摩诃婆罗多 · 章 3.298
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.298.1
अथ भार्यासहायः स फलान्यादाय वीर्यवान् ।
कठिनं पूरयामास ततः काष्ठान्यपाटयत् ॥ ३.२९८.१ ॥
于是那位有力的人与妻子同行,取了果实,装满沉重的担子,然后开始劈柴。
3.298.2
तस्य पाटयतः काष्ठं स्वेदो वै समजायत ।
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥ ३.२९८.२ ॥
他劈柴时身上出汗,因这劳累,头部产生了疼痛。
3.298.3
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः ।
व्यायामेन ममानेन जाता शिरसि वेदना ॥ ३.२९८.३ ॥
他因劳累而痛苦,走近心爱的妻子说道:“因我这番劳作,头部生出了疼痛。”
3.298.4
अङ्गानि चैव सावित्रि हृदयं दूयतीव च ।
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ॥ ३.२९८.४ ॥
萨维特丽啊,我的肢体和心仿佛在痛苦中燃烧;少言的妻子啊,我感到自己仿佛身体不适。
3.298.5
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् ।
भ्रमन्तीव दिशः सर्वाश्चक्रारूढं मनो मम।
तत्स्वप्तुमिच्छे कल्याणि न स्तातुं शक्तिरस्ति मे ॥ ३.२९८.५ ॥
我觉得头像被尖桩刺穿一般;四方仿佛都在旋转,我的心仿佛被绑在车轮上。所以,吉祥的人啊,我想睡觉;我没有力气站立。
3.298.6
सा समासाद्य सावित्री भर्तारमुपगम्य च ।
उत्सङ्गेऽस्य शिर कृत्वा निषसाद महीतले ॥ ३.२९८.६ ॥
萨维特丽走近丈夫身边,把他的头放在自己膝上,坐在地上。
3.298.7
ततः सा नारदवचो विमृशन्ती तपस्विनी ।
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ॥ ३.२९८.७ ॥
于是这位苦行女思量那罗陀的话语,将那一刻、那瞬间、那时辰与那一日牢记在心。
3.298.8
हन्त प्राप्तः स कालोऽयमिति चिन्तापरा सती ।
मुहूर्तादेव चापश्य्पुरुषं रक्तवाससम्।
वद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥ ३.२९८.८ ॥
"哎呀,那个时刻到了!"忧心忡忡的贞妻这样想着,一瞬之间便看见一位身着红衣、束发、身形光明、光辉如太阳的男子。
3.298.9
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् ।
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ॥ ३.२९८.९ ॥
身色黝黑而又光明,红眼,手持绳索,令人恐惧,站在萨提亚凡的身旁,正凝视着他。
3.298.10
तं दृष्ट्वासहसोत्थाय भर्तुन्यस्य शनैः शिरः ।
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती ॥ ३.२९८.१० ॥
她一看见他,便突然起身,轻轻地放下丈夫的头,合掌而立,心中惊颤,悲伤地说道。
3.298.11
दैवतंत्वाभिजानामि वपुरेतद्ध्यमानुषम् ।
कामया ब्रूहि देवेश कस्त्वं किंच चिकीर्षसि ॥ ३.२९८.११ ॥
我知道您是神明,因为这形貌不是凡人的。天神之主啊,请您告诉我,您是谁,又要做什么。
3.298.12
पतिव्रताऽसि सावित्रि तथैव च तपोन्विता ।
अस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥ ३.२९८.१२ ॥
萨维特丽啊,你忠于丈夫,也具足苦行。我在与你说话;吉祥的人啊,请知道我是阎摩。
3.298.13
अयं ते रसत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः ।
नेष्यामि तमहं बद्ध्वा विद्ध्येतन्मे चीकिर्षितं ॥ ३.२९८.१३ ॥
这是你的丈夫萨提耶梵,寿命已尽,是国王之子。我要将他捆绑带走;你要知道,这正是我的意图。
3.298.14
श्रूयते भगवन्दूतास्तवागच्छन्ति मानवान् ।
नेतुं किल भवान्कस्मादागतोसि स्वयं प्रभो ॥ ३.२९८.१४ ॥
尊者啊,听说你的使者来带走世人。主啊,你为何亲自前来?
