摩诃婆罗多 · 章 3.297
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.297.1
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ।
प्राप्तः स कालो मर्व्यं यत्रसत्यवता नृप ॥ ३.२९७.१ ॥
此后许多日子过去,国王啊,萨提亚梵注定死亡的那一天终于到来了。
3.297.2
गणयन्त्याश्च सावित्र्या दिवसदिवसे गते ।
यद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ॥ ३.२९७.२ ॥
日子一天天过去,萨维特丽数着日子,那纳罗陀所说的话始终萦绕在她心中。
3.297.3
चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी ।
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽभवत् ॥ ३.२९७.३ ॥
她想到丈夫将在第四天死去,便发愿守持三夜的誓戒,昼夜坚定不移。
3.297.4
त्रयोदश्यां चोपवासं प्रतिपत्सु च पारणम् ।
आयुष्यं वर्धते भर्तुर्व्रतेनानि भारत ॥ ३.२९७.४ ॥
十三日禁食,初一日破斋;凭此誓戒,丈夫的寿命得以延长,无垢的婆罗多啊。
3.297.5
तं श्रुत्वा रकनियमं तस्या भृशं दुःखान्वितो नृपः ।
उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् ॥ ३.२९७.५ ॥
国王听了她的誓戒与守则,极为悲伤,起身安慰萨维特丽说道。
3.297.6
अतितीव्रोऽयमारम्भस्त्वयाऽऽरब्धो नृपात्मजे ।
तिसृणां वसतीनां हि स्तानं परमदुश्चरम् ॥ ३.२९७.६ ॥
公主啊,你所发起的这项修行极为严苛;三夜的誓戒与沐浴极难完成。
3.297.7
न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम् ।
व्यसंसायकृतं हीदं व्यवसायश्च कारणम् ॥ ३.२९७.७ ॥
父亲,不должно悲伤。我将完成这个誓愿。此誓愿由决心而发起,决心便是其因。
3.297.8
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन ।
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् ॥ ३.२९७.८ ॥
我无论如何也没有能力对你说“毁掉誓愿”。“完成它”才是像我这样的人应当说的话。
3.297.9
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः ।
तिष्ठन्ती चैव सावित्री काण्ठभूतेव लक्ष्यते ॥ ३.२९७.९ ॥
说完这些,心胸宽大的德尤玛特塞那便沉默了。站立的萨维德丽看上去仿佛变成了木头。
3.297.10
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ ।
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ॥ ३.२९७.१० ॥
婆罗多族的雄牛啊,当丈夫死亡的次日来临时,那一夜便过去了,萨维德丽忧伤地站立着。
3.297.11
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् ।
युगमात्रोदिते सूर्येकृत्वा पौर्वाङ्णिकीः क्रियाः ॥ ३.२९७.११ ॥
心想“今天就是那一天”,向熊熊烈火供奉祭品,待太阳升起一个轭的高度时,完成了上午的仪式。
3.297.12
व्रतं समाप्यसावित्री स्नात्वा शुद्धा यशस्विनी ।
ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च।
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ॥ ३.२९७.१२ ॥
完成誓愿后,萨维德丽沐浴净身,光辉耀人,随后依次向所有再生族、长者、婆婆和公公行礼,然后合掌庄重地站立着。
3.297.13
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः ।
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ॥ ३.२९७.१३ ॥
住在林中修行处的所有苦行者为萨维特丽说出了有益而吉祥的不寡之祝福。
3.297.14
एवमस्त्विति सावित्री ध्यानयोगपरायणा ।
मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनी ॥ ३.२९७.१४ ॥
萨维特丽说“就这样吧”,专注于禅定瑜伽,在心中接受了所有这些话语。
3.297.15
तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा ।
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ॥ ३.२९७.१५ ॥
公主等待那个时刻与那个吉时,思念那纳罗陀所说的话语,极为悲伤。
3.297.16
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् ।
एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम ॥ ३.२९७.१६ ॥
于是公婆以慈爱之心对独坐一旁的公主说了这些话,婆罗多中最优秀者啊。
3.297.17
व्रतं यथोपदिष्टं तु तथा तत्पारितं त्वया ।
आहारकालः संप्राप्तः क्रियतां यदनन्तरम् ॥ ३.२९७.१७ ॥
你已按照所规定的完成了誓约。进食的时候已经到了,现在请做接下来应做之事。
3.297.18
अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया ।
एष मे हृदि संकल्पः समयश्च कृतो मया ॥ ३.२९७.१८ ॥
待太阳落山后,待我的心愿满足,我才应当进食。这是我心中的决意,也是我所立下的誓愿。
3.297.19
एवं संभाषमाणायाः सावित्र्या भोजनं प्रति ।
स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ॥ ३.२९७.१९ ॥
萨维特丽与他谈论膳食之时,萨提雅梵肩扛斧头,动身前往森林。
3.297.20
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि ।
सह त्वया गमिष्यामि न हित्वां हातुमुत्सहे ॥ ३.२९७.२० ॥
萨维特丽对丈夫说:“你一个人去不合适。我要与你同行;我不忍离开你。”
3.297.21
वनं न गतपूर्वं ते दुःख पन्थाश्च भामिनि ।
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥ ३.२९७.२१ ॥
光辉的女子啊!你从未去过森林,路途又艰辛。你因誓愿和斋戒而消瘦,怎能步行前往?
