Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.304

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.304.1

किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना ।
कीदृशेकुण्डले ते च कवचं रचैव कीदृशम् ॥ ३.३०४.१ ॥

那个热光之神未曾告诉迦尔纳的秘密是什么?他的耳环是什么样的,铠甲又是什么样的?

3.304.2

कुतश्च कवचं तस्यं कुण्डलेचैव सत्तम ।
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ॥ ३.३०४.२ ॥

他的铠甲和耳环从何而来?善人中的最优者啊,我想听此事;苦行的宝藏啊,请告诉我。

3.304.3

अहं राजन्ब्रवीम्येतत्तस्य गुह्यं विभावसोः ।
यादृशे कुण्डले ते च कवचं वैव यादृशम् ॥ ३.३०४.३ ॥

大王啊,我为你讲述毗婆娑(太阳)的这一秘密——那耳环是怎样的,铠甲又是怎样的。

3.304.4

कुन्तिभोजं पुरा राजन्ब्राह्मणः पर्युपस्थितः ।
तिग्मतेजा महान्प्रांशुः श्मश्रुदण्डजटाधरः ॥ ३.३०४.४ ॥

大王啊,往昔有一位婆罗门来到贡提菩阇身边——他光芒锐利,伟大,身材高大,留着胡须,持着手杖,头发结成髻。

3.304.5

दर्सनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव ।
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ॥ ३.३०४.५ ॥

容貌可观,肢体无瑕,光彩如火焰般闪耀,蜜黄色,语言甘美,以苦行和诵习为装饰。

3.304.6

स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः ।
भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर ॥ ३.३०४.६ ॥

那位大苦行者对国王贡提菩阇说:“无嫉妒的人啊,我愿在你家中受用乞食。”

3.304.7

न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः ।
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ ॥ ३.३०४.७ ॥

若你愿意,你或你的随从不可对我有任何冒犯;如此我便住在你家中,无罪者啊。

3.304.8

यथाकामं च गच्छेयमागच्छेयं तथैव च ।
शय्यासने च मे राजन्नापराध्येत कश्चन ॥ ३.३०४.८ ॥

我可随心所欲地去来;大王啊,关于我的床榻与座位,不可有人冒犯。

3.304.9

तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः ।
एवमस्तु परंचेति पुनश्चैवमथाब्रवीत् ॥ ३.३०४.९ ॥

贡提婆阇怀着满腔敬爱对他说:“就这样吧,很好。”随后他又这样说。

3.304.10

मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी ।
शीलवृत्तान्विता साध्वी नियताऽनवमानिनी ॥ ३.३०४.१० ॥

大智者啊,我的女儿名叫普利塔,是个有名望的人;她品行端正,贞洁,克己,从不轻慢他人。

3.304.11

उपस्थास्यति सा त्वां वै पूजयाऽनवमत्य च ।
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ॥ ३.३०४.११ ॥

她会以敬意且不轻慢地侍奉你;你也会因她的品行与德操而心满意足。

3.304.12

एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि ।
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ॥ ३.३०४.१२ ॥

说完这些,并依礼恭敬地款待了那位婆罗门,他走近大眼的少女普利塔,对她说道。

3.304.13

अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति ।
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ॥ ३.३०४.१३ ॥

女儿啊,这位大福之婆罗门想住在我家,我已应允他如此。

3.304.14

त्वयि वत्से परायत्तं ब्राह्मणस्याभिराधनम् ।
तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित् ॥ ३.३०४.१४ ॥

女儿啊,让婆罗门满意的事情取决于你。因此你绝不可使我的话成为虚言。

3.304.15

अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः ।
यद्यद्ब्रूयान्महातेजास्तत्तद्देयमात्सरात् ॥ ३.३०४.१५ ॥

这位苦行者、尊贵的再生婆罗门,专注于吠陀诵习,具有大光辉,凡他所说,都应毫不吝惜地给予。

3.304.16

ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः ।
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ॥ ३.३०४.१६ ॥