3.298.15
इत्युक्तः पितृराजस्तां भगवान्स्वचिकीर्षितम् ।
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ॥ ३.२९८.१५ ॥
他被她如此询问,尊贵的祖先之王为了让她欢喜,开始如实详细地讲述他自己的意图。
3.298.16
अयं च धर्मसंयुक्तो रूपवान्गुणसागरः ।
नार्हो मत्पुरुषैर्नेतुमतोस्मि स्वयमागतः ॥ ३.२९८.१६ ॥
此人具备法,相貌端正,是德行之海。我的部下不配带走他;因此我亲自前来。
3.298.17
ततः सत्यवतः कायात्पाशबद्धं वशंगतम् ।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥ ३.२९८.१७ ॥
于是阎摩以力量从萨提耶梵的身体中拉出那个拇指大小、被绳索束缚而屈服的人。
3.298.18
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् ।
निरविचेष्टंशरीरं तद्बभूवाप्रियदर्सनम् ॥ ३.२९८.१८ ॥
于是他的生命被拉出,呼吸停止,光彩消失,那具身体静止不动,令人不忍卒睹。
3.298.19
यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः ।
सावित्री चैव दुःखार्ता यममेवान्वगच्छत ॥ ३.२९८.१९ ॥
阎摩缚住他,面向南方而去;悲痛的萨维特丽也紧随阎摩而行。
3.298.20
भर्तुः शरीररां च विधाय हि तपस्विनी ।
भर्तारमनुगच्छन्ती तथावस्थं सुमध्यमा।
नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥ ३.२९८.२० ॥
萨维特丽将丈夫的遗体安置一旁,以苦行者之身,在那种境况下仍紧随丈夫而行;她纤腰、精通誓戒与律仪,极享福报,是忠贞的妻子。
3.298.21
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदैहिकम् ।
कृतंभर्तुस्त्वयाऽऽनृण्यं यावद्गम्यं गतं त्वया ॥ ३.२९८.२१ ॥
回去吧,萨维特丽,为他举行丧葬之礼。你已偿还了对丈夫的债务;你已走到人所能到达的最远之处。
3.298.22
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति ।
मया च तत्र गन्तव्यमेष धर्मः सनातनः ॥ ३.२९८.२२ ॥
无论丈夫被带往何处,或他自己往何处去,我也必须前往。这便是永恒的法。
3.298.23
तपसा गुरुभक्त्या च भर्तुः स्नेहाद्व्रतेन च ।
तव चैव प्रसादेन न मे प्रतिहता गतिः ॥ ३.२९८.२३ ॥
凭借苦行、对长辈的敬奉、对丈夫的深情、誓愿,以及你的恩典,我的前路未曾受阻。
3.298.24
प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः ।
मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥ ३.२९८.२४ ॥
洞见真义的智者称之为七步之谊。我将怀着对这份情谊的敬重,说几句话;请听。
3.298.25
नानात्मवन्तस्तु वने चरन्ति ।
धर्मं च वासं च परिश्रमं च।
विज्ञानतो धर्ममुदाहरन्ति ।
तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ ३.२९८.२५ ॥
种种克制自身的人住在森林中,奉行法、居所与苦行。他们以智慧宣说法;因此善人称法为首要。
3.298.26
एकस्य धर्मेण सतां मतेन ।
सर्वेस्म तं मार्गमनुप्रपन्नाः। ॥ ३.२९८.२६ ॥
依一人之法与善人之见,众人皆遵循那条道路。
3.298.27
निवर्त तुष्टोस्मि तवानया गिरा ।
स्वराक्षरव्यञ्जनहेतुयुक्तया।
ददानि ते सर्वमनिन्दिते वरम् ॥ ३.२९८.२७ ॥
回去吧,你的这番言辞清晰、字音分明、有理有据,我甚为喜悦。无过之人啊,我赐你一切所求之恩。
3.298.28
च्युतः स्वराज्याद्वनवासमाश्रितो ।
विनष्टचक्षुः श्वशुरो ममाश्रमे।
स लब्धचक्षुर्बलवान्भवेन्नृप-
स्तव प्रसादाज्ज्वलनार्कसंनिभः ॥ ३.२९८.२८ ॥
我的公公已从自己的王国中倒下,流亡于森林中,双目失明,住在静修处。愿他重获视力,因你的恩典成为强大的国王,如火与日一般光明。
3.298.29
