摩诃婆罗多 · 章 3.309
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.309.1
ततो गर्भः समभवत्पृथायाः पृथिवीपते ।
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ॥ ३.३०९.१ ॥
于是,大地之主啊,普利塔在白半月的第十日怀孕,犹如天空中的星辰之主(月亮)。
3.309.2
सा बान्धवभयाद्बाला गर्भं तं विनिगूहती ।
धारयामास सुश्रोणी न चैनां बुबुधे जनः ॥ ३.३०९.२ ॥
因惧怕亲族,那少女隐藏着那胎儿而怀着它,美臀的她没有被人们察觉。
3.309.3
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते ।
कन्यापुरगतां बालां निपुणां परिरक्षणे ॥ ३.३०९.३ ॥
实际上,除了那位随少女进入少女居所、善于保护的精明乳母外,没有其他女人知道她。
3.309.4
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी ।
कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ॥ ३.३०९.४ ॥
随后到了时候,那位容貌美丽的少女生下了那个胎儿;她仍是处女,由于那位神的恩典,那孩子光辉如不死者。
3.309.5
तथैवाबद्धकवचं कनकोज्ज्वलकुण्डलम् ।
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥ ३.३०९.५ ॥
同样地,身披铠甲,佩戴金光闪耀的耳环,眼如狮子,肩如公牛,正如他的父亲一样。
3.309.6
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी ।
उत्स्रष्टुकामा तं गर्भं कारयामास भारत। ॥ ३.३०९.६ ॥
孩子一出生,那位光彩照人的女子便与乳母商议,想要抛弃他,于是让人这样做了,婆罗多啊。
3.309.7
मञ्जूषां शिल्पिभिस्तूर्णं सुनद्धां सुप्रतिष्ठिताम् ।
प्लवैर्बहुविधैर्बद्धां प्लवनार्थं जले नृप।
अजिनैर्मृदुभिश्चैवं संस्तीर्णशयनां तथा ॥ ३.३०९.७ ॥
国王啊,工匠们迅速将箱子制作得牢固稳妥,用各种木筏把它绑好,使它能够浮在水上。箱中也同样铺好了用柔软兽皮做成的床铺。
3.309.8
मञ्जूषायां समाधाय स्वास्तीर्णायां समन्ततः ।
मधूच्चिष्टस्थितायां तं सुखायां रुदती तथा।
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ॥ ३.३०९.८ ॥
她把他放进那只四周铺好、涂了蜂蜡、舒适、光滑且盖得严实的箱子里,一边哭泣,一边将它放入阿什瓦河中。
3.309.9
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् ।
पुत्रस्नेहेन सा राजन्करुणं पर्यदेवयत् ॥ ३.३०९.९ ॥
国王啊,她虽知道未嫁之女怀孕是不应当的,却因对儿子的爱而悲切地哀哭起来。
3.309.10
समुत्सृजन्ती मञ्जूपामश्वनद्यां तदा जले ।
उवाच रुदतीकुन्ती यानि वाक्यानि तच्छृणु ॥ ३.३०९.१० ॥
请听,当她把箱子放入阿什瓦河的水中时,哭泣的贡蒂所说的话。
3.309.11
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक ।
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ॥ ३.३०९.११ ॥
孩子,愿你平安,无论来自天空、大地、神灵,还是水中游动的生灵。
3.309.12
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः ।
आगताश्च तथा पुत्र भवन्त्यद्रोहचेतसः ॥ ३.३०९.१२ ॥
愿你的道路吉祥,路上也没有阻拦你的人。孩子,无论谁来到你身边,愿他们都心怀善意,没有恶念。
3.309.13
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः ।
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ॥ ३.३०९.१३ ॥
愿水主国王伐楼那在水中护佑你;愿居于虚空、无所不行的风也同样护佑你于虚空之中。
3.309.14
पिता त्वां पातु सर्वत्र तपनस्तपतांवरः ।
येन दत्तोसि मे पुत्र दिव्येन विधिना किल ॥ ३.३०९.१४ ॥
愿父亲太阳——光耀者中最卓越者——处处护佑你;儿啊,正是他以神圣之法将你赐予了我。
3.309.15
