Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.294

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.294.1

नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने ।
हरणं चापि राज्यस् यथेमां द्रुपदात्मजाम् ॥ ३.२९४.१ ॥

大仙啊,我不为自己悲伤,也不为这些兄弟,也不为王国被夺而悲伤,我为这位德鲁帕达之女而悲伤。

3.294.2

द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् ।
जयद्रथेन चपुनर्वनाच्चापि हृता बलात् ॥ ३.२९४.२ ॥

在赌博中我们被恶人折磨,黑天女救了我们;之后胜车又从森林中强行将她劫走。

3.294.3

अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाऽपिवा श्रुता ।
पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥ ३.२९४.३ ॥

是否有某位已婚女子,我曾见过或听说过,她如这位德鲁帕达之女一样忠于丈夫,又如此福运深厚?

3.294.4

शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर ।
सर्वमेतद्यथाप्राप्तं सावित्र्या राजकन्यया ॥ ३.२९४.४ ॥

大王坚战啊,请听闻贵族女子的大福运;请听这一切如何降临到公主萨维德丽身上。

3.294.5

आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः ।
ब्रह्मण्यश्चमहात्मा च सत्यसन्धो जितेन्द्रियः ॥ ३.२९४.५ ॥

在摩德罗国有一位国王,心性正直,极其虔诚,敬重婆罗门,心胸宽大,守信诚实,克制诸根。

3.294.6

यज्वा दानपतिर्दक्षः पौरजानपदप्रियः ।
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥ ३.२९४.६ ॥

他名叫阿什瓦帕提,是行祭者、施舍之主、能干,深受城乡百姓爱戴,致力于一切众生的福祉。

3.294.7

क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः ।
अतिक्रान्तेन वयसा संतापमुपजग्मिवान् ॥ ३.२९४.७ ॥

他忍耐宽容,无子嗣,言语诚实,已降服诸根;然而年岁已过,他便陷入忧愁。

3.294.8

अपत्योत्पादनार्थं च तीव्रं नियममास्थितः ।
काले परिमिताहारो ब्रहमचारी जितेन्द्रियः ॥ ३.२९४.८ ॥

为了生育子嗣,他坚持严格的誓戒,按时少量进食,守梵行,并降服诸根。

3.294.9

हुत्वा शतसहस्रं स सावित्र्या राजसत्तम ।
षष्ठेषष्ठे तदाकाले बभूव मितमोजनः ॥ ३.२९४.९ ॥

王中之最!他向萨维特丽献上十万次供养;每到第六个时段,他便节制饮食。

3.294.10

एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु ।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥ ३.२९४.१० ॥

依此誓戒,经过了十八年;第十八年圆满时,萨维特丽感到满意。

3.294.11

रूपिणी तु तदा राजन्दर्शयामास तं नृपम् ।
अग्निहोत्रात्समुत्थाय हर्षेण महताऽन्विता ॥ ३.२९४.११ ॥

于是,王啊,她显现出形体,从火祭中起身,满怀大喜,向那位国王现身。

3.294.12

उवाच चैनं वरदा वचनं पार्थिवं तदा ।
सा तमश्वपतिं राजन्सावित्री नियमे स्थितम् ॥ ३.२९४.१२ ॥

那时,赐予恩惠的萨维特丽对那位国王说了这些话。王啊,萨维特丽对安守誓戒的阿什婆帕蒂说道。

3.294.13

ब्रह्मचर्येण शुद्धेन दमेन नियमेन रच ।
सर्वात्मना च भक्त्या च तुष्टाऽस्मि तव पार्थिवाः ॥ ३.२९४.१३ ॥

因你纯净的梵行、克制、戒律以及全心的虔诚,我对你感到满意,国王啊。

3.294.14

वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम् ।
न प्रामादश्च धर्मेषु कर्तव्यस्ते कथंचन ॥ ३.२९४.१४ ॥

骏马之主、摩德罗之王啊,请选择你所愿望的恩赐。在法的事务上,你无论如何不可疏忽。

3.294.15

अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया ।
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ॥ ३.२९४.१५ ॥

出于对法的渴望,我为求子嗣而发起了这一努力。女神啊,愿我有许多能守护家族的儿子。

3.294.16

तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम् ।
संतां परमो धर्म इत्याहुर्मां द्विजातयः ॥ ३.२९४.१६ ॥

女神啊,若你对我满意,我便选择这一恩赐。再生者说,子嗣便是至高的法。

3.294.17

पूर्वमेव मया राजन्नभिप्रायमिमं तव ।
ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः ॥ ३.२९४.१७ ॥

国王啊,我早已知晓你的这一心愿,因此你那尊贵的祖父为求子之事曾与我言及。

3.294.18

प्रसादाच्चैव तस्मात्ते स्वयं विहितवत्यहम् ।
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥ ३.२९४.१८ ॥

正因你的恩典,我亲自促成了此事。温和的人啊,不久你将有一位光彩照人的女儿。

3.294.19

उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन ।
पितामहनियोगेन तुष्टा ह्येतद्ब्रवीमि ते ॥ ३.२९४.१९ ॥

你绝不可以作任何答复。依祖父之命,我心满意足,才对你这样说。

3.294.20

स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः ।
प्रसादयामास पुनः क्षिप्रमेतद्भविष्यति
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः। ॥ ३.२९४.२० ॥