ददानि तेऽहं तमनिन्दिते वरं ।
यथा त्वयोक्तं भविता च तत्तथा।
तवाध्वना ग्लानिमिवोपलक्षये ।
निवर्त गच्छस्व न ते श्रमो भवेत् ॥ ३.२९८.२९ ॥
无过之人啊,我赐你那恩惠。如你所说,必然成就。我看见你的路途上似有疲惫——回去吧,去吧,愿你不致劳累。
3.298.30
श्रमः कुतो भर्तृसमीपतो हिमे ।
यतो हि भर्ता मम सा गतिर्ध्रुवा।
यतः पतिं नमेष्यसि तत्र मे गतिः ।
सुरेश भूयश्च वचो निबोध मे ॥ ३.२९८.३० ॥
在夫君身边,我何来疲倦?夫君便是我确定的归宿;您使夫君低头之处,便是我的去处。诸神之主啊,请再听我的话。
3.298.31
सतां सकृत्संगतमीप्सितं परं ।
ततः परं मित्रमिति प्रचक्षते।
न चाफलं सत्पुरुषेण संगतं ।
ततः सतां संनिवसेत्समागमे ॥ ३.२९८.३१ ॥
与善人相会一次,也是最为可贵的;此后便称之为友谊。与善人的交往从不徒劳;因此应当居于善人的聚会之中。
3.298.32
मनोनुकूलं बुधबुद्धिवर्धनं ।
त्वया यदुक्तं वचनं हिताश्रयम्।
विना पुनः सत्यवतोस्य जीवितं ।
वरं द्वितीयं वरयस्व भामिनि ॥ ३.२९८.३२ ॥
你所说的话悦人心意,增益智者的智慧,依托于善利。然而没有萨蒂亚瓦特的生命;啊,夫人,请选择第二个恩赐。
3.298.33
हृतंपुरा मे श्वशुरस्य धीमतः ।
स्वमेव राज्यंलभतां स पार्थिवः।
कजह्यात्स्वधर्मान्न च मे गुरुर्यथा ।
द्वितीयमेतद्वरयामि ते वरम् ॥ ३.२९८.३३ ॥
往昔,我那明智的公公的王国被夺走;愿那位国王重新获得自己的王国。愿他不舍弃自己的本分,正如我的师长不舍弃一样。这便是我向你所求的第二个恩赐。
3.298.34
स्वमेवं राज्यं प्रतिपत्स्यतेऽचिरा-
न्न च स्वधर्मात्परिहीयते नृपः।
कृतेन कामेन मया नृपात्मजे ।
निवर्त गच्छस्व न ते श्रमो भवेत् ॥ ३.२९८.३४ ॥
那位国王将很快重新获得自己的王国,也不会偏离自己的本分。公主啊,你的愿望已由我实现。回去吧,走吧;愿你不要感到疲劳。
3.298.35
प्रजास्त्वयैता नियमेन संयता ।
नियम्य चैता नयसे निकामया।
ततो यमत्वं तव देव विश्रुतं ।
निबोध चेमां गिरमीरितां मया ॥ ३.२९८.३५ ॥
神啊,你以法度约束这些众生,并随意将它们带走;因此你的名字阎摩广为人知。现在请听我所说的这番话。
3.298.36
मा वै द्वितीयं मा तृतीयं च वाञ्छे ।
तस्मात्सन्तो धर्ममाहुः प्रधानम्
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ ३.२९८.३६ ॥
我不愿求第二个恩典,也不求第三个;因此善人称不伤害为至上的法。以行为、心意、言语不对一切众生怀有恶意,慈悲与布施,这便是善人永恒的法。
3.298.37
वरं वृणीष्वेहविनाऽस्य जीवितं ।
एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः।
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥ ३.२९८.३७ ॥
请在此选择一个恩典,但不要这人的性命。这世界与人们大多软弱无力;然而善人即便对前来的敌人也怀有慈悲。
3.298.38
पिपासितस्येव भवेद्यथा पय-
स्तथा त्वया वाक्यमिदं समीरितम्।
विना पुनः सत्यवतोऽस्य जीवितं ।
वरं वृणीष्वेह शुभे यदिच्छसि ॥ ३.२९८.३८ ॥
正如清水令口渴者欢喜,你所说的这番话也令我欢喜。但除了萨提雅梵的性命之外,吉祥的女子啊,你在这里选择你想要的恩典吧。
3.298.39
ममानपत्यः पृथिवीपतिः पिता ।
भवत्पितुः पुत्रशतं तथौरसम्।
कुलस्य संतानकरं च यद्भवे-
त्तृतीयमेतद्वरयामि ते वरम् ॥ ३.२९८.३९ ॥
我的父亲,大地之主,没有子嗣。正如你的父亲有一百个儿子,愿我父亲也有从他自己身体所生、延续家族的儿子——这第三个恩典,我向你请求。
3.298.40
कुलस्य संतानकरं सुवर्चसं ।
शतं सुतानां पितुरस्तु ते शुभे।
कृतेन कामेन नराधिपात्मजे ।
निवर्त दूरं हि पथस्त्वमागता ॥ ३.२९८.४० ॥
