Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.313

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.313.1

नापदामस्ति मर्यादा न निमित्तं न कारणम् ।
धर्मस्तु विभजत्यर्थमुभयोः पुण्यपापयोः ॥ ३.३१३.१ ॥

灾难没有界限,没有缘由,也没有原因。是法(dharma)分配功德与罪过的果报。

3.313.2

प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा ।
न मया निहतस्तत्रतेन प्राप्ताः स्म संशयम् ॥ ३.३१३.२ ॥

当时,Prātikāmya 像对待仆人一样把 Kṛṣṇā 拖入会堂。我没有在那里杀他,因此我们陷入了危难。

3.313.3

वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः ।
अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयं ॥ ३.३१३.३ ॥

御者之子说出的尖锐言辞,刺入骨髓,极其猛烈,我忍受了下来;因此我们陷入了危难。

3.313.4

शकुनिस्त्वां यदाऽजैषीदक्षद्यूतेन भारत ।
स मया न हतस्तत्रतेन प्राप्ताः स्म संशयम् ॥ ३.३१३.४ ॥

婆罗多的后裔啊,当沙恭尼在骰子赌局中击败你时,我没有在那里杀他;因此我们陷入了危难。

3.313.5

ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥ ३.३१३.५ ॥

于是国王坚战对无种说了这些话:摩德利之子啊,爬上树去,眺望十方。

3.313.6

पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् ।
एते हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥ ३.३१३.६ ॥

看看附近有没有水,或者靠水而生的树木。亲爱的孩子,你的这些兄弟已经疲惫又口渴了。

3.313.7

नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येऽष्ठस्य शासनात् ।
तत उत्थाय मतिमाञ्शीघ्रमारुह्य पादपम्।
अब्रवीद्धांतरं ज्येष्मभिवीक्ष्य समन्ततः ॥ ३.३१३.७ ॥

无种说道:“就这样吧。”遵照长兄的命令,这位智者站起身,迅速爬上一棵树,四面环顾,然后对长兄说道。

3.313.8

पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् ।
सारसानां च निर्ह्रादस्तत्रोदकमसंशयम् ॥ ३.३१३.८ ॥

大王,我看见许多依水而生的树木,还听到了鹤的鸣叫;那里无疑有水。

3.313.9

ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
गच्छ सौम्य ततः शीघ्रं तूणैः रपानीयमानय ॥ ३.३१३.९ ॥

于是,忠于真实的昆蒂之子坚战说道:“去吧,贤弟,快用箭袋取些水来。”

3.313.10

नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् ।
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥ ३.३१३.१० ॥

无种说道:“就这样吧。”遵照长兄的命令,他飞奔到有水的地方,很快便到达了。

3.313.11

स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् ।
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥ ३.३१३.११ ॥

他看见被鹤群环绕的清澈之水,想要饮水时,却从空中听到一个声音。

3.313.12

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥ ३.३१३.१२ ॥

“孩子,不要做这样鲁莽的事;此水在我的先取之权之下。玛德丽之子,先回答我的问题,然后再饮水带走。”

3.313.13

अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ ३.३१३.१३ ॥

然而,那人不顾其言,极度口渴的那库拉饮了冷水;饮后便倒下了。

3.313.14

चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीद्ध्रातरं वीरं सहदेवमरिंदमम् ॥ ३.३१३.१४ ॥

那库拉迟迟未归,贡蒂之子坚战对他的勇敢兄弟、敌人的降伏者萨哈德瓦说道。

3.313.15

भ्राता चिरायते तात सहदेव तवाग्रजः ।
तं चैवानय सोदर्यं पानीयं च त्वमानय ॥ ३.३१३.१५ ॥

亲爱的萨哈德瓦,你的哥哥迟迟未归。去把那位同胞兄弟也带回来,你也去取些水来。

3.313.16

सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥ ३.३१३.१६ ॥

萨哈德瓦说“好”,便朝那个方向走去;这时他看见兄弟那库拉倒卧在地上。

3.313.17

भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः ।
अभिदुद्राव रपानीयं ततो वागभ्यभाषत ॥ ३.३१३.१७ ॥

他因兄弟的悲伤而痛苦,又为口渴所困,便向水边奔去;这时有一个声音对他说话。

3.313.18

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा यथाकामं पिबस्व च हरस्व च ॥ ३.३१३.१८ ॥

亲爱的,不要鲁莽行事;此水早已归我所有。回答我的问题之后,你想喝多少就喝多少,也可以带走。

3.313.19

अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः ।
अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ ३.३१३.१९ ॥

