Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.292

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.292.1

स हत्वा रावयणं क्षुद्रं राक्षसेनद्रं सुरद्विषम् ।
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ॥ ३.२९२.१ ॥

罗摩杀死了卑劣的罗刹王、诸神之敌罗波那,与友人及宁弥怛(罗什曼那)一同欢喜。

3.292.2

ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः ।
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ॥ ३.२९२.२ ॥

十首罗波那被杀之后,以仙人为首的诸神以胜利的祝福礼敬这位大臂者。

3.292.3

रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः ।
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ॥ ३.२९२.३ ॥

诸神皆赞颂莲花瓣眼的罗摩;乾闼婆以花雨供养,天界居民以言辞赞美他。

3.292.4

पूजयित्वा रणे रामं प्रतिजग्मुर्यथागतम् ।
तन्महोत्सवसंकाशमासीदाकाशमच्युत ॥ ३.२९२.४ ॥

在战场上礼敬罗摩之后,诸神按原路返回。哦,阿邱陀,那天空变得如同盛大的节日。

3.292.5

ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः ।
विभीषणाय प्रददौ प्रभुः परपुरंजयः ॥ ३.२९२.५ ॥

此后罗摩杀死十首罗波那,这位大名的主宰、征服敌城者,将楞伽赐予了毗भीषण。

3.292.6

ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् ।
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ ॥ ३.२९२.६ ॥

随后,将毗भीषण与悉多置于前列,名为阿文底耶的聪慧老大臣走了出来。

3.292.7

उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् ।
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ॥ ३.२९२.७ ॥

他对陷于沮丧之中的伟大者迦古特斯塔说:"请接纳这位品行端正的王后、伟大的悉多。"

3.292.8

एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् ।
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ॥ ३.२९२.८ ॥

听到这番话,伊刹瓦库之子从那辆上等战车上下来,看见被泪水遮蔽的悉多。

3.292.9

तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् ।
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् ॥ ३.२९२.९ ॥

他看见她——全身秀美,坐在车中,因悲伤而消瘦,全身沾满污垢,头发蓬乱,身穿黑衣。

3.292.10

उवाच रामो वैदेहीं परामर्शविशङ्कितः ।
लक्षयित्वेङ्गितं सर्वं प्रियं तस्यै निवेद्य सः ॥ ३.२९२.१० ॥

罗摩心怀猜疑,观察她的一切神情,并向她转告了一句悦耳的话,然后对毗提诃之女说道。

3.292.11

गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तनमया कृतम् ।
मामासाद्यपतिं भद्रे न त्वं राक्षसवेश्मनि।
जरां व्रजेथा इतिमे निहतोसौ निशाचरः ॥ ३.२९२.११ ॥

去吧,毗提诃之女,你已获自由;应当完成的事,我并非独自完成。善良的女子啊,不要留在罗刹的屋中;来到你的丈夫身边。那夜行者已被我杀死。

3.292.12

कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् ।
परहस्तगतां नारीं मुहूर्तमपि धारयेत् ॥ ३.२९२.१२ ॥

像我们这样知晓法则定断的人,怎能把已落入他人之手的女子留在身边,哪怕一刻?

3.292.13

सुवृत्तामसुवृत्तां वाऽप्यहं त्वामद्य मैथिलि ।
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ॥ ३.२९२.१३ ॥

摩提罗之女啊,无论你品行端正还是不端,今日我都不愿享用你,犹如被狗舔过的祭品。

3.292.14

ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः ।
पपात देवी व्यथिता निकृत्ता कदली यथा ॥ ३.२९२.१४ ॥

那少女听到这些严厉的话,忽然痛苦,像被砍断的芭蕉树一样,这位女神倒下了。

3.292.15

योप्यस्या हर्षसंभूतो मुखरागः पुराऽभवत् ।
क्षणेन सपुनर्नष्टो निःश्वासादिव दर्पणे ॥ ३.२९२.१५ ॥

她脸上先前因喜悦而泛起的红晕,转瞬之间又消失了,如同呵在镜上的气息。

3.292.16

ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् ।
गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ॥ ३.२९२.१६ ॥

