Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.308

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.308.1

सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः ।
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ॥ ३.३०८.१ ॥

那位少女虽以种种甜美的言语相劝,却未能平息那千道光芒的太阳。

3.308.2

न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् ।
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ॥ ३.३०८.२ ॥

那少女无法拒绝驱散黑暗的太阳,于是,大王,她因惧怕诅咒而沉思良久。

3.308.3

अनागसः पितुः शापो ब्राह्मणस्य तथैव च ।
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ॥ ३.३०८.३ ॥

无辜的父亲和婆罗门的诅咒,因我之故,岂不会从这位愤怒的毗婆娑来临吗?

3.308.4

बालेनापि सता मोहाद्भृशं सापह्नवान्यपि ।
नाऽभ्यासादयितव्यानि तेजांसि च तपांसि च ॥ ३.३०८.४ ॥

即使是孩童,善人也不应因迷惑而接近那深藏的火焰般的威力与苦行。

3.308.5

साहमद्य भृशं भीता गृहीत्वा च करे भृशम् ।
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ॥ ३.३०८.५ ॥

今日我甚为恐惧,即使被他紧握着手,我怎能做这不当之事,自己主动把自己献出?

3.308.6

सा वै शापपरित्रस्ता बहु चिन्तयती हृदा ।
मोहेनाभिपरीताङ्गी स्मयमाना पुनःपुनः ॥ ३.३०८.६ ॥

她因诅咒而极度恐惧,心中反复思量,肢体被迷惑所笼罩,一再地微笑着。

3.308.7

तं देवमब्रवीद्भीता बन्धूनां राजसत्तम ।
व्रीडाविह्वलया वाचा शापत्रस्ता विशांपते ॥ ३.३०८.७ ॥

她因诅咒而惊恐,声音因羞愧而颤抖,对那位天神谈起她的亲族,诸王中最优秀者啊,人民之主。

3.308.8

पिता मे ध्रियते देव माता चान्ये च बान्धवाः ।
न तेषु ध्रियमाणएषु विदिलोपो भवेदयम् ॥ ३.३०८.८ ॥

神啊,我的父亲还活着,母亲和其他亲人也都在。他们在世时,这将是对习俗的违背。

3.308.9

त्वया तु संगमो देव यदि स्याद्विधिवर्जितः ।
मन्निमित्तं कुलस्यास्य लोकेऽकीर्तिर्न संशयः ॥ ३.३०८.९ ॥

神啊,若你与我的结合不依仪轨,那么因我之故,这个家族将在世间蒙受恶名,此事毫无疑问。

3.308.10

अथवा धर्ममेतं त्वं मन्यसे तपतांवर ।
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ॥ ३.३०८.१० ॥

或者,苦行者中最优秀者啊,若你认为这合乎法,那么不经亲族的许配,我也会满足你的愿望。

3.308.11

आत्मप्रदानं दुर्धर्ष तव कृत्वासती त्वहम् ।
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ॥ ३.३०८.११ ॥

不可战胜者啊,若我将自己献给你,我便成为失节之人。法、荣誉、名声,以及众生的寿命,都在于你。

3.308.12

न ते पिता न ते माता गुरवो वा शुचिस्मिते ।
प्रभवन्ति प्रदाने ते भद्रं ते शृणु मे वचः ॥ ३.३०८.१२ ॥

纯洁微笑的女子啊,你的父亲、母亲或长辈,都无权决定你的许配。愿你吉祥,请听我的话。

3.308.13

सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि ।
तस्मात्कन्येह सुश्रोणी स्वतन्त्रा वरवर्णिनि ॥ ३.३०८.१३ ॥

因为她渴望一切(源自词根kan);因此,美臀的女子啊,你在此是少女,自由自在,美丽的女子啊。

3.308.14

नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि ।
अधर्मंकुत एवाहं वरेयं लोककाम्यया ॥ ३.३०८.१४ ॥

美丽的女子啊,你并未犯下任何不义;是我在行不义,为了世界的福祉而选择你。

3.308.15

अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि ।
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ॥ ३.३०८.१५ ॥