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः ।
मरुतश्च सहेन्द्रेण दिशश्च सदिदीश्वराः ॥ ३.३०९.१५ ॥
愿阿提提亚、婆苏、楼陀罗、萨陀耶、一切天神,以及与因陀罗同在的摩录多,并常在的诸方之主护佑你。
3.309.16
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च ।
वेत्स्यामि त्वांविदेशेपि कवचेनाभिसूचितम् ॥ ३.३०९.१६ ॥
愿诸天神在平坦与险阻之地护佑你;即使在异国他乡,我也会凭那铠甲的标记认出你。
3.309.17
धन्यस्ते पुत्र जनरको देवो भानुर्विभावसुः ।
स्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ॥ ३.३०९.१७ ॥
儿啊,你是有福的。神明婆努、毗婆苏将以神眼注视你——你已进入军中。
3.309.18
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति ।
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ॥ ३.३०९.१८ ॥
愿意视你为子的那位女子是有福的;神所生的儿子啊,你口渴时吮吸其乳的那位女子也是有福的。
3.309.19
कोनु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् ।
दिव्यवर्मसमायुक्तं दिव्यकृण्डलभूषितम् ॥ ३.३०९.१९ ॥
她究竟做了怎样的梦,在梦中见到你如太阳般光辉,身披神甲,佩戴神耳环?
3.309.20
पद्मायतविशालाक्षं पद्मताम्रदलोज्ज्वलम् ।
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥ ३.३०९.२० ॥
那双眼睛宽大修长如莲花花瓣,光彩如红莲花瓣,额头秀美,发梢柔美的人,她会把他当作自己的儿子来想象。
3.309.21
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् ।
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ॥ ३.३०९.२१ ॥
孩子,那些能看见你在地上爬行、说着含糊甜美的话语、满身尘土的人,是有福的。
3.309.22
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगोचरम् ।
हिमवद्वनसंभूतं सिंहं केसरिणं यथा ॥ ३.३०९.२२ ॥
孩子,那些能看见你重新长成青年、如同生于喜马拉雅森林中的鬃毛狮子一般的人,是有福的。
3.309.23
एवं बहुविधं राजन्विलप्य करुणं पृथा ।
अवामृजतमज्जूषामश्वनद्यां तदा जले ॥ ३.३०९.२३ ॥
大王,普利塔(贡蒂)如此多方悲泣之后,便将那箱子投入阿什瓦河的水中。
3.309.24
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा ।
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ॥ ३.३०९.२४ ॥
大王,普利塔(贡蒂)被失去儿子的悲痛所折磨,哭泣着,眼如莲花,在午夜与乳母同行,渴望再见到自己的儿子。
3.309.25
विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः ।
विवेश राजभवनं पुनः शोकातुरा ततः ॥ ३.३०९.२५ ॥
她因害怕父亲的责备而送走了那个木匣,满怀悲痛地再次走进了王宫。
3.309.26
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मयण्वतीं नदीम् ।
चर्मण्वत्याश्चयमुनां ततो गङ्गां जगाम ह ॥ ३.३०९.२६ ॥
木匣从阿湿婆河漂到赤马河,再从赤马河到阎牟那河,然后到达恒河。
3.309.27
गङ्गायाः सूतविषयं चम्पामनुययौ पुरीम् ।
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ॥ ३.३०९.२७ ॥
木匣从恒河顺流漂至苏陀之地的占婆城;装在木匣中的胎儿被波浪推送着前行。
3.309.28
अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम् ।
धारयामास तं गर्भं दैवं च विधिनिर्मितम् ॥ ३.३०९.२८ ॥
她怀着那胎儿,他有从甘露中生出的神圣甲胄和耳环,是由命运与天意所造。
3.309.29
एतद्गुह्यं महाराज सूर्यस्यासीन्महात्मनः ।
स सूर्यसंभवो गर्भः कुन्त्या गर्भेण धारितः ॥ ३.३०९.२९ ॥
大王啊,这个秘密属于伟大的太阳神;那由太阳所生的胎儿,被昆蒂怀在腹中。