Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.30.1

नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव ।
पितृपैतामहे राज्ये वोढव्ये तेऽन्यथा मतिः ॥ ३.३०.१ ॥

敬礼创造者与安排者,是他们使你迷惑。你本应承担父祖的王国,心志却转向了别处。

3.30.2

कर्मभिश्चिन्तितो लोको गत्यांगत्यां पृथग्विधः ।
तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति । ॥ ३.३०.२ ॥

世界由行为所构想,在去来之间有种种差别。因此应当履行常业;若贪求解脱者则如此。

3.30.3

नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च ।
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ॥ ३.३०.३ ॥

在这世上,人唯有凭借法、慈悲、忍耐与正直才能获得吉祥,绝不会因残忍而得到。

3.30.4

त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् ।
स त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ॥ ३.३०.४ ॥

婆罗多之子啊,若这难以忍受的灾难降临在你身上,你不应如此,你这些大力的兄弟也不应如此。

3.30.5

न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत ।
धर्मात्प्रियतरं किंचिदपि चेज्जीवितादपि ॥ ३.३०.५ ॥

婆罗多之子啊,无论当时还是今日,你从未发现有比法更可爱的东西,甚至比生命更可爱的也没有。

3.30.6

धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते ।
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ॥ ३.३०.६ ॥

你的王国为了法而存在,你的生命也为了法而存在。婆罗门、师长乃至诸神都知道这一点。

3.30.7

भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह ।
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ॥ ३.३०.७ ॥

毗摩娑那与阿周那二人,以及摩德利的两个儿子,连同我在内,你应当舍弃他们,这是我的想法;但不要舍弃法。

3.30.8

राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः ।
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ॥ ३.३०.८ ॥

我从贤者那里听说:守护法的国王,被守护时,法便守护他;但我认为它并没有守护你。

3.30.9

त्यक्त्वाऽन्यान्हि नरव्याघ्र नित्यदा धर्म एव ते ।
बुद्धिः सततमन्वेति छायेवं पुरुषं निजा ॥ ३.३०.९ ॥

人中猛虎啊,即便舍弃了其他人,你的法始终是你的心;如影随形,它时时跟随着你。

3.30.10

नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः ।
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ॥ ३.३०.१० ॥

不要轻视同等的人,也不要轻视低下的人,何况尊贵的人呢?虽得整个大地,你的山峰(声望)并未增长。

3.30.11

स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् ।
देवताश्च पितॄंश्चैव सततं पार्थ सेवसे ॥ ३.३०.११ ॥

普利塔之子啊,你以献给神的供奉、献给祖先的供奉和敬礼,常常侍奉再生者、诸神和祖先。

3.30.12

ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः ।
यतयो मोक्षिणश्चैव गृहस्ताश्चैव भारत ॥ ३.३०.१२ ॥

普利塔之子啊,婆罗门们一直被你满足了一切愿望;婆罗多的后裔啊,还有苦行者、求解脱者,以及在家居士,也都是如此。

3.30.13

भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका ।
आरण्यकेभ्यो वन्यानि भोजनानि प्रयच्छसि।
नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते ॥ ३.३०.१३ ॥

我曾作为侍女的地方,人们用金器皿进食;而你却把林中的食物给了居住在林中的人,你家里却已没有可以布施给婆罗门的东西。

3.30.14

यदिदं वैश्वदेवान्ते सायं प्रातः प्रदीयते ।
तद्दत्त्वाऽतिथिभृत्येभ्योराजञ्शिष्टेनजीवसि ॥ ३.३०.१४ ॥

在吠舍婆提婆祭的末尾,早晚所供奉的食物,你把它布施给客人和仆人之后,啊国王,你靠剩余的东西度日。

3.30.15

इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये ।
वर्तन्ते पाकयज्ञाश्च सदा यज्ञाश्च तेऽनघ ॥ ३.३०.१५ ॥

啊无罪者,你的祭献(伊什提)、牲畜祭、有所求与临时的祭祀、家常煮食祭,以及你的其他祭祀,都始终在进行。

3.30.16

अस्मिन्नपि महारण्ये विजने दस्युसेविते ।
राष्ट्रादपेत्य वसतो धर्मस्ते नावसीदति ॥ ३.३०.१६ ॥

即使在这片远离王国、盗贼出没、荒僻广阔的大森林中居住,你的法也没有衰退。

3.30.17

अश्वमेधो राजसूयः पौण्डरीकोऽथ गोसवः ।
इष्टास्त्वया महायज्ञाबहवोऽन्ये सदक्षिणाः ॥ ३.३०.१७ ॥

马祭、王祭、白莲祭与牛祭,以及其他许多附有布施的大祭祀,都是你所主持举行的。

3.30.18

राजन्परीतया बुद्ध्या विषमेऽक्षपराजये ।
पार्थ मित्राणि चास्मांश्च वसूनि च पराजितः ॥ ३.३०.१८ ॥

啊国王,啊普利塔之子,你在不公平的赌局中因掷骰失败而心神迷乱,于是你输掉了朋友、我们以及财富。

3.30.19

ऋजोर्मृदोर्बदान्यस्य धीमतः सत्यवादिनः ।
कथमक्षव्यसनजा बुद्धिरापतिता तव ॥ ३.३०.१९ ॥

你正直、温和、慷慨、睿智而诚实,为何竟生出这由赌博嗜好而起的心念?