3.297.22
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः ।
गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि ॥ ३.२९७.२२ ॥
禁食并未使我疲惫,也没有劳累。我渴望前往;你不应阻止我。
3.297.23
यदि ते गमनोत्साहः करिष्यामि तव प्रयम् ।
मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ॥ ३.२९७.२३ ॥
如果你渴望前往,我便满足你的心愿。但你先请求长辈的许可,这样过失就不会落在我身上。
3.297.24
साऽभिवाद्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता ।
अयं गच्छति मे भर्ता फलाहारो महावनम् ॥ ३.२९७.२४ ॥
这位持守大誓的女子向公婆行礼后说:“我的丈夫要到大森林里去采食果实。”
3.297.25
इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह ।
अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः ॥ ३.२९७.२५ ॥
若尊敬的婆婆和公公允许,我愿与他同行;今日与他分离,我无法忍受。
3.297.26
गुर्वग्निहोत्रार्तकृतेप्रस्थितश्च सुतस्तव ।
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् ॥ ३.२९७.२६ ॥
你的儿子为了师尊的火祭和困苦之人而出发;不应阻拦他,否则他会前往森林。
3.297.27
संवत्सरः किंचिदूनो न निष्क्रान्ताऽहमाश्रमात् ।
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ॥ ३.२९७.२७ ॥
已过去不到一年,我从未走出修行所;我很想看看开满鲜花的森林,心中十分好奇。
3.297.28
यदा प्रभृति सावित्री पित्रा दत्ता स्नाषु मम ।
नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ॥ ३.२९७.२८ ॥
自从父亲把萨维特丽许配给我做儿媳,我记不起她曾经提出过任何请求,或先前说过什么。
3.297.29
तदेषा लभतां कामं यथाभिलषितं वधूः ।
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ॥ ३.२९७.२९ ॥
因此愿这位儿媳得偿所愿;女儿啊,在萨提亚瓦特的路上必须谨慎小心。
3.297.30
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी ।
सहभर्त्रा हसन्तीव हृदयेन विदूयता ॥ ३.२९७.३० ॥
得到二老的允许,这位光荣的女子与丈夫一同前行,仿佛在笑,心中却痛苦不已。
3.297.31
सा वनानि विचित्राणि रमणीयानि सर्वशः ।
मयूरगणजुष्टानि ददर्श विपुलेक्षणा ॥ ३.२९७.३१ ॥
那位大眼睛的女子四面望去,看到了繁多美丽、布满孔雀群的森林。
3.297.32
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् ।
सत्यवानाह पश्येति सावित्रीं मधूरं वचः ॥ ३.२९७.३२ ॥
萨提耶瓦南以甜美的话语对萨维特丽说:“看那流淌着圣水的河流,和盛开的最好的山岭。”
3.297.33
नीरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता ।
मृतमेव हिं मेने काले मुनिवचः स्मरन् ॥ ३.२९७.३३ ॥
那无可指责的女子不停地看着丈夫的各种状况,此时想起了仙人的话,便认定他确实已经死去。
3.297.34
अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी ।
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ॥ ३.२९७.३४ ॥
她跟随丈夫,步履轻柔地前行,仿佛将心一分为二,注视着那一刻。