那时,所有猴子听了罗摩的这番话,与罗什曼那一起,仿佛失去生命般僵立不动。

3.292.17

ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः ।
पद्मयोनिर्जगत्स्रष्टा दर्शयामास राघवम् ॥ ३.२९२.१७ ॥

那时,心地纯净、四面、生于莲花、创造世界的神,乘坐天车向罗ghava显现。

3.292.18

शक्रश्चाग्निश्च वायुश्चयमो वरुण एव च ।
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ॥ ३.२९२.१८ ॥

因陀罗、火神、风神、阎摩、伐楼那,以及夜叉之主尊者,还有无瑕的七仙人。

3.292.19

राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् ।
विमानेन महार्हेण हंसयुक्तेन भास्वता ॥ ३.२९२.१९ ॥

国王十车王也以神圣光辉的形象,乘坐由天鹅牵引的珍贵闪耀飞车出现。

3.292.20

ततोऽन्तरिक्षं तत्सर्वंदेवगन्धर्वसंकुलम् ।
शुशुभे तारकाचित्रं शरदीव नभस्तलम् ॥ ३.२९२.२० ॥

于是,充满天神与乾闼婆的整个天空,如秋天点缀着星辰的天空般闪耀。

3.292.21

तत उत्थाय वैदेही तेषां मध्ययशस्विनी ।
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् ॥ ३.२९२.२१ ॥

于是,荣耀而吉祥的毗提诃公主从他们中间站起,对宽阔胸膛的罗摩说了这些话。

3.292.22

राजपुत्र न ते कोपं करोमि विदिताहि मे ।
गतिः स्त्रीणां नराणां च शृणु चदं वचो मम ॥ ३.२९२.२२ ॥

王子,我并不怪你;女人与男人的命运之途我是知晓的。请听我这番话。

3.292.23

अन्तश्चरतिभूतानां मातरिश्वा सदागतिः ।
स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् ॥ ३.२९२.२३ ॥

愿遍行于众生之内、恒常运行的风神摩陀利瑟文,若我行恶,便夺去我的生命之息。

3.292.24

अग्निरापस्तथाऽऽकाशं पृथिवी वायुरेव च ।
विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ॥ ३.२९२.२४ ॥

愿火、水、虚空、地与风,若我行恶,也同样夺去我的生命之息。

3.292.25

यथाऽहं त्वदृतेवीर नान्यंस्वप्नेऽप्यचिन्तयम् ।
तथा मे देव निर्दिष्टस्त्वमेव हि पतिर्भव ॥ ३.२९२.२५ ॥

英雄啊,我即使在梦中也从未想过你以外的任何男子;同样,神啊,唯有你被指定为我的丈夫。

3.292.26

ततोऽन्तरिक्षे वागारीत्सुभगा लोकसाक्षिणी ।
पुण्यासंहर्षणी तेषां वानराणां महात्मनाम् ॥ ३.२९२.२६ ॥

于是天空中响起一个吉祥神圣的声音,它是三界的见证者,使那些伟大的猴子欢喜。

3.292.27

बोभो राघव सत्यं वै वायुरस्मि सदागतिः ।
अपापा मैथिली राजन्संगच्छसहभार्यया ॥ ३.२९२.२७ ॥

罗怙之子啊,这是真的:我是风神,永远在运行。国王啊,摩ithili无罪;请与你的妻子一同接纳她。

3.292.28

अहमन्तःशरीरस्थो भूतानां रघुनन्दन ।
सुसूक्ष्ममपि काकुत्स्थ मैथिलीनापराध्यति ॥ ३.२९२.२८ ॥

罗怙之喜悦啊,我居住在众生的身体之内。卡古特斯塔啊,摩dhili甚至连极细微的过错也未曾犯下。

3.292.29

रसावै मत्प्रसूता हि भूतदेहेषु राघव ।
अहंवै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् ॥ ३.२९२.२९ ॥

罗怙之子啊,众生身体中的精液确实由我所生。我告诉你:请接纳摩dhili。

3.292.30

धर्मोऽहमस्मि काकुत्स्थ साक्षी लोकस्य कर्मणाम् ।
शुभाशुभानां सीतेयमपापा प्रतिगृह्यताम् ॥ ३.२९२.३० ॥