愿你父亲得百位光辉的子嗣,延续家族血脉。吉祥的公主啊,愿你的心愿得以实现。现在请回去吧,你已走了很远的路。
3.298.41
न दूरमेतन्मम भर्तृसन्निधौ ।
मनो हि मे दूरतरं प्रधावति।
अथ व्रजन्नेव गिरं समुद्यतां ।
मयोच्यमानां शृणु भूय एव च ॥ ३.२९८.४१ ॥
在我丈夫身边,这算不得远;我的心还要奔得更远。现在请边走边再听我说的话。
3.298.42
विवस्वतस्त्वं तनयऋ प्रतापवां-
स्ततो हि वैवस्वत उच्यसे बुधैः।
समेन धर्मेण चरन्ति ताः प्रजा-
स्ततस्तवेहेवर धर्मराजता ॥ ३.२९८.४२ ॥
你是毗婆娑陀的威严之子,因此智者称你为毗婆娑陀之子。这些众生依平等法而行;所以,最优秀者啊,在此法王之位正属于你。
3.298.43
आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः ।
तस्मात्सत्सु विशेपेण सर्वः प्रणयमिच्छति ॥ ३.२९८.४३ ॥
即便对自己,也没有像对善人那样的信任;因此,尤其在善人之中,人人都寻求情谊。
3.298.44
सौहदात्सर्वभूतानां विश्वासो नाम जायते ।
तस्मात्सत्सु विशेपेण विश्वासं कुरुते जनः ॥ ३.२९८.४४ ॥
由对一切众生的善意,信任便由此而生;因此,人尤其会信任善人。
3.298.45
उदाहृतंते वचनं यदङ्गने ।
शुभे न तादृक् त्वदृते श्रुतं मया।
अनेन तुष्टोस्मि विनाऽस्य जीवितं ।
वरं चतुर्थं वरयस्व गच्छ च ॥ ३.२९८.४५ ॥
啊女子,啊吉祥者!除你之外,我从未听过这样的话。因此我心满意足;除了此人的性命,请选择第四个恩赐,然后离去。
3.298.46
ममात्मजं सत्यवतस्तथौरसं ।
भवेदुभाभ्यामिह यत्कुलोद्वहम्।
शतं सुतानां बलवीर्यशालिना-
मिदंचतुर्थं वरयामि ते वरम् ॥ ३.२९८.४६ ॥
愿我与萨提耶梵所生的亲生子延续我们二人的家族;愿有一百个具备力量与勇气的儿子。这便是我向你请求的第四个恩赐。
3.298.47
शतं सुतानां बलवीरय्शालिनां ।
भविष्यति प्रीतिकरं तवाबले।
परिश्रमस्ते न भवेन्नृपात्मजे ।
निवर्त दूरं हि पथस्त्वमागता ॥ ३.२९८.४७ ॥
百个具备力量与勇气的儿子将为你带来喜悦。啊柔弱者,啊公主,愿你不致辛劳。请回去吧,你已走了很远的路。
3.298.48
सतां सदा शाश्वतधर्मवृत्तिः ।
सन्तो न सीदन्ति न च व्यथन्ति।
सतां सद्भिर्नाफलः संगमोस्ति ।
सद्भ्यो भयंनानुवर्तन्ति सन्तः ॥ ३.२९८.४८ ॥
善人的行为始终合于永恒的法。善人不会动摇,也不会悲伤。善人与善人的交往从不徒劳,善人也不会带来恐惧。
3.298.49
सन्तो हि सत्येन नयन्ति सूर्यं ।
सन्तो भूमिं तपसा धारयन्ति।
सन्तो गतिर्भूतभव्यस्य राज-
न्सतां मध्ये नावसीदन्ति सन्तः ॥ ३.२९८.४९ ॥
善人以真实之力驱动太阳;善人以苦行承载大地。啊国王,善人是过去与未来的归宿;在善人之中,善人从不沉沦。
3.298.50
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् ।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाः ॥ ३.२९८.५० ॥
知此乃贤者所遵循的永恒之行,善人为他人而行,不求回报。
3.298.51
न च प्रसादः सत्पुरुषेषु मोघो ।
न चाप्यर्थो नश्यति नापि मानः।
यस्मादेतन्नियतं सत्सु नित्यं ।
तस्मात्सन्तो रक्षितारो भवन्ति ॥ ३.२९८.५१ ॥
施于善人的恩惠不会徒劳,财富与荣誉也不会失去;因为这在善人之中永远确定,所以善人成为守护者。
3.298.52
यथायथा भाषसि धर्मसंहितं ।
मनोनुकूलं सुपदं महार्थवत्।
तथातथा मे त्वयि भक्तिरुत्तमा ।
वरं वृणीष्वाप्रतिमं पतिव्रते ॥ ३.२९८.५२ ॥
你所说的话合乎法,悦于心,措辞优美,意义深远,我对你的至上敬爱便随之增长。守节的女子啊,请选择一个无与伦比的恩赐吧。
3.298.53
न तेऽपवर्गः सुकृताद्विना कृत-
स्तथा यथाऽन्येषु वरेषु मानद।
