Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.303

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.303.1

भगवन्तमहं भक्तो यथा मां वेत्थ गोपते ।
तथा परमतिग्मांशो नास्त्यदेयं कथंचन ॥ ३.३०३.१ ॥

尊贵者啊,我是您的信徒;正如您了解我,光芒之主啊,至为炽烈者啊,我没有什么是不能给予的。

3.303.2

न मे दारा न मेपुत्रा न चात्मा सुहृदो न च ।
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ॥ ३.३०३.२ ॥

我的妻子、儿子、自身与朋友,都不如您那样珍贵;光芒之主啊,您因虔敬而始终为我所爱。

3.303.3

इष्टानां च महात्मानो भक्तानां च न संशयः ।
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ॥ ३.३०३.३ ॥

伟大的灵魂无疑对所爱之人和虔诚的信徒表示珍爱的虔敬;而您也深知这一点,光明之主啊。

3.303.4

इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि ।
जानीत इतिवै कृत्वा भगवानाह मद्धितम् ॥ ३.३०३.४ ॥

迦尔纳是我所爱的信徒,天上再无别的神;知道这一点,尊贵者便说出了对我有利的话。

3.303.5

भूयश्च शिरसा याचे प्रसाद्य च पुनःपुनः ।
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ॥ ३.३०३.५ ॥

我再次低头恳求;一再安抚您,说道:锐光之主啊,您应当宽恕我。

3.303.6

बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् ।
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ॥ ३.३०३.६ ॥

我对死亡的恐惧不及对虚妄的恐惧,尤其是对再生者、对所有人、以及对善人,我始终如此。

3.303.7

प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ।
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति ॥ ३.३०३.७ ॥

神啊,即使奉献我的生命,我也毫无犹豫。至于你向我谈及般度之子法尔古那(阿周那)的事——

3.303.8

व्येतु संतापजं दुःखं तव भास्कर मानसम् ।
अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम् ॥ ३.३०३.८ ॥

婆罗迦啊,愿你心中由忧伤而生的悲痛消散。即使是与阿周那相当的人,我也要在战场上战胜——就是阿周那本人。

3.303.9

तवापि विदितं देव ममाप्यस्त्रबलं महत् ।
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ॥ ३.३०३.९ ॥

神啊,你也知道:我从耶摩陀耆尼之子(持斧罗摩)和大德德罗纳那里所得的武器之力也是巨大的。

3.303.10

इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम ।
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ॥ ३.३०३.१० ॥

诸神之最啊,请允许我这誓愿:对前来乞求的金刚持者,我甚至会献出自己的性命。

3.303.11

यदि तात ददास्येते वज्रिणे कुण्डले शुभे ।
त्वमप्येनमथो ब्रूया विजयार्थं महाबल ॥ ३.३०३.११ ॥

孩子啊,若你把这对吉祥的耳环给金刚持者,那么,大力者啊,你应当为了胜利而向他说这些话。

3.303.12

नियमेन प्रदद्यास्त्वं कुण्डलेवै शतक्रतोः ।
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ॥ ३.३०३.१२ ॥

你应当依约把耳环交给因陀罗;因为你若佩戴着这对耳环,便不会被任何众生所杀。

3.303.13

अर्जुनन विनाशं हि तव दानवसूदनः ।
प्रार्तयानो रणे वत्स कुण्डले ते जिहीर्षति ॥ ३.३०३.१३ ॥

孩子啊,斩杀檀那婆的阿周那会在战场上寻求你的毁灭;他还会想夺去你的耳环。

3.303.14

स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः ।
अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ॥ ३.३०३.१४ ॥

你也应当以温和的话语一次次地讨好他,向诸神之主补罗檀陀罗请求一件永不落空的恩赐。

3.303.15

अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् ।
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ॥ ३.३०३.१५ ॥

"千眼者啊,请赐予我一种能消灭敌人的不败之力;那时我便把耳环和上好的铠甲交给你。"

3.303.16

इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले ।
तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून् ॥ ३.३०३.१६ ॥

如此,依照约定,你应把耳环交给帝释天;而凭借那件武器,迦尔纳啊,你将在战斗中杀死你的敌人。

3.303.17

नाहत्वा हि महाबाहो शत्रूनेति करं पुनः ।
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ॥ ३.३०३.१७ ॥

大臂者啊,那天神之王的力量若不杀死敌人便不会重回手中;它能杀死成百上千的敌人。

3.303.18

एवमुक्त्वा सहस्रांशुः सहसाऽन्तरधीयत ।
कर्णस्तु बुबुधे राजन्स्वप्नान्ते प्रव्यथन्निव ॥ ३.३०३.१८ ॥

说完这些,千光之日神忽然消失了;国王啊,迦尔纳在梦境结束时醒来,仿佛感到痛苦。

3.303.19

प्रतिबुद्धस्तु राधेयः स्वप्नं संचिन्त्य भारत ।
चकार निश्चयं राजञ्शक्त्यर्थं वदतांवर ॥ ३.३०३.१९ ॥

醒来的罗陀之子迦尔纳思索了梦境,婆罗多啊,为了他的枪做出了决定,国王啊,最善言者。

3.303.20

यदि मामिन्द्र आयाति कुण्डलार्थं परन्तप ।
शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह ॥ ३.३०३.२० ॥

若因耳环而来的因陀罗来到我这里,败敌者啊,我将用我的枪把耳环和铠甲给他。

3.303.21

स कृत्वा प्रातरुत्थाय कार्याणि भरतर्षभ ।
ब्राह्मणान्वाचयित्वा च यथाकार्यमुपाक्रमत् ॥ ३.३०३.२१ ॥

他清晨起身,婆罗多族之牛啊,完成自己的职责,让婆罗门诵读,并按所需开始行事。

3.303.22

विधिना राजशार्दूल मुहूर्तमजपत्तदा ।
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ॥ ३.३०३.२२ ॥

依照仪轨,王中之虎啊,他诵念片刻;然后在诵念结束时,迦尔纳向太阳报告了梦境。

3.303.23

यथा दृष्टं यथातत्त्वं यथोक्तमुभयोर्निसि ।
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ॥ ३.३०३.२३ ॥

按他所见、按真实情况、按夜间二者所说,那头牛(迦尔纳)便依次将一切述说给他。

3.303.24

तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः ।
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ॥ ३.३०३.२४ ॥

太阳神婆诃那(Bhānu)、斩杀斯瓦尔跋努者,闻此言后,仿佛微笑地对迦尔纳说:“就这样吧。”

3.303.25

ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा ।
शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ॥ ३.३०३.२५ ॥

于是,知道这是真理,罗陀之子、杀敌英雄的迦尔纳,确实渴望那支长矛,便对帝释天(Vāsava)信守了诺言。