Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.291

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.291.1

ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते ।
निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ॥ ३.२९१.१ ॥

于是,十首罗波那因爱子倒下而大怒,登上饰以黄金与宝石的战车出发了。

3.291.2

संवृतोराक्षसैर्घेरैर्विविधायुधपाणिभिः ।
अभिदुद्राव रामं स पोथयन्हरियूथपान् ॥ ३.२९१.२ ॥

他被可怕的罗刹簇拥,手持各种兵器,冲向罗摩,践踏着猴群的首领。

3.291.3

तमाद्रवन्तं संक्रुद्ध मैन्दनीलनलाङ्गदाः ।
हनुमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ॥ ३.२९१.३ ॥

摩因达、那罗、那罗、盎伽陀、哈努曼和遮媻婆率各自军队,将怒气冲冲扑来的他团团围住。

3.291.4

ते दशग्रीवसैन्यं तदृक्षवानरपुङ्गवाः ।
द्रुमैर्विध्वंसयांचक्रुर्दशग्रीवस्य पश्यतः ॥ ३.२९१.४ ॥

那些熊族与猴中的上首,用树木将罗波那的那支军队捣碎摧毁,而罗波那就在一旁看着。

3.291.5

ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः ।
मायावी चासृजन्मायां रावणो राक्षसाधिपः ॥ ३.२९१.५ ॥

此时罗波那见自己的军队正被敌人杀戮,这位罗刹之主、幻术大师便施展了幻术。

3.291.6

तस्य देहविनिष्क्रान्ताः शतशोऽथ सहस्रशः ।
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ॥ ३.२९१.६ ॥

从他的身体里涌现出成百上千的罗刹,手中握着箭、矛与投枪。

3.291.7

तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् ।
अथ भूयोपि मायां स व्यदधाद्राक्षसाधिपः ॥ ३.२९१.७ ॥

罗摩以神圣武器击杀了他们所有人;于是罗刹之主又施展了幻术。

3.291.8

कृत्वा रामस् रूपाणि लक्ष्मणस्य च भारत ।
अभिदुद्राव रामं च लक्ष्मणं च दशाननः ॥ ३.२९१.८ ॥

婆罗多之子啊,十首罗刹化出罗摩与罗什曼那的形象,扑向罗摩和罗什曼那。

3.291.9

ततस्ते राममर्च्छन्तो लक्ष्मणं च क्षपाचराः ।
अभिपेतुस्तदा रामं प्रगृहीतशरासनाः ॥ ३.२९१.९ ॥

那些夜行的罗刹朝罗摩和罗什曼那逼近,手持张开的弓,扑向罗摩。

3.291.10

तां दृष्ट्वाराक्षसेन्द्रस् मायामिक्ष्वाकुनन्दनः ।
उवाच रामः सौमित्रिमसंभ्रान्तो बृहद्वचः ॥ ३.२९१.१० ॥

罗摩见到罗刹王的那种幻术,毫不慌乱,对罗什曼那说了这番庄重的话。

3.291.11

जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् ।
इत्युक्त्वाऽभ्यहनद्रामो लक्ष्मणश्चात्मरूपकान् ॥ ३.२९१.११ ॥

“杀死这些化作我们自身模样的邪恶罗刹!”说罢,罗摩和罗什曼那便击打那些与他们自己同样形貌的罗刹。

3.291.12

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ।
उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥ ३.२९१.१२ ॥

于是,因陀罗的御者摩多梨驾着由黄褐色马拉动、光辉如太阳的战车,在战场上来到罗摩面前。

3.291.13

अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः ।
त्वदर्थमिह संप्राप्तः संदेशाद्वै शतक्रतोः ॥ ३.२९१.१३ ॥

这辆由黄褐色骏马驾驭的凯旋战车,是因陀罗最好的车;它应百祭(Śatakratu)之命,为你而来到此地。

3.291.14

अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् ।
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ॥ ३.२९१.१४ ॥

因陀罗正是凭借此车,啊,迦古特斯塔,在战场上斩杀了数百名提迭与檀那婆,啊,人中之虎,凭借这辆高贵的战车。

3.291.15

तदनन नरव्याघ्र मया यत्तेन संयुगे ।
स्यन्दनेन जहिक्षिप्रं रावणं मा चिरं कृथाः ॥ ३.२९१.१५ ॥

因此,啊,人中之虎,在我的催促下,请在战场上乘此车迅速杀死罗婆那,不要迟疑。

3.291.16

इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः ।
मायैषाराक्षसस्येति तमुवाच विबीषणः ॥ ३.२९१.१६ ॥

摩多利如此说了,罗怙后裔仍怀疑摩多利的实语。于是毗跋沙那对他说:“这是罗刹的幻术。”

3.291.17

नेयं माया नरव्याघ्ररावणस् दुरात्मनः ।
तदातिष्ठ रथंशीघ्रमिमसैन्द्रं महाद्युते ॥ ३.२९१.१७ ॥