वरं वृणे जीवतु सत्यवानयं ।
यथा मृता ह्येवमहं पतिं विना ॥ ३.२९८.५३ ॥
赐人荣誉者啊,你的这份解脱(恩惠)并非无善业而得,正如其他的恩赐一样。我选择的恩赐是让萨提亚凡还活着,因为没有丈夫,我就如同死人。
3.298.54
न कामये भर्तविनाकृता सुखं ।
न कामये भर्तृविनाकृता दिवम्।
नकामये भर्तविनाकृता श्रियं ।
न भर्तृहीना व्यवसामि जीबितुम् ॥ ३.२९८.५४ ॥
没有丈夫,我不愿要快乐;没有丈夫,我不愿要天界;没有丈夫,我不愿要财富。失去丈夫,我不决意活下去。
3.298.55
वरातिसर्गः शतपुत्रता मम ।
त्वयैव दत्तो ह्रियते च मे पतिः।
वरं वृणे जीवतु सत्यवानयं ।
तवैव सत्यं वचनं भविष्यति ॥ ३.२९८.५५ ॥
您赐予我一百个儿子的恩典,是您亲自给予的;可是我的丈夫正被带走。我请求这一恩典:愿萨蒂耶万活着,愿您的话成为真实。
3.298.56
तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः ।
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥ ३.२९८.५६ ॥
说了一声“就这样吧”,毗婆娑之子阎摩便松开了那根绳索。法王心中欢喜,对萨维德丽说了这些话。
3.298.57
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि ।
तोषितोऽहं त्वया साध्वि वाक्यैर्धर्मार्तसंहितैः ॥ ३.२९८.५७ ॥
善良的女子啊,家族的喜悦,你的丈夫已被我释放。贤德的女子啊,你那兼具法与利的言辞使我欢喜。
3.298.58
अरोगस्व नेयश्च सिद्धार्थः स भविष्यि ।
चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति ॥ ३.२९८.५८ ॥
他将无病,所愿皆成。他将与你一同获得四百年的寿命。
3.298.59
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ।
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति ॥ ३.२९८.५९ ॥
他将以祭祀与法行,在世间获得声名;萨蒂耶万将在你身上生育一百个儿子。
3.298.60
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ।
ख्यातास्त्वन्नामधेयाश्चभविष्यन्तीह शाश्वताः ॥ ३.२९८.६० ॥
那些国王和刹帝利,拥有子孙,声名远扬,以你的名字为名,将在此世永远长存。
3.298.61
पितुश्च ते पुत्रशतं भविता तव मातरि ।
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥ ३.२९८.६१ ॥
你的父亲将有一百个儿子,你的母亲在摩罗婆耶将有一个名为摩罗婆的永续民族,有子有孙。你的兄弟将是如同天神的刹帝利。
3.298.62
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् ।
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ॥ ३.२९८.६२ ॥
如此赐予她一个恩惠之后,威严的法王让萨维特丽返回,自己则回到了自己的居所。
3.298.63
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च ।
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥ ३.२९८.६३ ॥
阎摩离去后,萨维特丽也重新获得了丈夫,便前往丈夫无生命的遗体所在之处。
3.298.64
सा भूमौ प्रेक्ष्यभर्तारमुपसृत्योपगृह्य च ।
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥ ३.२९८.६४ ॥
她看见丈夫倒卧在地,便走近拥抱他,将他的头放在自己膝上,坐在地上。
3.298.65
संज्ञां चस पुनर्लब्ध्वा सावित्रीमभ्यभाषत ।
प्रोष्यागत इव प्रेम्णा पुनःपुनरुदीक्ष्यवै ॥ ३.२९८.६५ ॥
他恢复了意识,对萨维特丽说话,一次又一次深情地望着她,仿佛从远方归来的人。
3.298.66
सुचिरं बत सुप्तोस्मि किमर्थं नावबोधितः ।
क्व चासौ पुरुषः श्यामो योसौ मां संचकर्षह ॥ ३.२९८.६६ ॥
“哎呀!我睡了很久,为何不叫醒我?那个拉扯我的黑衣男子在哪里?”
