摩诃婆罗多 · 章 3.290
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.290.1
तावुभौ पतितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ॥ ३.२९०.१ ॥
罗波那之子见两位兄弟罗摩与罗什曼那倒地,便以因恩赐而得的箭再次将他们捆缚。
3.290.2
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे ।
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ॥ ३.२९०.२ ॥
两位英雄在战场上被因陀罗耆多以箭网捆缚,宛如笼中两只鸟,人中虎豹般闪耀着。
3.290.3
दृष्ट्वा निपतितौ भूमौ सर्वाङ्गेषु शराचितौ ।
सुग्रीवः कपिभिः सार्धं परिवार्योपतस्तिवान् ॥ ३.२९०.३ ॥
见二人倒卧地上,全身都插满箭矢,须羯哩巫与诸猴将他们团团围住,走上前来。
3.290.4
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च ।
हनुमननीलतारैश्च नलेन च कपीश्वरः ॥ ३.२९०.४ ॥
猴王将苏舍那、门陀与德维维陀、俱牟陀与安伽陀、哈奴曼、尼罗与多罗以及那罗安置在他们周围。
3.290.5
ततस्तं देशमागम्य कृतकर्मा विभीषणः ।
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रमोहितौ ॥ ३.२९०.५ ॥
随后,已完成其使命的毗卑沙那来到那里,以智慧之箭唤醒了那两位被迷惑的英雄。
3.290.6
विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह ।
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥ ३.२९०.६ ॥
须羯哩巫在一瞬间便以名为毗舍利耶的大药草,配合神圣咒语,使这二人拔除了箭矢。
3.290.7
तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम् ।
उभौ गतक्लमौ चास्तां णेनैतौ महारथौ ॥ ३.२९०.७ ॥
两位人中俊杰恢复知觉,箭镞已被拔除,纷纷起身。二人的疲惫尽皆消除,转瞬之间,这两位大车战士便恢复如初。
3.290.8
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् ।
उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः ॥ ३.२९०.८ ॥
于是,普利塔之子啊,维毗沙那见到甘蔗王族之乐罗摩已无忧伤,合掌说出了这些话。
3.290.9
अयमम्भो गृहीत्वातु राजराजस् शासनात् ।
गुह्कोऽभ्यागतः श्लेतात्त्वत्सकाशमरिंदम ॥ ३.२९०.९ ॥
降伏敌人者啊,这水是由一位夜叉奉众王之王俱毗罗之命,从白山带来,来到您的面前。
3.290.10
इदमम्भः कुबेरस्ते महाराज प्रयच्छति ।
अन्तर्हितानां भूतानां दर्शनार्थं परंतप ॥ ३.२९०.१० ॥
俱毗罗赐予您此水,伟大的国王啊,焚烧敌人者啊,使您得以看见隐匿的众生。
3.290.11
अनेन मृष्टनयनो भूतान्यन्तर्हितान्युत ।
भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ॥ ३.२९०.११ ॥
借此您的双眼将得以清净,您将看见隐匿的众生;您赐予的人也将看见它们。
3.290.12
तथेति रामस्तद्वारि प्रतिगृह्याभिसंस्कृतम् ।
चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः ॥ ३.२९०.१२ ॥
罗摩说“就这样吧”,接过那经过加持的水,以此洗净双眼;心胸宽广的罗什曼那也如此做了。
3.290.13
सुग्रीवजाम्बवन्तौ चहनुमानङ्गदस्तथा ।
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ॥ ३.२९०.१३ ॥
须羯哩婆、耆婆多、哈奴曼、安伽达,以及曼达、德维维达和尼罗——他们大多是猴群中最优秀的。
3.290.14
तथासमभवच्चापि यदुवाच विभीषणः ।
क्षणेनातीन्द्रियाण्येषां चक्षुंष्यासन्युधिष्ठिर ॥ ३.२९०.१४ ॥
正如毗毗沙那所言,事情便发生了;转瞬之间,他们的眼睛变得超越感官,黠提腻提啊。
3.290.15
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदाऽऽत्मनः ।
निवेद्य पुनरागच्छत्त्वरयाऽऽजिशिरःप्रति ॥ ३.२९०.१५ ॥
因陀罗耆使完成了自己的事,将此事禀告父亲,随即急速返回战阵前线。
3.290.16
तमागतं तु संक्रुद्धं पुनरेव युयुत्सया ।
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः ॥ ३.२९०.१६ ॥
对于那怒气冲冲返回的他,遵从毗毗沙那之议而立于一旁的萨乌弥特里(罗什曼那)又因渴望交战而再次冲杀上去。
3.290.17
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् ।
शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः ॥ ३.२९०.१७ ॥