卡古特斯塔啊,我是法(达摩),是世间善恶行为的见证。此悉多无罪,请接纳她。

3.292.31

पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मणि ।
साधो सद्वृत्त काकुत्स्थ शृणु चेदं वचो मम ॥ ३.२९२.३१ ॥

孩子啊,你守护王仙之法,此事并不奇怪。善人,德行端正的迦古特stha,请听我这句话。

3.292.32

शत्रुरेष त्वया वीर देवगनधर्वभोगिनाम् ।
यक्षाणां दानवानां च महर्षीणां च पातितः ॥ ३.२९२.३२ ॥

英雄啊,这个为诸天、乾闼婆、龙蛇、夜叉、檀那婆和大仙所憎的敌人,已被你打倒。

3.292.33

अवध्यः सर्वभूतानां मत्प्रसादात्पुराऽभवत् ।
कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः ॥ ३.२९२.३३ ॥

从前蒙我的恩典,他对一切众生都是不可杀者。因某种缘故,那罪人曾被忽视了一段时间。

3.292.34

वधार्थमात्मनस्तेन हृता सीता दुरात्मना ।
नलकूबरशापेन रक्षा चास्याः कृता मया ॥ ३.२९२.३४ ॥

那个心怀恶念的人为了自身的毁灭而劫走了悉多;而由于那罗俱婆罗的诅咒,我为她设下了保护。

3.292.35

यदि ह्यकामामासेवेत्स्तरियमन्यामपि ध्रुवम् ।
शतधाऽस्य फलेन्मूर्धा इत्युक्तः सोभवत्पुरा ॥ ३.२९२.३५ ॥

若他强迫不愿的女子,或任何其他女子,他的头必定会裂成百片。此前他已被如此告知。

3.292.36

नात्रशङ्का त्वया कार्या प्रतीच्छेमां महामते ।
कृतं त्वया महत्कार्यं देवानाममितप्रभ ॥ ३.२९२.३६ ॥

此事你不该有疑虑。伟大智慧的人啊,请接纳她吧。无量光辉的人啊,你为诸神完成了一件大事。

3.292.37

प्रीतोस्मि वत्स भद्रं ते पिता दशरथोस्मि ते ।
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ॥ ३.२९२.३७ ॥

孩子,我很欣慰,愿你吉祥。我是你的父亲十车王。我允许你接受王国;最好的人啊,去统治吧。

3.292.38

अभिवादयेत्वां राजेन्द्र यदि त्वं जनको मम ।
गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ॥ ३.२९२.३८ ॥

君王之王啊,若您确是我的父亲,我向您致敬。遵您之命,我将前往美丽的阿逾陀城。

3.292.39

तमुवाच पिता भूयः प्रहृष्टो भरतर्षभ ।
गच्छायोध्यां प्रशाधि त्वंराम रक्तान्तलोचन।
संपूर्णानीहवर्षाणि चतुर्दश महाद्युते ॥ ३.२९२.३९ ॥

于是喜悦的父亲又对他说:“去阿逾陀城治理吧,婆罗多族中的雄牛。但是,红眼的罗摩啊,你要在此停留满十四年,光辉的人。”

3.292.40

ततो देवान्नमस्कृत्य मुहृद्भिरभिनन्दितः ।
महेन्द्रइव पौलोम्या भार्यया स समेयिवान् ॥ ३.२९२.४० ॥

于是他向诸神致礼,受到朋友们的祝贺,便与妻子重聚,如同因陀罗与补罗摩之女相逢。

3.292.41

ततो वरं ददौ तस्मै ह्यविन्ध्याय परंतपः ।
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ॥ ३.२९२.४१ ॥

于是这位使敌人受苦的人赐予阿文底耶一个恩惠,并以财富与尊荣将罗刹女三遮陀与他结合。

3.292.42

तमुवाच ततो ब्रह्मा देवैः शक्रषुरोगमैः ।
कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ॥ ३.२९२.४२ ॥

于是梵天与以因陀罗为首的诸神对他说:“考萨莉雅之子啊,你所希望的恩惠是什么?今天我将赐予你。”