国王说“就这样吧”,接受了萨维特丽的话,并再次使她欢喜,说:“此事很快就会实现。”于是其余心怀喜悦之人接纳了这位大德者……

3.294.21

अन्तर्हितायां सावित्र्यां जगाम स्वपुरं नृपः ।
स्वराज्ये चावसद्बीरः प्रजा धर्मेण पालयन् ॥ ३.२९४.२१ ॥

萨维特丽消失后,国王回到自己的城中,那位英雄住在自己的王国里,依法护佑臣民。

3.294.22

कस्मिंश्चित्तु गते काले स राजा नियतब्रतः ।
ज्येष्ठायां धर्मचारिण्यां महिष्यां कगर्भमादधे ॥ ३.२९४.२२ ॥

过了一些时日,那位持守誓戒的国王在他年长、行法的正妃身上使她怀了孕。

3.294.23

राजपुत्र्यास्तु गर्भः स मानव्या भरतर्षभ ।
व्यर्धतं तदा शुक्ले तारापतिरिवाम्बरे ॥ ३.२९४.२३ ॥

婆罗多族的雄牛啊,那位摩那婆族公主腹中的胎儿,那时在白半月里,如天空中的星主一般长大。

3.294.24

प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् ।
क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः ॥ ३.२९४.२४ ॥

时候到了,她生下了一位莲花眼的女儿;那位最优秀的国王心中欢喜,为她举行了各种仪式。

3.294.25

सावित्र्या प्रीतया दत्ता साव्त्र्या द्दुतया ह्यपि ।
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥ ३.२९४.२५ ॥

她由欣喜的女神萨维特丽迅速赐予,婆罗门和父亲便为她取名萨维特丽。

3.294.26

सा विग्रहवतीव श्रीव्यवर्धत नृपात्मजा ।
कालेन चापि सा कन्या यौवनस्ता बभूव ह ॥ ३.२९४.२६ ॥

这位公主成长起来,仿佛吉祥天女化作了有形之身;随着时间推移,这位少女成年了。

3.294.27

तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव ।
प्राप्तेयं रदेवकन्येति दृष्ट्वा संमेनिरे जनाः ॥ ३.२९४.२७ ॥

人们看见她腰肢纤细、臀部丰满,如同金像一般,便认为这是天女降临。

3.294.28

तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा ।
न कश्चिद्वरयामास तेजसा प्रतिवारितः ॥ ३.२९४.२८ ॥

无人求娶那位眼如莲瓣、光芒灼灼如火的少女,因为每个人都被她的光辉所阻。

3.294.29

अथोपोष्य शिरःस्नाता देवतामभिगम्य सा ।
हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ॥ ३.२९४.२९ ॥

于是她禁食、沐浴头发,走近神像,依礼在火中献祭,并在节日那天请婆罗门诵经。

3.294.30

पितुः समीपमगमद्देवी श्रीरिव रूपिणी ॥ ३.२९४.३० ॥

这位女神仿佛化作有形之身的吉祥天女,走到了父亲身边。

3.294.31

साऽभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च ।
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता ॥ ३.२९४.३१ ॥

她向父亲的足下行礼,先告知其余长辈,然后合掌站在国王身旁,她是那位腰肢纤美的少女。

3.294.32

यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् ।
अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ॥ ३.२९४.३२ ॥

国王看见自己这个容貌如神、正值青春的女儿,又见她没有被求婚者求娶,便感到悲伤。

3.294.33

पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् ।
स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ॥ ३.२९४.३३ ॥

女儿,你出嫁的时候到了,可是没有人选择我。你自己去寻找一位与你品德相配的夫君吧。

3.294.34

प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम ।
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ॥ ३.२९४.३४ ॥

你所中意的男子,你须告诉我;我考虑之后便将你许配给他。你照你所愿去选择夫婿吧。

3.294.35

श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः ।
तथा त्वमपिकल्याणि गदतो मे वचः शृणु ॥ ३.२९४.३५ ॥

正如法典中由再生者诵读的那样,你也必定听过。吉祥的女儿,请听我说的话。

3.294.36

अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः ।
मृते पितरि पुत्रश्च वाच्यो मातुररक्षिता ॥ ३.२९४.३६ ॥

不把女儿出嫁的父亲被称为应受谴责;不娶妻的丈夫也是如此。父亲去世后,不保护母亲的儿子被称为应受谴责。

3.294.37

इदं मे वचनं क्षुत्वा भर्तुरन्वेषणे न्वर ।
देवतानां यथा याच्यो न भवेयं तथा कुरु ॥ ३.२९४.३७ ॥

听了我的这些话,快去寻找丈夫,使我不致于向神明祈求;就这样做吧。

3.294.38

एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः ।
व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत् ॥ ३.२९४.३८ ॥

如此对女儿和年长的大臣说完,他便向随从下令,并催促道:“出发吧!”

3.294.39

साऽभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी ।
पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥ ३.२९४.३९ ॥

那位心志高远的女子,仿佛羞愧,向父亲的双足行礼,明白了父亲的话,便不加思索地出发了。

3.294.40

सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता ।
तपोवनानिरम्याणि राजर्षीणां जगाम ह ॥ ३.२९४.४० ॥

她登上金色的车辇,被年长的大臣们环绕,前往诸王仙人那可爱的苦行林。

3.294.41

मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम् ।
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ॥ ३.२९४.४१ ॥

她在那里向受敬重的长者双足行礼,亲爱的,然后依次前往所有的林园。

3.294.42

एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा ।
कुर्वी द्विजमुख्यानां तंतं देशं जगाम ह ॥ ३.२९४.४२ ॥

如此在一切圣地布施财物,王女为了那些最优秀的婆罗门,前往每一个国家。