罗什曼那怒火中烧,欲杀那尚未行日常祭礼、自以为得胜的人,便以箭射击他。
3.290.18
तयोः समभवद्युद्धं तदाऽन्योन्यं जीगीषतोः ।
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥ ३.२९०.१८ ॥
此时二人各欲取胜,彼此交战,其战况极为奇异而令人惊叹,宛如帝释天与波罗诃罗陀之战。
3.290.19
अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः ।
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ॥ ३.२९०.१९ ॥
因陀罗耆多以锋利、穿透要害的箭射中了Saumitri,Saumitri则以如火灼烧的箭射中了罗波尼。
3.290.20
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्च्छितः ।
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ॥ ३.२९०.२० ॥
罗波尼因被Saumitri的箭所触,怒火中烧,向Lakṣmaṇa射出八支如毒蛇般的箭。
3.290.21
तस्येषून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः ।
वारयामास नाराचैः सौमित्रिर्मित्रनन्दनः ॥ ३.२९०.२१ ॥
令朋友欢喜的Saumitri以三支如火灼烧的箭与铁制nārāca箭挡下了那些箭。
3.290.22
असृजल्लक्ष्मणश्चाष्टौ राक्षसाय शरान्पुनः ।
तथा तं न्यहनद्वीरस्तन्मे निगदतः शृणु ॥ ३.२९०.२२ ॥
Lakṣmaṇa又向罗刹射出八支箭,那位英雄就这样击中了他。请听我讲述。
3.290.23
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् ।
द्वितीयेन तु बाणेन भुजमन्यमपातयत् ॥ ३.२९०.२३ ॥
他一箭从身上斩下那持弓者的手臂,又以第二箭斩断了另一只手臂。
3.290.24
तृतीयेन तु बाणेन शितधारेण भास्वता ।
जहार सुनसं चापि शिरो ज्वलितकुण्डलम् ॥ ३.२९०.२४ ॥
他又以第三支闪亮锋利的箭,斩下了那鼻梁秀美、耳环闪耀的头颅。
3.290.25
विनिकृत्तभुजस्कन्धः कबन्धाकृतिदर्शनः ।
पपात वसुधायां तु छिन्नमूल इवद्रुमः ॥ ३.२९०.२५ ॥
他双臂与双肩被斩断,形如无头的躯干,像被斩断根部的树木一样倒在地上。
3.290.26
तं हत्वासूतमप्यस्त्रैर्जघान बलिनंवरः ।
लङ्कां प्रवेशयामासुस्तं रथं वाजिनस्तदा ॥ ३.२९०.२६ ॥
杀死他之后,这位最强者又以兵器击杀了御者;那时,马匹将战车带入了楞伽城。
3.290.27
ददर्श रावणस्तं च रथं पुत्रविनाकृतम् ।
स पुत्रं निहतं श्रुत्वा त्रासात्संभ्रान्तमानसः। ॥ ३.२९०.२७ ॥
罗波那看见那辆失去儿子的战车;听说儿子已被杀死,他因恐惧而心神慌乱。
3.290.28
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ।
ङ्गमादाय दुष्टात्मा जवेनाभिपपात ह ॥ ३.२९०.२८ ॥
罗波那因悲痛与迷乱而煎熬,决意杀死毗提诃;那心术邪恶的人拔出剑,迅速向她扑去。
3.290.29
तं दृष्ट्वातस्य दुर्बुद्देरविन्ध्यः पापनिश्चयम् ।
शमयामास संक्रुद्धं श्रूयतां येन हेतुना ॥ ३.२९०.२९ ॥
阿文底耶见那心术不正者的罪恶决意,便安抚了愤怒的罗波那;请听他是出于何种缘由。
3.290.30
महाराज्येस्थितो दीप्ते न स्त्रियं हन्तुमर्हसि ।
हतैवैषा यदा स्त्री च कबन्धनस्था च ते वशे ॥ ३.२९०.३० ॥
你立足于伟大而辉煌的王国,杀害女子对你并不合适;她早已在无头躯体的掌控下形同已死,而现在她已在你的掌握之中。
3.290.31
न चैषा दहभेदेन हतास्यादिति मे मतिः ।
जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् ॥ ३.२९०.३१ ॥
焚烧或肢解都无法杀死她,这是我的看法。只需杀死她的丈夫;他一死,她也就死了。
3.290.32
न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः ।
असकृद्धि त्वया सन्द्रास्त्रासितास्त्रिदसा युधि ॥ ३.२९०.३२ ॥
即便百祭之主因陀罗本人,也比不上你的勇武,因为你在战场上屡次使诸天神逃遁、令其惊恐。
3.290.33
एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा ।
क्रुद्धं संशमयामास जगृहे च स तद्वचः ॥ ३.२९०.३३ ॥
阿文底耶便以种种言语安抚了当时愤怒的罗波那,罗波那也听从了他的话。
3.290.34
निर्याणे स मतिं कृत्वा नियन्तारं क्षपाचरः ।
आज्ञापयामास तदारथो मे कल्प्यतामिति ॥ ३.२९०.३४ ॥
夜行者决定出发,便吩咐他的御者:“备好我的战车。”