3.292.43

वव्रेरामः स्थितिं धर्मे शत्रुभिश्चापराजयम् ।
राक्षसैर्निहतानां च वानराणां समुद्भवम् ॥ ३.२९२.४३ ॥

罗摩选择了在法中坚定、不被敌人战胜,以及被罗刹杀死的猴众重生。

3.292.44

ततस्ते ब्रह्मणा प्रोक्ते तथेतिवचने तदा ।
समुत्तस्थुर्महाराज वानरा लब्धचेतसः ॥ ३.२९२.४४ ॥

于是梵天说“就这样吧”,猴众恢复知觉,大王,他们便站了起来。

3.292.45

सीता चापि महाभागा वरं हनुमते ददौ ।
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ॥ ३.२९२.४५ ॥

大福的悉多也赐予哈努曼一个恩惠:“孩子,你的寿命将与罗摩的声名同样长久。”

3.292.46

दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा ।
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ॥ ३.२९२.४६ ॥

“哈努曼,凭我的恩典,天界的享受将常伴你左右。”——哈里洛恰纳啊,她如此说道。

3.292.47

ततस्ते प्रेक्षमाणानां तेपामक्लिष्टकर्मणाम् ।
अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः ॥ ३.२९२.४७ ॥

于是,在那些行事不费力者注视之下,以因陀罗为首的诸神全部隐没了。

3.292.48

दृष्ट्वा रामं तु जानक्या संगतं शक्रसारथिः ।
उवाच परमप्रीतसुहृन्मध्य इदं वचः ॥ ३.२९२.४८ ॥

看到罗摩与遮那吉重逢,因陀罗的御者大喜,在朋友们中间说出了这番话。

3.292.49

देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् ।
अपनीतं त्वया दुःखमिदं सत्यपराक्रम ॥ ३.२९२.४९ ॥

你消除了诸天、乾达婆、夜叉、人类、阿修罗和蛇众的这份忧苦,你这真正的勇士啊。

3.292.50

सदेवासुरगनधर्वा यक्षराक्षसपन्नगाः ।
कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ॥ ३.२९२.५० ॥

诸天、阿修罗、乾达婆、夜叉、罗刹与蛇众,诸世界都将传说你,只要大地长存。

3.292.51

इत्येवमुक्त्वाऽनुज्ञाप्यरामं शस्त्रभृतांवरम् ।
संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा ॥ ३.२९२.५१ ॥

说完这些,向持兵器者中最优秀的罗摩告别并致敬之后,他乘着那辆如太阳般光辉的战车离去了。

3.292.52

ततःसीतां पुरस्कृत्य रामः सौमित्रिणा सह ।
सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः ॥ ३.२९२.५२ ॥

于是罗摩让悉多走在前面,与善生(罗什曼那)同行,并有须羯哩婆等主要猴众及全体猴众随行。

3.292.53

विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः ।
संततार पुनस्तेन सेतुना मकरालयम् ॥ ३.२९२.५३ ॥

在楞伽安排好守卫,让毗卜沙那走在前面,他又经由那座桥渡过了海洋,即众海怪的居所。

3.292.54

पुष्पकेण विसानन खेचरेण विराजता ।
कामगेन यथामुख्यैरमात्यैः संवृतो वसी ॥ ३.२९२.५४ ॥

乘着那辆飞行空中、光辉灿烂、随意而行的普须波迦,被主要大臣环绕,自制的(罗摩)启程了。

3.292.55

ततस्तीरे समुद्रस्यं यत्रशिश्य स पार्थिवः ।
तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ॥ ३.२९२.५५ ॥

于是在大海岸边,即那位国王曾躺卧之处,正义的罗摩与所有猴子一同住在那里。

3.292.56

अथैनान्राघवः काले समानीयाभिपूज्य च ।
विसर्जयामास तदा रत्नैः संतोष्य सर्वशः ॥ ३.२९२.५६ ॥

随后在适当的时候,罗怙后裔召集他们,向他们致敬,并以珍宝令他们满意,然后送他们离去。

3.292.57

गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च ।
सुग्रीवसहितो रामः किष्किन्दां पुनरागमत् ॥ ३.२९२.५७ ॥