这不是恶魂罗婆那的幻术,啊,人中之虎。因此,啊,大光辉者,快登上这辆因陀罗之车。

3.291.18

ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् ।
रथेनाभिपपाताथ दशग्रीवं रुषाऽन्वितः ॥ ३.२९१.१८ ॥

于是,欢喜的迦古特斯塔对毗跋沙那说:“就这样吧。”遂满怀愤怒,乘车冲向十颈的罗婆那。

3.291.19

हाहाकुतानि भूतानि रावणे समभिद्रुते ।
सिंहनादाः सपटहादिति दिव्यास्तथाऽनदन् ॥ ३.२९१.१९ ॥

罗波那冲锋而来时,众生惊呼“哎呀!哎呀!”,神圣的狮吼与鼓声同时响起。

3.291.20

दशकन्धरराजसून्वोस्तथा युद्धमभून्महत् ।
अलब्धोपममन्यत्रतयोरेव तथाऽभवत् ॥ ३.२९१.२० ॥

十首罗刹之王与其子之间同样爆发了一场大战;这二人之战,他处再无可比。

3.291.21

सरामाय महाघोरं विससर्ज निशाचरः ।
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डभिवोद्यतम् ॥ ३.२९१.२१ ॥

夜行者向罗摩掷出一支极为可怖的长矛;它如因陀罗的霹雳,又如梵天的杖般高举。

3.291.22

तच्छूलं सत्वरं रामश्चच्छेद निशितैः शरैः ।
तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ॥ ३.२९१.२२ ॥

罗摩以利箭迅速斩断了那支长矛;罗波那见此难为之事,心中生出恐惧。

3.291.23

ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्छरान् ।
सहस्रायुतशो रामे शस्त्राणि विविधानि च ॥ ३.२९१.२३ ॥

于是愤怒的十首罗刹迅速向罗摩射出利箭,以及各式兵器,成千上万,不计其数。

3.291.24

ततो भुशुण्डीः शूलानि मुसलानि परश्वथान् ।
शक्तीश्च विविधाकाराः शतघ्नीश्च शितान्क्षुरान् ॥ ३.२९१.२४ ॥

随后他掷出了 bhuśuṇḍī、长矛、铁杵、战斧、各式形状的标枪、śataghnī 以及锋利的 kṣurapra 刃箭。

3.291.25

तां मायांविविधां दृष्ट्वा दशग्रीवस्य रक्षसः ।
भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ॥ ३.२९१.२५ ॥

诸猴见十首罗刹的种种幻术,因恐惧而向四面八方奔逃。

3.291.26

ततः सुपत्रं सुमुखंहेमपुङ्गं शरोत्तमम् ।
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ॥ ३.२९१.२६ ॥

于是迦克坦斯特之子罗摩从箭袋中取出一支上好的箭,羽翎美好、箭头锋利、杆有金饰,以梵天神箭加持之。

3.291.27

तं प्रेक्ष्यबाणं रामेण ब्रह्मास्त्रेणानुमन्त्रितम् ।
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ॥ ३.२९१.२७ ॥

见罗摩以梵天神箭加持的那支箭,以帝释为首的诸天神与乾闼婆欢喜雀跃。

3.291.28

अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः ।
ब्रह्मास्त्रोदीरणाच्छत्रोर्देवदानवकिंनराः ॥ ३.२९१.२८ ॥

梵天神箭既已发出,诸天神、檀那婆与紧那罗都认为敌方罗刹的寿命所剩无几。

3.291.29

ततः ससर्ज तं रामः शरमप्रतिमौजसम् ।
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ॥ ३.२९१.२९ ॥

于是罗摩发出那支威力无双、可致罗波那毁灭的可怖之箭,如同高举的梵杖。

3.291.30

मुक्तमात्रेण रामेण दूराकृष्टेन भारत ।
स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः।
प्रजज्वाल महाज्वालेनाग्निनाभिपरिप्लुतः ॥ ३.२९१.३० ॥

婆罗多之子啊,罗摩自远处拉弓射出后,那位罗刹中的翘楚连同战车、马匹与御者,即被巨大火焰所包围而熊熊燃烧。

3.291.31

ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः ।
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ ३.२९१.३१ ॥

于是诸天神与乾闼婆、遮罗那欢喜,见罗婆那被不费力行事的罗摩杀死,

3.291.32

तत्यजुस्तं महाभागं पञ्चभूतानि रावणम् ।
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ॥ ३.२९१.३२ ॥

五大元素舍弃了那位大福德的罗婆那,他因梵箭之威而在一切世界中坠落。

3.291.33

शरीरधातवो ह्यस् मासं रुधिरमेव च ।
नेशुर्ब्रह्मास्त्रनिर्दग्दा न च भस्माप्यदृश्यत ॥ ३.२९१.३३ ॥

身体的诸元素——肉、血与凝血——皆被梵箭焚毁而灭,连灰烬也不可见。