摩诃婆罗多 · 章 3.289
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.289.1
ततः श्रुत्वाहतं सङ्ख्ये कुम्भकर्णं सहानुगम् ।
प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ॥ ३.२८९.१ ॥
听闻俱缚罗那与其部众战死,还有大弓手普罗诃斯多和极其光辉的达摩罗刹也已阵亡,
3.289.2
पुत्रमिनद्रजितं वीरं रावणः प्रत्यभाषत ।
जहिरामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ॥ ३.२८९.२ ॥
罗波那回答他英勇的儿子因陀罗耆多说:"灭敌者啊,去杀死罗摩,以及与罗什曼那同在的须羯哩婆。"
3.289.3
त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् ।
जित्वावज्रधरं सङ्ख्ये सहस्राक्षं शचीपतिम् ॥ ३.२८९.३ ॥
好儿子啊,正是由于你,我赢得了光耀的声名;你在战斗中战胜了执金刚、千眼者、舍尔之主(因陀罗)。
3.289.4
अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः ।
जहि शत्रूनमित्रघ्न मम शस्त्रभृतांवर ॥ ३.२८९.४ ॥
无论敌人隐藏还是显露,都用凭恩赐所得的神箭杀死他们吧——灭敌者啊,我的持械者中最优秀的人!
3.289.5
रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ ।
समर्थाः प्रतिसोढुं च कुतस्तदनुयायिनः ॥ ३.२८९.५ ॥
无罪者啊,罗摩、罗什曼那和须羯哩婆连你箭矢的触碰都承受不住;那么追随他们的人又怎能承受?
3.289.6
अगता या प्रहस्तेन कुम्भकर्णेन चानघ ।
खरस्यापचितिः सङ्ख्ये तां गच्छ त्वे महाभुज ॥ ३.२८९.६ ॥
无罪者啊,普罗诃斯多与俱缚罗那未能完成的、为卡罗复仇之事,便是此战中的复仇。大臂者啊,去完成它吧。
3.289.7
त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् ।
प्रतिनन्दय मां पुत्र पुरा जित्वेव वासवम् ॥ ३.२८९.७ ॥
儿啊,今日你以利箭杀尽敌人及其士卒,使我欢喜,犹如昔日你战胜伐娑婆(因陀罗)一般。
3.289.8
इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशिथः ।
प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ॥ ३.२८९.८ ॥
他听后说:「就照你说的办。」随即登上战车,披甲的因陀罗胜者,大王啊,迅速奔赴战场。
3.289.9
ततो विश्राव्य विस्पष्टं नाम राक्षसपुङ्गवः ।
आह्वयामास समरे लक्ष्मणं शुभलक्षणम् ॥ ३.२८९.९ ॥
于是罗刹中的翘楚清楚地报上自己的名字,在战场上向吉相的罗什曼那挑战。
3.289.10
तं लक्ष्मणोऽभ्यधावच्च प्रगृह्य सशरं धनुः ।
त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ॥ ३.२८९.१० ॥
罗什曼那持箭挽弓向他冲去,以拍掌之声使其惊恐,如同狮子扑向小鹿一般。
3.289.11
तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः ।
दिव्यास्त्रविदुपोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ॥ ३.२८९.११ ॥
那时,二人皆渴望胜利,精通神圣兵器,彼此竞争,遂爆发了极为猛烈的大战。
3.289.12
रावणिस्तु यदा नैनं विशेषयति सायकैः ।
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥ ३.२८९.१२ ॥
然而,当罗婆那之子(因陀罗胜者)无法以箭矢胜过他时,力士中的翘楚便付出了更加巨大的努力。
3.289.13
तत एवं महावेगैरर्दयामास तोमरैः ।
तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ॥ ३.२८९.१३ ॥
于是他以极大速度用投枪攻击他们;萨乌米特里以锐利的箭斩断了飞来的投枪。
3.289.14
ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्धरणीतले ।
साधका रावणेराजौ शतशः शकलीकृताः ॥ ३.२८९.१४ ॥
那些被锐利箭矢斩断的罗婆那之子的随从,在战斗中被砍成数百段,倒在地上。
3.289.15
तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् ।
अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ॥ ३.२८९.१५ ॥
瓦林之子光辉的盎伽达举起一棵树,以极大速度冲向他,击中他的头部。
3.289.16
तस्येन्द्रजिदसंभ्रान्तः प्रासेनोरसि वीर्यवान् ।
प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः ॥ ३.२८९.१६ ॥
因岸的打击而不动摇,勇武的因陀罗耆特想用投枪刺他的胸膛;罗什曼那却斩断了那支投枪。
3.289.17
तमभ्याशगतं वीरमङ्गदं रावणात्मजः ।
गदयाऽताडयत्सव्ये पार्श्वेवानरपुङ्गवम् ॥ ३.२८९.१७ ॥
罗婆那之子用锤子击打了走近的英雄盎伽达的左侧——那位猴子中的翘楚。
3.289.18
तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः ।
ससर्जेन्द्रजितः क्रोधात्सालस्कन्धं तथाङ्गदः ॥ ३.२८९.१८ ॥
瓦林之子、力大的盎伽达不理会那意外的打击,愤怒地向因陀罗耆特投掷了一根娑罗树干。
3.289.19
सोऽङ्गदेन रुपोत्सृष्टो वधायेन्द्रजितस्तरुः ।
जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् ॥ ३.२८९.१९ ॥
啊,普利塔之子!安gada愤怒地投出一棵树,意在杀死因陀罗吉特,树击中了因陀罗吉特,连同马匹和御者一起摧毁了他的战车。
3.289.20
ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः ।
तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ॥ ३.२८९.२० ॥
此时马匹被杀、御者也已身亡,罗波那之子从战车跳下,啊,国王,他就在那里凭借幻术消失了。
3.289.21
अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् ।
रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ॥ ३.२८९.२१ ॥
罗摩得知这罗刹已隐身,且擅长多种幻术,便来到那地方,从四面保护自己的军队。
3.289.22
स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा ।
विव्याध सर्वगात्रेषु लक्ष्मणं च महाबलम् ॥ ३.२८९.२२ ॥
那位蒙受恩赐的罗刹瞄准罗摩,用箭射穿了他的全身,也射穿了强大的罗什曼那。
3.289.23
तमदृश्यंशरैः शूरौ माययाऽन्तर्हितं तदा ।
योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ॥ ३.२८९.२३ ॥
此时,罗波那之子隐身于幻术之中,不可见,罗摩与罗什曼那这两位英雄便用箭与他作战。
3.289.24
स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः ।
व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ॥ ३.२८९.२४ ॥
他怒不可遏,又向那两位人中雄狮的全身射出成百上千的箭矢。
3.289.25
तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् ।
हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ॥ ३.२८९.२५ ॥
猴子们寻找那不可见、不停放箭的敌人,手持巨石,冲入天空。
3.289.26
तांश्च तौ चाप्यदृश्यः सशरैर्विव्याध राक्षसः ।
स भृशं ताडयामास रावणिर्मायया वृतः ॥ ३.२८९.२६ ॥
那隐形的罗刹也用箭射穿了他们和那两人。被幻术包裹的罗波那之子猛烈地击打他们。
3.289.27
तौ शरैरर्दितौ वीरौ भ्रारौ रामलक्ष्मणौ ।
पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ॥ ३.२८९.२७ ॥
被箭所伤,那两位英勇的兄弟罗摩与罗什曼那,如日月一般从天空坠落到大地。