3.298.67
सुचिरं त्वंप्रसुप्तोसि ममाह्के पुरुषर्षभ ।
गतः स भगवान्देवः प्रजासंयमनो यमः ॥ ३.२९८.६७ ॥
人中之牛啊,你在我怀中睡了很久。那位约束众生的尊贵神明阎摩已经离去了。
3.298.68
विश्रान्तोसि महाभाग विनिद्रश्च नृपात्मज ।
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥ ३.२९८.६८ ॥
大福之人啊,你已经休息,从睡眠中醒来了,王子。若可以,就起来看看夜已多么深了。
3.298.69
उपलभ्यततः संज्ञां सुखसुप्त इवोत्थितः ।
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ॥ ३.२९८.६९ ॥
于是恢复知觉,仿佛从安乐的睡眠中醒来,萨提耶梵环顾四方和林边,然后说道。
3.298.70
फलाहारोस्मि निष्क्रान्तस्वया सह सुमध्यमे ।
ततः पाटयतः काष्ठं शरिसो मे रुजाऽभवत् ॥ ३.२९८.७० ॥
纤腰的人啊,我吃了果子便与你一同出来。后来劈柴时,我的头痛了起来。
3.298.71
शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन् ।
तवोत्सङ्गे प्रसुप्तोस्मि इति सर्वं स्मरे शुभे ॥ ३.२९८.७१ ॥
头痛的灼热使我痛苦,久立不能,吉祥的人啊,我便在你的膝上沉沉睡去。这一切我都记得。
3.298.72
त्वयोपगूढस्य च मे निद्रयाऽपहृतं मनः ।
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् ॥ ३.२९८.७२ ॥
虽然你拥抱着我,睡眠却夺走了我的心神。于是我看见了可怕的黑暗,以及一位大威力的男子。
3.298.73
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे ।
स्वप्नो मे यदिवा दृष्टो यदि वा सत्यमेव तत् ॥ ३.२९८.७३ ॥
若你知道,那么请告诉我,啊,纤腰的女子,那是什么。我所见的是梦,还是确实如此?
3.298.74
तमुवाचाथ सावित्री रजनी व्यवगाहते ।
श्वस्ते सर्वंयथावृत्तमाख्यास्यामि नृपात्मज ॥ ३.२९८.७४ ॥
于是萨维特丽对他说:“夜色渐深。明天,王子啊,我会把发生的一切如实告诉你。”
3.298.75
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत ।
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ॥ ३.२९८.७५ ॥
起来吧,起来吧,愿你吉祥。啊,守善誓的人,看看你的父母。这夜已深,太阳已经西沉。
3.298.76
नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः ।
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ॥ ३.२९८.७६ ॥
这些夜行的生灵欢喜地发出凶狠的声音,还能听到林中游走的鹿踩落叶的沙沙声。
3.298.77
एता घोरं शिवा नादान्दिशं दक्षिणपश्चिमाम् ।
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ॥ ३.२९८.७७ ॥
这些凶猛的母豺站在西南方,发出可怕的嚎叫,使我的心神颤抖。
3.298.78
वनं प्रतिभयाकारं घनेन तमसा वृतम् ।
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥ ३.२९८.७८ ॥
这片森林外貌可怖,被浓密的黑暗笼罩。你将认不出道路,也无法前行。
3.298.79
अस्मिन्न वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् ।
वायुना धम्यमानोत्र दृश्यतेऽग्निः क्वचित्क्वचित् ॥ ३.२९८.७९ ॥
在这片烧毁的森林里,一棵枯树正在燃烧;被风吹动的火光时隐时现。
3.298.80
ततोऽग्निमानयित्वेह ज्वालयिप्यामि सर्वतः ।
काष्ठानीमानि सन्तीह जहि संतापमात्मनः ॥ ३.२९८.८० ॥
那么,我将把火带到这里,从四面点燃;这些柴火就在这里。请消除你的痛苦。
3.298.81
यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये ।
न च ज्ञास्यसि पन्थानं तमसा संवृते वने ॥ ३.२९८.८१ ॥
若你无力前行——我看出你病了——那么在这片被黑暗笼罩的森林里,你将找不到路。
3.298.82
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव ।
वसावेह क्षपामेकां रुचितं यदि तेऽनघ ॥ ३.२९८.८२ ॥
