Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.312

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.312.1

एवं हृतायां भार्यायां प्राप्य क्लेशमनुत्तमम् ।
प्रतिपद्य ततः कृष्णां किमकुर्वत पाण्डवाः ॥ ३.३१२.१ ॥

妻子被掳走、遭受极大苦难之后,般度五子在重获黑公主后做了什么?

3.312.2

एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥ ३.३१२.२ ॥

黑公主被掳走、遭受极大苦难之后,这位国王、不退者与兄弟们一同离开了迦mya迦林。

3.312.3

पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः ।
स्वादुमूलफलं रम्यं विचित्रबहुपादपम् ॥ ३.३१२.३ ॥

坚战再次来到宜人的二时林,那里有甘甜的根茎果实和众多奇异的树木。

3.312.4

अनुभुक्तफलाहाराः सर्व एव मिताशनाः ।
न्यवसन्पाण्डवास्तत्रकृष्णया सह भार्यया ॥ ३.३१२.४ ॥

般度五子都只吃已尝过的果实,饮食节制,与妻子黑公主一同住在那里。

3.312.5

वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ३.३१२.५ ॥

居住在二时林的有:贡蒂之子国王坚战、大力怖(Bhīmasena)、阿周那,以及摩德利之子的两位般度王子。

3.312.6

ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः ।
क्लेशमार्च्छन्त विपुलं सुखोदर्कं परंतपाः ॥ ३.३१२.६ ॥

为了婆罗门,般度五子品德正直、坚守誓愿、能令敌人受煎熬,他们奋力而为,承受了巨大的苦难,其果报将是安乐。

3.312.7

तस्मिन्प्रतिवसन्तस्ते यत्प्रापुः कुरुसत्तमाः ।
वने क्लेशं सुखोदर्कं तत्प्रवक्ष्यामि ते शृणु ॥ ३.३१२.७ ॥

居住在那里的库鲁最优者,在森林中所遭受的苦难,终以安乐告终——我将讲给你听,你且听着。

3.312.8

अरणीसहितं भाण्डं ब्राह्मणस्य तपस्विनः ।
मृगस् घर्षणस्य विपाणे समसज्जत ॥ ३.३१२.८ ॥

苦行婆罗门的器皿连同钻木取火的木棍,挂在了一只正在摩擦的鹿角上。

3.312.9

तदादाय गतो राजंस्त्वरमाणो महामृगः ।
आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः ॥ ३.३१२.९ ॥

大王啊,那大鹿带着它急急离去——隐没在净修林之外,跳跃着,极其迅捷。

3.312.10

ह्रियमाणं तु तं दृष्ट्वा स विप्रः कुरुसत्तम ।
त्वरितोऽभ्यागमत्तत्रअग्निहोत्रपरीप्सया।
तेषां तु वसतां तत्र पाण्डवानां महारथम् ॥ ३.३१२.१० ॥

库鲁最优者啊!那婆罗门看见它被夺走,想要夺回祭火的器具,急忙来到那里居住的般度族大车战士们面前。

3.312.11

अजातशत्रुमासीनं भ्रातृभिः सहितं वने ।
आगम्य ब्राह्मणस्तूर्णं संतप्तश्चेदमब्रवीत् ॥ ३.३१२.११ ॥

在森林里,婆罗门急忙来到与兄弟们一同坐着的阿阇多舍睦(坚战)面前,悲伤地说了这些话。

3.312.12

अरणीसहितं भाण्डं समासक्तं वनस्पतौ ।
मृगस्य घऱ्षमाणस्य विषाणे समसज्जत ॥ ३.३१२.१२ ॥

连同钻木棍的器皿,挂在一棵树上,缠在一只正在摩擦的鹿角上。

3.312.13

तमादाय गतो राजंस्त्वरमाणो महामृगः ।
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥ ३.३१२.१३ ॥

大王啊,它叼着那物,大鹿急速地从修行处离去,跳跃着,速度极快。

3.312.14

तस्य गत्वा पदं राजन्नासाद्य च महामृगम् ।
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥ ३.३१२.१४ ॥

大王啊,循着它的足迹追上那大鹿,把它带回来吧,般度之子们,免得火祭被中断。

3.312.15

ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः ।
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥ ३.३१२.१५ ॥

听了婆罗门的话,俱卢之子坚战心中烦恼,拿起弓,与兄弟们一同奔去。

3.312.16

सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः ।
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥ ३.३१२.१६ ॥

所有披甲持弓的人中雄牛们奔驰而去;为了婆罗门而努力,他们迅速追赶那头鹿。

3.312.17

कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥ ३.३१२.१७ ॥

大战车武士们射出有倒刺、箭镞与铁箭之箭,般度之子们虽见鹿近在眼前,却未能射中它。

3.312.18

तेषां प्रयतमानानां नादृश्यत महामृगः ।
अपश्यन्तोमृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥ ३.३१२.१८ ॥

他们奋力追寻,那大鹿却不见踪影;未见鹿的踪迹,疲惫的贤者们陷入了忧愁。

3.312.19

शीतलच्छायमागमय् न्यग्रोधं गहने वने ।
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥ ३.३१२.१९ ॥

众般度子来到幽深林中一棵树荫清凉的榕树下,饥渴交加,四肢疲惫,便坐了下来。

3.312.20

तेषां समुपविष्टानां नकुलो दुःखितस्तदा ।
अब्रवीद्भ्रातरं श्रेष्ठममर्षात्कुरुनन्दनम् ॥ ३.३१२.२० ॥

众人坐定之时,忧愁的那库拉愤然对其兄长——俱卢族的欢喜——说道。

3.312.21

नास्मिन्कुले जातु ममज्ज धर्मो ।
न चालस्यादर्थलोपो बभूव।
अनुत्तराः सर्वभूतेषु भूप ।
संप्राप्ताः स्मः संशयं किंनु राजन् ॥ ३.३१२.२१ ॥

在此家族中,法从未衰败,也未因懒惰而失去财富。我们在众生之中无与伦比,国王啊,为何如今陷入了疑惑?