美丽的女子啊,所有女子与男子都是不受约束的;这是世界的本性,其他的则被认为是偏离。

3.308.16

सा मया सहसंगम्य पुनः कन्या भविष्यसि ।
पुत्रश्च ते महावाद्दुर्भविष्यति न संशयः ॥ ३.३०८.१६ ॥

与我结合之后,你将再次成为少女;你的儿子将是大臂者,这毫无疑问。

3.308.17

यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोनुद ।
कुण्डली कवची शूरो महाबाहुर्महाबलः।
अस्तु मे सङ्गमो देव अनेन समयेन ते ॥ ३.३०८.१७ ॥

若我能从你生下一个子,驱散一切黑暗者啊,他佩戴耳环、身着铠甲、勇武、大臂、大力,那么,神啊,愿我们依照你的这一条件结合。

3.308.18

भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् ।
उभयं चामृतमयं तस् भद्रे भविष्यति ॥ ३.३०८.१८ ॥

他将是大臂者,佩戴耳环,身披神圣铠甲;善良的女子啊,这两样都将由不死之甘露所成。

3.308.19

यद्यतदमृतादस्ति कुण्डले वर्म चोत्तमम् ।
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ॥ ३.३०८.१९ ॥

若这由甘露而生的耳环与这件殊胜的甲胄确实存在,愿你从我所生的儿子也如此。

3.308.20

अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया ।
त्वद्वीर्यरूपसत्वौजा धऱ्मयुक्तो भवेत्स च ॥ ३.३०८.२० ॥

天神啊,尊贵者啊,愿我与你的结合如你所说。愿他具备你的威力、容貌、力量与光辉,并且遵循法。

3.308.21

अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि ।
तस्मै दास्यामि वामोरु वर्म चैवेदमुत्तमम् ॥ ३.३०८.२१ ॥

王后啊,光辉的女子啊,这些耳环是阿底提赐予我的。美腿的女子啊,我也将把这件殊胜的甲胄给予他。

3.308.22

परमं भगवन्नेवं सङ्गमिष्ये त्वया सह ।
यदि पुत्रो भवेदेवं यथा वदसि गोपते ॥ ३.३०८.२२ ॥

至尊的世尊啊,我就这样与你结合,如果如你所说会有一个儿子,哦,牛群之主。

3.308.23

तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः ।
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ॥ ३.३०८.२३ ॥

说了「就这样吧」,那鸟(太阳)便进入了她。斯瓦尔跋努的敌人、瑜伽之自我,通过肚脐触碰了她。

3.308.24

तत सा विह्वलेवासीत्कन्या सूरय्स् तेजसा ।
पपात चाथ सा देवी शयने मूढचेतना ॥ ३.३०८.२४ ॥

那时,少女似乎被太阳的光辉所迷乱。随后,这位女神因心神迷乱而倒在床榻上。

3.308.25

साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि ।
सर्वशस्त्रभृतांश्रेष्ठं कन्या चैव भविष्यसि ॥ ३.३०८.२५ ॥

美臀的女子啊,我将促成此事:你将生下一子,他是一切持兵器者中最优秀的;而你仍将是处女。

3.308.26

ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् ।
एवमस्त्विति राजेन्द्रप्रस्थितं भूरिवर्चसम् ॥ ३.३०८.२६ ॥

于是那羞怯的少女对站在面前、光辉极盛的太阳说:「愿如此」——啊,诸王之王。

3.308.27

इतिस्मोक्ता कुन्तिराजात्मजा सा ।
विवस्वन्तं याचमाना सलज्जा।
तस्मिन्पुण्ये शयनीये पपात ।
मोहाविष्टा वेपमाना लतेव ॥ ३.३०८.२७ ॥

这样被说之后,俱蒂王之女向毗婆娑万(太阳)恳求,带着羞耻,倒在那神圣的床榻上,被迷惑所笼罩,像藤蔓一样颤抖。

3.308.28

तिग्मांशुस्तां तेजसा मोहयित्वा ।
योगेनाविश्यात्मसंस्थां चकार।
न चैवैनां दूषयामास भानुः ।
संज्ञां लेभे भूय एवात बाला ॥ ३.३०८.२८ ॥

炽热光芒的太阳以光辉使她迷惑,以瑜伽进入她的内在自我,如此行事;然而婆努并未玷污她,那少女重新恢复了知觉。