ ॥
这两人以雷霆之速怒气冲冲地奔来,补路人大吼一声,用箭将二人一并擒住。
3.288.24
ततः सुतुमुलं युद्धमभवद्रोमहर्षणम् ।
दूषणानुजयोः पार्थ लक्ष्मणस् च धीमतः ॥ ३.२८८.२४ ॥
于是,阿周那啊,杜沙那的幼弟与智慧的罗什曼那之间爆发了一场极为激烈、令人毛骨悚然的大战。
3.288.25
महता शरवर्षेण राक्षसौ सोऽभ्यवर्पत ।
तं चापिवीरौ संक्रुद्धावुभौ तौ समवर्षताम् ॥ ३.२८८.२५ ॥
他以大量箭雨倾注于两个罗刹身上,而那两位愤怒的英雄也以箭雨回击他。
3.288.26
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः ।
सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः ॥ ३.२८८.२६ ॥
片刻之间,两位摧毁金刚速的勇士与大臂的苏弥扪之间发生了极为激烈的交锋。
3.288.27
अथाद्रिशृङ्गमादाय हनुमान्मारुतात्मजः ।
अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ॥ ३.२८८.२७ ॥
于是风之子哈努曼举起山峰,冲向罗刹金刚速,夺去了他的性命。
3.288.28
नीलश्च महता ग्राव्णा दूपणावरजं हरिः ।
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः ॥ ३.२८८.२८ ॥
力大的猴子尼罗竟以一块大石冲向那毁灭者,把杜沙那的幼弟碾碎了。
3.288.29
ततः प्रावर्तत पुनः संग्रामः कटुकोदयः ।
रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ ३.२८८.२९ ॥
于是,罗摩与罗波那的大军彼此冲杀,激烈的战斗再度爆发。
3.288.30
शतसो नैर्ऋतान्वन्या जघ्नुर्वन्यांश्च नैर्ऋताः ।
नैर्ऋतास्तत्रवध्यन्ते प्रायेण न तु वानराः ॥ ३.२८८.३० ॥
林中的猴子杀死了数百名罗刹,而罗刹也杀死了林中的猴子;在那里,被杀的多是罗刹,而非猴子。