摩诃婆罗多 · 章 3.295
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.295.1
अथ मद्राधिपो राजा नारदेन समागतः ।
उपविष्टः सभामध्ये कथायोगेन भारत ॥ ३.२९५.१ ॥
此时,摩德罗国之王与那罗陀相遇,坐于会场中央,婆罗多啊,在谈话之中。
3.295.2
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा ।
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥ ३.२९५.२ ॥
随后,萨维特丽遍访诸圣地与隐修处,与大臣们一同回到父亲的宫室。
3.295.3
नारदेन सहासीनं सा दृष्ट्वा पितरं शुभा ।
उभयोरेव शिरसा चक्रे पादाभिवादनम् ॥ ३.२९५.३ ॥
萨维特丽见父亲与那罗陀同坐,便低首于二人足前行礼致敬。
3.295.4
क्व गताऽभूत्सुतेयं ते कुतश्चैवागता नृप ।
किमर्थं युवतीं भद्र न चैनां संप्रयच्छसि ॥ ३.२९५.४ ॥
国王啊,你的这个女儿去了哪里,又从何处而来?善人啊,你为何不将这位少女许配出去?
3.295.5
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता ।
एतस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ॥ ३.२९५.५ ॥
她正是为此事而被派出,今日方归。大仙啊,请听她所选之夫的事。
3.295.6
सा ब्रूहि विस्तरेणेति पित्रा संयोदिता शुभा ।
तदैव तस्य वचनं प्रतिगृह्येदमब्रवीत् ॥ ३.२९५.६ ॥
父亲催促她“详细道来”,萨维特丽即刻应允,便如此说道。
3.295.7
आसीत्साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः ।
द्युमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह ॥ ३.२९५.७ ॥
萨尔瓦族中有一位心怀正法的刹帝利,大地之主,名为迭悉玛特塞那;后来他双目失明。
3.295.8
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः ।
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ ३.२९५.८ ॥
当这位智者双目失明、其幼子尚小之时,他的王国在此空隙中被近旁的旧敌夺走。
3.295.9
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् ।
महारण्यं गतश्चापि पस्तेषे महाव्रतः ॥ ३.२९५.९ ॥
他与带着幼儿的妻子一同走向森林,到达大荒野,那位持大誓者在那里修苦行。
3.295.10
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने ।
सत्यवाननुरूपो मे भर्तेति मनसा वृतः ॥ ३.२९५.१० ॥
他的儿子在城中出生,在苦行林中长大;我心中已选定他,萨提耶瓦特,作为与我相称的夫君。
3.295.11
अहो वत महत्पापं सावित्र्या नृपते कृतम् ।
अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ॥ ३.२९५.११ ॥
啊!国王,萨维德丽犯下了大罪;她不知情地选择了德行兼备的萨提耶瓦特。
3.295.12
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते ।
तथाऽस् ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ॥ ३.२९५.१२ ॥
他的父亲说真话,母亲也说真话;因此婆罗门为他取名为萨提耶瓦特。
3.295.13
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् ।
चित्रेऽपि विलिखत्यश्वांश्चित्राश्व इति चोच्यते ॥ ३.२९५.१३ ॥
这个男孩喜爱马匹,他用泥土捏马,也在画中画马,因此被称为“画马者”(Citrāśva)。
3.295.14
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः ।
क्षमावानपि वा शृरः सत्यवान्पितृवत्सलः ॥ ३.२९५.१४ ॥
那位光辉而明智的王子如今是否仍然忍耐、勇敢、诚实,并且敬爱父亲?
3.295.15
विवस्वानिव तेजस्वी वृहस्पतिसमो मतौ ।
महेन्द्र इवन वीरश्च वसुधेव क्षमान्वितः ॥ ३.२९५.१५ ॥
他光辉如太阳,智慧与布利哈斯帕蒂相当,勇武如大因陀罗,忍耐如大地。
3.295.16
अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान् ।
रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः ॥ ३.२९५.१६ ॥
这位王子是否仍然慷慨,敬重婆罗门,诚实,相貌俊美,高尚,并且令人赏心悦目?