婆罗门即是至高的光辉,婆罗门即是至高的苦行;因向婆罗门致敬,太阳才在天上照耀。

3.304.17

अमानयन्हि दाण्डक्यो वातापिश्च महासुरः ।
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च।
वैन्ध्याद्रिश्च समुद्रश्च नद्दुषश्च विहिंसितः ॥ ३.३०४.१७ ॥

因为檀陀迦和大阿修罗伐多比轻慢婆罗门,所以被婆罗门的杖所杀;多罗样伽同样被杀;文底耶山、大海与纳杜沙也都受到伤害。

3.304.18

सोयं वत्से महाभार आहितस्त्वयि सांप्रतम् ।
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ॥ ३.३०४.१८ ॥

女儿啊,这份重任现在落在你身上。你应当始终克制谨慎,服侍婆罗门并使他满意。

3.304.19

जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि ।
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ॥ ३.३०४.१९ ॥

难陀尼啊,我知道你从小便对这里所有的婆罗门、师长和亲族恭敬虔诚。

3.304.20

तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु ।
मयि चैव यथावत्त्वंसर्वमावृत्य वर्तसे ॥ ३.३०४.२० ॥

同样,对待所有仆人、朋友、亲属、母亲,以及对待我,你都能掩去其他一切,恰当地行事。

3.304.21

न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते ।
सम्यग्वृत्त्याऽनवद्याङ्गि तव भृत्यजनेष्वपि ॥ ३.३०४.२१ ॥

无瑕肢体的女子啊,因为你行为端正,这座城中、后宫之中,甚至你的仆人之中,也没有一人对你不满。

3.304.22

संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति ।
पृथे बालेति कृत्वा वै सुता चासिममेति च ॥ ३.३०४.२२ ॥

但我认为,普利塔啊,关于那位易怒的婆罗门,应当对你加以叮嘱;你还是孩子,也是我的女儿。

3.304.23

वृष्णीनां च कुले जाता शूरस् दयिता सुता ।
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरास्वयम् ॥ ३.३०४.२३ ॥

她生于婆利施尼族,是舒罗所钟爱的女儿;往昔她还是孩童时,便由慈爱的父亲亲自赠予我。

3.304.24

वसुदेवस् भगिनी सुतानां प्रवरा मम ।
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ॥ ३.३०४.२४ ॥

你是婆苏提瓦的妹妹,是我众女中最优秀的一个;他先许下最珍贵的承诺,因此你成了我的女儿。

3.304.25

तादृशे हि कुले जाता कुले मम विवर्धिता ।
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवापगा ॥ ३.३०४.२५ ॥

你生于那样的家族,在我的家族中长大,如同河流从一个湖流入另一个湖,由乐至乐。

3.304.26

दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः ।
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ॥ ३.३०४.२६ ॥

出身低贱之家的女子,尤其是,总算能够克制;吉祥的女子啊,女人大多因幼稚而走入歧途。

3.304.27

पृथे राजकुले जन्म रूपं चापि तवाद्भुतम् ।
तेन तेनासि संपन्ना समुपेता च भामिनि ॥ ३.३०४.२७ ॥

普利塔啊,你生于王族,你的容貌也美妙非凡;热情的女子啊,正因如此,你才得以圆满具足。

3.304.28

सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि ।
आराध्यवरदं विप्रं श्रेयसा योक्ष्यसे पृथे ॥ ३.३०४.२८ ॥

舍弃骄傲、虚伪与自尊,热情的女子啊,去敬奉那赐予恩惠的婆罗门;普利塔啊,你便会与吉祥相连。

3.304.29

एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् ।
कोपिते च द्विजश्रेष्ठे कुत्स्नं दह्येत मे कुलम् ॥ ३.३०४.२९ ॥

如此,吉祥的女子啊,无瑕的女子啊,你必定会得到福祉;但若最优秀的再生者(婆罗门)发怒,我的全族都将被焚毁。