3.30.20

अतीव मोह आयाति मनश् परिदूयते ।
निशाम्य व्यसनं पार्थ तवेदमतिदुःसहम् ॥ ३.३०.२० ॥

啊,普利塔之子,看到你这极难忍受的灾难,我深感迷惑,心中痛苦万分。

3.30.21

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ॥ ३.३०.२१ ॥

关于此事,人们还讲述这个古老的故事:世界处于主宰的掌控之下,而非自己的掌控之下。

3.30.22

धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये ।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ ३.३०.२२ ॥

造物主确实赐予众生苦乐、爱与不爱;主宰预先宣告未来,便赐予一切。

3.30.23

यथा दारुमयीं योषां नरो धीरः समाहितः ।
इङ्ग्यत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥ ३.३०.२३ ॥

犹如坚定专注的人牵动木偶的肢体,大王啊,这些众生也如此被牵动。

3.30.24

आकाश इव भूतानि व्याप्य सर्वाणि भारत ।
ईश्वरो विदधातीह कल्याणं यच्च पापकम् ॥ ३.३०.२४ ॥

婆罗多之后啊,犹如虚空遍布一切众生,主宰在此安排善与恶。

3.30.25

शकुनिस्तन्तुबद्धो वा नीयतेऽयमनीश्वरः ।
ईश्वरस्य वशे तिष्ठन्नान्येषामात्मनः प्रभुः ॥ ३.३०.२५ ॥

如同被丝线所缚的鸟,或无力的生灵被牵引而去,这无能的人处于主宰者的掌控之中;他既不是自己的主人,也不是他人的主人。

3.30.26

मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः ।
धातुरादेशमन्वेति तन्मयो हि तदर्पणः ॥ ३.३०.२६ ॥

如同串在丝线上的宝珠,或被穿了鼻绳的公牛,他遵从造物主的命令;他完全沉浸其中,并将自己奉献给他。

3.30.27

नात्माथीनो मनुष्योऽयं कालं भजतिं कंचन ।
स्रोतसो मध्यमापन्नः कूलवृक्ष इव च्युतः ॥ ३.३०.२७ ॥

这个人不能自主,无法享有任何时光;他陷在水流之中,如同被连根拔起的河岸树木,随波逝去。

3.30.28

अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ॥ ३.३०.२८ ॥

这无知的生灵对自己的苦乐也无法做主;受主的驱使,它或升天,或堕入地狱。

3.30.29

यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः ।
धातुरेवं वशं यान्ति सर्वभूतानि भारत ॥ ३.३०.२९ ॥

如同草尖顺从强劲之风的力量,婆罗多啊,一切众生也都顺从造物主的力量。

3.30.30

आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वः ।
व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥ ३.३०.३० ॥

那位使人投身于高尚或罪恶之业的主宰,遍布于一切众生之中而行走,却不能被认作'此人'。

3.30.31

हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम् ।
येन कारयते कर्म शुभाशुभफलं विभुः ॥ ३.३०.३१ ॥

这个被称为田的身体,只是造物主的一件工具,全能者借它使人行善或作恶、承受善恶之果。

3.30.32

पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः ।
यो हन्ति भूतैर्भूतानि मोहयित्वाऽऽत्ममायया ॥ ३.३०.३२ ॥

看啊,主以自身的幻力造成此幻化之威:以自己的幻术迷惑众生,借众生之手杀害众生。

3.30.33

अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ ३.३०.३३ ॥

真知灼见的圣人所见之物,本相各异;它们的变化也各不相同,如同风的疾速流动。

3.30.34

अन्यथैव हि वर्तन्ते पुरुषास्तानि तानि च ।
अन्यथैव प्रभुस्तानि करोति विकरोति च ॥ ३.३०.३४ ॥

众人对待各种事物也各不相同,而主也将它们造成不同之态,并加以改变。

3.30.35

यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः ।
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ॥ ३.३०.३५ ॥

犹如木可以割木,石可以击石,再如铁可以断铁,这些都是静止而无知觉的东西。

3.30.36

एवं स भगवान्देवः स्वयंभूः प्रपितामहः ।
निहन्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ॥ ३.३०.३६ ॥

如此,那位世尊之神、自生的太祖,啊,坚战,以诡计使众生借众生之手而杀害众生。

3.30.37

संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः ।
क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव ॥ ३.३०.३७ ॥

这位随意而为的主宰,聚合又分离众生,如同孩童玩弄玩具一般,与众生嬉戏。

3.30.38

न मातृपितृवद्राजन्धाता भूतेषु वर्तते ।
रोषादिव प्रवृत्तो।़यं यथाऽयमितरो जनः ॥ ३.३०.३८ ॥

大王啊,造物主对众生并不像母亲或父亲那样;他仿佛被愤怒驱使,像其他普通人一样行事。

3.30.39

आर्याञ्शीलवो दृष्ट्वा हीमतो वृत्तिकर्शितान् ।
अनार्यान्सुखिनश्चैव विह्वलानिव चिन्तये ॥ ३.३०.३९ ॥

看见高尚、有德、知耻之人因生计而憔悴,而卑劣之人却快乐,我便如同惶乱一般忧思不已。

3.30.40

तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने ।
धातारं गर्हये पार्थ विषमं योऽनुपश्यति ॥ ३.३०.४० ॥

阿周那啊,见你遭此厄运而苏耶陀那繁荣,我谴责那以偏颇眼光看待世界的造物主。

3.30.41

आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि ।
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ॥ ३.३०.४१ ॥

造物主将繁荣赐予那违背高贵经典、残忍贪婪、败坏正法的持国之子,他能得到什么果报呢?

3.30.42

कर्मचेत्कृतमन्वेति कर्तारं नान्यमृच्छति ।
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ॥ ३.३०.४२ ॥

若所作之业只追随作者而不及他人,那么主宰必定会被那恶业所玷污。

3.30.43

अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति ।
कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ॥ ३.३०.४३ ॥

若所造之罪不及其作者,则在此世间力量便是原因;我为弱者而悲伤。