3.295.17
सांकृते रन्तिदेवस् स्वशक्त्या दानतः समः ।
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥ ३.२९५.१७ ॥
他在依自身能力施舍方面与桑克利蒂之子罗缠提婆相当;敬重婆罗门、诚实如乌什那罗之子尸毗。
3.295.18
ययातिरिव चोदारः सोमवत्प्रियदर्शनः ।
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ ३.२९५.१८ ॥
他慷慨如耶耶提,俊美如月神苏摩;容貌可与双生神阿溯钦相比,是丢摩森那的有力之子。
3.295.19
स वदान्यः स तेजस्वीधीमांश्चैव क्षमान्वितः ।
स दान्तः स मृदुः शूरः स सत्यः संयतेन्द्रियः।
सन्मैत्रः सोनसूयश्च स ह्रीमान्द्युतिमांश्च सः ॥ ३.२९५.१९ ॥
他慷慨、光明、睿智,且富有忍耐。他自制、温和、勇敢、诚实,诸根受控。他是好友,无嫉妒,知羞,光彩照人。
3.295.20
नित्यशश्चार्जवं तस्मिन्धृतिस्तत्रैव च ध्रुवा ।
संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ॥ ३.२९५.२० ॥
他之中常有正直,其中亦有坚定的恒心。以苦行与德行年高者,简而言之如此说。
3.295.21
गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे ।
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥ ३.२९५.२१ ॥
尊者啊,您向我描述他具备一切德性。若他身上有什么过失,也请告诉我。
3.295.22
एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति ।
स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम् ॥ ३.२९५.२२ ॥
他身上只有一个过失,它压制其德性而屹立。这过失即便竭力也无法超越。
3.295.23
एको दोषोऽस्ति नान्योऽस्य सोद्यप्रभृति सत्यवान् ।
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥ ३.२९५.२३ ॥
他只有一个过失,别无其他。从今天起,一年之内,萨提亚万的寿命将尽,他将舍弃身体。
3.295.24
एहि सावित्रि गच्छस्व अन्यं वरय शोभने ।
तस्य दोषो महानेको गुणानाक्रम्य च स्थितः ॥ ३.२९५.२४ ॥
来吧,萨维特丽,去另择一人吧,美丽的人。他那唯一的大过失压制了他的德性而屹立。
3.295.25
यथा मे भगवानाह नारदो देवसत्कृतः ।
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥ ३.२९५.२५ ॥
正如受诸神尊敬的尊者那罗陀对我所说,他寿命短促;一年之内,他将舍弃身体。
3.295.26
सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
स कृदाह ददानीति त्रीण्येतानि सकृत्सकृते ॥ ३.२९५.२६ ॥
分份只落一次,少女只嫁出一次,“我给予”也只说一次——这三件事各只发生一次。
3.295.27
दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा ।
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ ३.२९५.२७ ॥
无论他寿命长短,有德还是无德——我一次选定了丈夫,我不会再选第二个。
3.295.28
मनसा निश्चयं कृत्वाततो वाचाऽभिधीयते ।
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ॥ ३.२९५.२८ ॥
先在心中确定决意,然后以言语宣告,之后以行动完成——所以我的心便是我的依据。
3.295.29
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव ।
नैषा वारयितुं शक्या धर्मादस्मात्कथंचन ॥ ३.२९५.२९ ॥
人中最尊者啊,你女儿萨维德丽的心志坚定;无论如何都无法使她放弃这一法。
3.295.30
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः ।
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ॥ ३.२९५.३० ॥
萨提亚凡所具备的德性,在其他任何男子身上都不存在;因此我认为把你的女儿嫁给他,我很喜欢。
3.295.31
अविचाल्यमेतदुक्तं तथ्यं च भवता वचः ।
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ॥ ३.२९५.३१ ॥
你所说之言真实而不可动摇;我便照此而行,因为尊贵的大神是我的上师。
3.295.32
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव ।
साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तु वः ॥ ३.२९५.३२ ॥
愿你女儿萨维特丽的婚嫁毫无阻碍;我会先促其成就。愿你们众人平安吉祥。
3.295.33
एवमुक्त्वा स्वमुत्पत्य नारदस्त्रिदिवं गतः ।
राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत् ॥ ३.२९५.३३ ॥
那罗陀说完便腾空升起,前往天界;国王也为女儿安排并备妥了婚礼所需的一切。