Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.302

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.302.1

माऽहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा ।
पुत्राणामथ भार्याणामथो मातुरथो पितुः ॥ ३.३०२.१ ॥

迦尔纳啊,不要伤害你自己、朋友、儿子、妻子、母亲和父亲。

3.302.2

शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर ।
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ॥ ३.३०२.२ ॥

众生之中最优秀者啊,人们希望在不伤害身体的情况下获得名声,而在天界也有永恒的荣耀。

3.302.3

यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् ।
सा ते प्राणान्समादाय गमिष्यति न संशयः ॥ ३.३०२.३ ॥

你为了求永恒的名声而违背生命,那名声会夺走你的生命之气而离去,毫无疑问。

3.302.4

जीवतां कुरुते कार्यं पिता माता सुतास्तथा ।
ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ॥ ३.३०२.४ ॥

人中之牛啊,在这个世界上,父亲、母亲、儿子以及其他亲属,只为活着的人尽他们的义务。

3.302.5

राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ।
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते ॥ ३.३०२.५ ॥

人中之虎啊,国王们应以勇武理解此事;大光明者啊,活着的人的名声才是正当的。

3.302.6

मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ।
मृतः कीर्तिं न जानीते जीवन्कीर्ति समश्नुते ॥ ३.३०२.६ ॥

对于死者,对于化为灰烬的有身者,名声有什么用呢?死者不知名声;活着的人才能获得名声。

3.302.7

मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः ।
अहं तु त्वां ब्रवीम्येतद्भक्तोसीति हितेप्सया ॥ ३.३०२.७ ॥

死去凡人的名声,对于寿命已尽的人,如同枯萎的花环。但因你是虔信者,出于对你的善意,我才告诉你这些。

3.302.8

भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना ।
भक्तोयं परया भक्त्या मामित्येव महाभुज ॥ ३.३०२.८ ॥

虔信者应当受到我的保护,也正是出于这个缘故。这位虔信者以最高的虔敬,仅仅依托于我,哦,大臂者。

3.302.9

ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ।
अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम्।
अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया ॥ ३.३०२.९ ॥

你对我也生起了虔敬;所以请照我的话去做。这里还有一件由诸神所造的至高灵性秘密。因此我告诉你;毫无疑虑地去做吧。

3.302.10

देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ ।
नस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ॥ ३.३०२.१० ॥

人中雄牛啊,诸神的秘密不是你所能知道的。因此我不把这秘密告诉你;到了时候,你自会知道。

3.302.11

पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् ।
माऽस्मै ते कुण्डले दद्या भिक्षिते वज्रापाणिना ॥ ३.३०२.११ ॥

我再说一遍;哦,罗陀之子,请理解。当持金刚杵者乞求时,不要把你的耳环给他。

3.302.12

शोभसे कुण्डलाभ्यां च रुचिराभ्यां महाद्युते ।
विशाखयोर्मध्यगतः शशीव विमले दिवि ॥ ३.३०२.१२ ॥

哦,大光明者,你因这些美丽的耳环而光彩照人,如同晴朗天空中位于毗舍佉星宿之间的月亮。

3.302.13

कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् ।
प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः ॥ ३.३०२.१३ ॥

孩子啊,你要知道,活着的人的美名才是他真正的财富。为了耳环,你必须拒绝诸神之主。

3.302.14

पाण्डवानां हिते युक्तो भिक्षन्ब्राह्मणवेषधृत् ।
शक्त्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयाऽनघ।
विहन्तुं देवराजस् हेतुयुक्तैः पुनःपुनः ॥ ३.३०२.१४ ॥

无罪者啊,你为了般度之子的福祉,化作婆罗门前来乞求。出于对耳环的渴望,你以种种言辞和合理的论据,一再试图阻挠众神之王的意图。

3.302.15

उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः ।
पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ॥ ३.३०२.१५ ॥

迦尔纳啊,以合乎道理、饰以甘美的言辞,请你打消补兰达罗(因陀罗)的这一意图。

3.302.16

त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना ।
सव्यसाची त्वया चेह युधि शूरः समेष्यति ॥ ३.३०२.१६ ॥

人中之虎啊,你总是与萨维亚萨钦(阿周那)争胜。而在这里的战斗中,英雄萨维亚萨钦将与你相遇。

3.302.17

न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् ।
विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ॥ ३.३०२.१७ ॥

然而,佩戴耳环的你,阿周那在战斗中也无法战胜,即使因陀罗自己化作他的箭。

3.302.18

तस्मान्न देये शख्राय त्वयैते कुण्डले शुभे ।
संग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् ॥ ३.३०२.१८ ॥

因此,迦尔纳啊,若你想在战斗中战胜阿周那,就不要把这两只吉祥的耳环给予帝释天(沙克拉)。