明天黎明,待森林看得清楚时,经你同意我们便出发。无瑕之人啊,若你愿意,我们就在此过一夜吧。
3.298.83
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये ।
मातापितृभ्यामिच्छामि संयोगं त्वत्प्रसादजम् ॥ ३.२९८.८३ ॥
我的头痛已经停止,四肢看起来也好了。承蒙你的恩典,我希望与父母重逢。
3.298.84
न कदाचिद्विकाले हि गतपूर्वोहमाश्रमात् ।
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम् ॥ ३.२९८.८४ ॥
我从未在不适当的时候离开过修行所。傍晚还未到来之前,母亲总会拦住我。
3.298.85
दिवाऽपिमयि निष्क्रान्ते सन्तप्येते गुरू मम ।
विचिनोति हि मां तातः सहैवाश्रमवासिभिः ॥ ३.२९८.८५ ॥
即使在白天,我出去时,我的两位长辈也会忧心。父亲与苦行林的居民一起寻找我。
3.298.86
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा ।
उपालब्धश्च बहुशश्चिरेणागच्छसीति हि ॥ ३.२९८.८६ ॥
从前,我的母亲和父亲非常忧伤,多次责备我说:“你回来得太晚了。”
3.298.87
कात्ववस्था तयोरद्य मदर्थमिति चिन्तये ।
तयोरदृश्ये मयि च महद्दुःखं भविष्यति ॥ ३.२९८.८७ ॥
今天他们两人会怎样,因我之故?我想:若我不见了,他们二人都会极度悲伤。
3.298.88
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ ।
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ॥ ३.२९८.८८ ॥
从前夜里,那两位老人流着泪,非常忧伤,满怀慈爱,多次对我说。
3.298.89
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक ।
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ॥ ३.२९८.८९ ॥
孩子,没有你,我们两人一刻也活不下去。孩子,只要你还能带回所需之物,我们的生命才能确定地延续。
3.298.90
वृद्धयोरन्धयोर्दृष्टिस्त्वयि वंशः प्रतिष्ठिः ।
त्वयि पिण्डश्च कीर्तिश्च सन्तानश्चावयोरिति ॥ ३.२९८.९० ॥
对于我们这两个老而盲的人,你就是眼睛;家族的香火寄托于你。我们的祭品、名望与子嗣都在于你。
3.298.91
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल ।
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ॥ ३.२९८.९१ ॥
母亲年迈,父亲也年迈;我确实是他们的拐杖。夜里见不到我,他们二人将陷入忧虑的境地。
3.298.92
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम ।
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी ॥ ३.२९८.९२ ॥
我怨恨那睡眠,因它之故父母陷入险境;母亲虽无过错,却因我而陷入危难。
3.298.93
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः ।
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ॥ ३.२९८.९३ ॥
我也陷入险境,处于痛苦的灾难之中;没有父母,我不敢活下去。
3.298.94
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम ।
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ॥ ३.२९८.९४ ॥
显然,我那以智慧为眼的父亲,心神慌乱,此时正逐一询问每一位住在林中修行处的人。
3.298.95
नात्मानमनुशोचामि यथाऽहंपितरं शुभे ।
भर्तारं चाप्यनुगतां मातरं भृशदुःखिताम् ॥ ३.२९८.९५ ॥
善良的人啊,我为自己悲伤并不如为父亲,以及为跟随丈夫、极度悲伤的母亲而悲伤。
3.298.96
मत्कृते न हि तावद्य सन्तापं परमेष्यतः ।
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ॥ ३.२९८.९६ ॥
因为我,他们今天不至于陷入极大的痛苦;只要他们活着,我也要活着,因为要供养他们的是我。
3.298.97
तयोः प्रियं मे कर्व्यमिति जीवामि चाप्यहम् ।
परमं दैवतं तौ मे पूजनीयौ सदा मया।
तयोस्तु मे सदाऽस्त्येवं व्रतमेतत्पुरातनम् ॥ ३.२९८.९७ ॥
使他们欢喜是我的职责,因此我活着。这二人是我至高的神明,我应当永远敬奉他们。我对他们这古老的誓愿始终如一。
3.298.98
एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः ।
उच्छ्रित्य बाहू दुःखार्तः सुस्वरं प्ररुरोद ह ॥ ३.२९८.९८ ॥
说完这话,那位正直之人、敬奉长辈、为长辈所爱的萨蒂亚万,被悲痛所折磨,举起双臂,放声痛哭。
3.298.99
ततोऽब्रवीत्तथा दृष्ट्वाभर्तारं शोककर्शितम् ।
प्रमृज्याश्रूणि पाणिभ्यां सावित्री धर्मचारिणी ॥ ३.२९८.९९ ॥
于是,行持正法的萨维特丽见丈夫因悲伤而憔悴,便用双手拭去泪水,如此说道。
3.298.100
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि ।
श्वश्रूश्वशुरभर्तॄणां मम पुण्याऽस्तु शर्वरी ॥ ३.२९८.१०० ॥
若我修过苦行,若我布施、献过祭火,愿我今夜为公婆与夫君带来福祉。
3.298.101
न स्मराम्युक्तपूर्वं वै स्वैरेष्वप्यनृतां गिरम् ।
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ॥ ३.२९८.१०१ ॥
我不记得曾说过一句假话,即使是玩笑也没有。愿凭此真实,我的两位公公今日得以存活。
3.298.102
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् ।
अपिनाम गुरू तौ हि पश्येयं ध्रियमाणकौ ॥ ३.२९८.१०२ ॥
我想见父母。萨维特丽啊,走吧,不要耽搁;或许我还能见到那两位尊长仍然活着。
3.298.103
पुरा मातुः पितुर्वाऽपियदि पश्यामि विप्रियम् ।
न जीविष्ये वरारोहे सत्येनात्मानमालभे ॥ ३.२९८.१०३ ॥
美腰的女子啊,若我先见父母有任何不快之事,我便不能活下去;我以真实发誓。
3.298.104
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि ।
मम प्रियं वा कर्तव्यं गच्छावाश्रममन्तिकात् ॥ ३.२९८.१०४ ॥
若你心向法义,愿我活着,或应当成全我的心愿,那就从这里去附近的修行林吧。
3.298.105
सावित्री तत उत्थाय केशान्संम्य भामिनी ।
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ॥ ३.२९८.१०५ ॥
于是萨维特丽起身,束起头发,那位光彩照人的女子用双臂扶起丈夫。
3.298.106
उत्ताय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना ।
सर्वा दिशः समालोक्य कठिने दृष्टिमादधे ॥ ३.२९८.१०६ ॥
萨提亚凡也起身,用手拂去身上的尘土,环顾四方,将目光投向那片荒凉的林地。
3.298.107
तमुवाचाथसावित्री श्वः फलानि हरिष्यसि ।
योगक्षेमार्थमेतं ते नेष्यामि परशुं त्वहम् ॥ ३.२९८.१०७ ॥
萨维特丽对他说:明天你将去采摘果实;为了你的安稳与平安,我将把这把斧头带上。
3.298.108
कृत्त्वा कठिनभारं सा वृक्षशाखावलम्बिनम् ।
गृहीत्वा परशुं भर्तुः सकाशे पुनरागमत् ॥ ३.२९८.१०८ ॥
她把那沉重的东西扛起,取下挂在树枝上的斧头,再次回到丈夫身边。
3.298.109
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य च ।
दक्षिणएन परिष्वज्य जगाम गजगामिनी ॥ ३.२९८.१०९ ॥
她将丈夫的手臂搭在左肩上,以右臂拥抱着他,如象步般的她向前走去。
3.298.110
अभ्यासगमनाद्भीरु पन्थानो विदिता मम ।
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ॥ ३.२९८.११० ॥
胆怯的人啊,因为常来此处,我熟悉这些道路;透过树间的月光,我也能辨认出它们。
3.298.111
आगतौ स्वः पथा येन फलान्यवचितानि च ।
यथागतं शुभे गच्छ पन्थानं मा विचारय ॥ ३.२९८.१११ ॥
吉祥的人啊,就沿着我们俩来时采果的那条路回去吧,不必再去思量道路。
3.298.112
पलाशखण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा ।
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ॥ ३.२९८.११२ ॥
在这片波罗奢树林中,道路分成两条;走它北边的那条路,并且快走。
3.298.113
स्वस्थोस्मि बलवानस्मि दिदृक्षुः पितरावुभौ ।
ब्रुवन्नेव त्वरायुक्तः सम्प्रायादाश्रमं प्रति ॥ ३.२९८.११३ ॥
他说着“我身体康健,又有力气,想要见到父母双亲”,急促地朝净修林走去。