当猴王以及牛尾族与熊族的首领们离去之后,罗摩与须羯哩婆一同再次回到了键骑城。

3.292.58

विभीषणेनानुगतः सुग्रीवसहितस्तदा ।
पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् ॥ ३.२९२.५८ ॥

那时,毗婆沙那随行,须羯哩婆与之同行,罗摩乘坐普湿波迦飞车,向毗提诃公主指示森林。

3.292.59

किष्किन्धां तु समासाद्यरामः प्रहरतांवरः ।
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् ॥ ३.२९२.५९ ॥

罗摩既到键骑城,诸战士中的最优者便为已建功勋的安羯陀举行膏立,立为太子。

3.292.60

ततस्तैरेव सहितो रामः सौमित्रिणा सह ।
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ॥ ३.२९२.६० ॥

随后,罗摩与他们以及苏弥德罗(罗什曼那)同行,沿着来时的同一条路,向自己的城邑出发。

3.292.61

अयोध्यां स समासाद्यपुरीं राष्ट्रपतिस्ततः ।
भरताय हनूमन्तं दूतं प्रास्थापयद्द्रुतम् ॥ ३.२९२.६१ ॥

抵达阿逾陀城后,国王立即派遣哈奴曼作为使者前往婆罗多处。

3.292.62

लक्षयित्वेङ्गितं सर्वंप्रियं तस्मै निवेद्य वै ।
वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपाविशत् ॥ ३.२९२.६२ ॥

察知他的一切迹象并告知喜讯后,待风之子再次归来,他便在难提村落坐下。

3.292.63

सतत्रमलदिग्धाङ्गं भरतं चीरवाससम् ।
नन्दिग्रामगतंरामः सशत्रुघ्नं सराघवः।
अग्रतःपादुके कृत्वा ददर्शासीनमासने ॥ ३.२९२.६३ ॥

在那里,罗摩与舍særu耶那及罗怙之后裔一同看见了前往难提村落的婆罗多,他身上沾满尘垢,穿着树皮衣,坐在座位上,他的木屐放在前面。

3.292.64

समेत्यभरतेनाथ शत्रुघ्नेन च वीर्यवान् ।
राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ॥ ३.२९२.६४ ॥

与婆罗多和舍særu耶那相会后,英勇的罗怙后裔与苏弥德罗一同欢喜,婆罗多族的雄牛啊。

3.292.65

ततो भरतशत्रुघ्नौ समेतौ गुरुणा तदा ।
वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ॥ ३.२९२.६५ ॥

此时婆罗多与舍særu耶那与长兄相会,二人因见到悉多而极为欢喜。

3.292.66

तस्मै तद्भरतो राज्यमागतायातिसत्कृतम् ।
न्यासं निर्यातयामास युक्तः परमया मुदा ॥ ३.२९२.६६ ॥

归来的他,婆罗多以至高的喜悦、尽心地将那王国归还,那王国曾作为极受尊重的寄托交予他。

3.292.67

ततस्तं वैष्णवे शूरं नक्षत्रेऽभिजितेऽहनि ।
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ॥ ३.२९२.६७ ॥

于是在毗湿奴星宿、阿毗实多之日,婆悉吒与婆摩提共同为那位英雄行灌顶礼。

3.292.68

सोभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् ।
विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ॥ ३.२९२.६८ ॥

受灌顶后,他遣散了猴中之尊须羯哩婆及其眷属,以及补罗斯底耶之裔毗卜沙那,令他们各自回家。

3.292.69

अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ ।
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ॥ ३.२९२.६९ ॥

以各种宝石敬礼之后,二人心怀喜悦,议定了应做之事,便怀着悲伤将他们送走。

3.292.70

पुष्पकं च विमानं तत्पूजयित्वा स राघवः ।
प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ॥ ३.२९२.७० ॥

罗怀婆敬礼那辆普湿波迦天车之后,这位罗怀族之乐,便出于敬爱,将它赠予毗舍罗婆那(俱毗罗)本人。

3.292.71

ततो देवर्षिसहितः सरितं गोमतीमनु ।
शताश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ॥ ३.२९२.७१ ॥

随后,偕同天仙圣者,沿着郭摩提河,这位阇卢提耶族之人毫无障碍地举行了一百次马祭。