然而,萨诃提婆不顾那番话,口渴难耐,饮下了冷水,饮后便倒下了。

3.313.20

अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ॥ ३.३१३.२० ॥

于是贡蒂之子坚战对胜利者(阿周那)说:“啊,摧敌者毗跋蹉,你的两位兄弟离去已久了。”

3.313.21

तौ चैवानय भद्रं ते पानीयं च त्वमानय ।
त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः ॥ ३.३१३.२१ ॥

“把那两人带回来吧,愿你平安;也把水取来。孩子,你是我们这些受苦之人的依靠。”

3.313.22

एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः ।
आमुक्तखङ्गो मेधावी तत्सरः प्रत्यपद्यत ॥ ३.३१३.२२ ॥

被如此吩咐之后,古达克沙(阿周那)持起带箭的弓,佩上剑,这位智者便走向那湖泊。

3.313.23

यतः पुरुषशार्दूलौ पानीयहरणे गतौ ।
तौ ददर्श हतौ तत्रभ्रातरौ श्वेतवाहनः ॥ ३.३१३.२३ ॥

那两位人中虎豹的兄弟前去取水之处,白马者(阿周那)看见他们二人已被杀死。

3.313.24

विगतासू नरव्याघ्रौ शयानौ वसुधातले ।
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः।
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥ ३.३१३.२४ ॥

看见那两位人中虎豹失去生命、躺在地上仿佛睡着一般,人中狮子、贡蒂之子(阿周那)万分悲痛;他举起弓,环顾那片森林。

3.313.25

नापश्यत्तत्रकिंचित्स भूतमस्मिन्महावने ।
सव्यसाची पिपासार्तः पानीयं सोभ्यधावत ॥ ३.३१३.२५ ॥

在这片大森林里,他没有看见任何生物。被渴所苦的萨维亚萨钦奔向水边。

3.313.26

अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे ।
यत्त्वमिच्छसि पानीयं नैतच्छक्यं बलात्त्वया ॥ ३.३१३.२६ ॥

他奔跑时,从天空中听到一个声音:「你所渴望的水,不能靠你的力量取得。」

3.313.27

कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिवक्ष्यसि ।
ततः पास्यसि पानीयं हरिष्यसि च भारत ॥ ३.३१३.२७ ॥

贡蒂之子啊,如果你能回答我所提出的问题,你便可以饮水;婆罗多的后裔啊,你还可以把水带走。

3.313.28

वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय ।
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥ ३.३१३.२८ ॥

虽被阻止,帕尔塔说:「你这显形者,阻拦我吧。在你被箭射穿之前,你不会再这样说了。」

3.313.29

एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः ।
प्रववर्ष रदिशः कृत्स्नाः शब्दवेधं च दर्शयन्।
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभः। ॥ ३.३१३.२९ ॥

说罢,帕尔塔以经武器咒语加持的箭矢向四方倾泻如雨,并展示闻声射击的技艺。婆罗多的雄牛啊,他放出了带倒钩的箭、铁箭和那罗长箭。

3.313.30

स त्वमोघानिषून्मुक्त्वा तृष्णयाऽभिप्रपीडितः ।
अनेकैरिषुसंघातैरन्तरिक्षे ववर्ष ह ॥ ३.३१३.३० ॥

然而他被渴所深深折磨,放出了百发百中的箭,并在天空中射下无数箭矢如雨。

3.313.31

किं विधानेन ते पार्थ प्रश्नानुक्त्वा पयः पिब ।
अनुक्त्वा च पिबन्प्रश्नान्पीत्वैव नभविष्यसि ॥ ३.३१३.३१ ॥

帕尔特,你这样做能得到什么?喝水吧。若不回答问题便饮水,你将无法存活。

3.313.32

स च मोघानिषून्दृष्ट्वातृष्णया च प्रपीडितः ।
अवज्ञायैव तां वाचं पीत्वैव निपपात् ह ॥ ३.३१३.३२ ॥

他见箭矢徒劳无功,又被渴意折磨,便无视那番话,饮水之后倒了下去。

3.313.33

अथाब्रवीद्भीमसेनं कुनतीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च बीभत्सुश्च परंतप ॥ ३.३१३.३३ ॥

于是贡蒂之子坚战对怖军说道,又对无尽、偕天及持弓的阿周那说道:哦,征服敌人者!

3.313.34

चिरंगतास्तोयहेतोर्न चागच्छन्ति भारत ।
तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥ ३.३१३.३४ ॥

婆罗多之子啊,去取水的那些人已经很久未归。愿你吉祥:把他们带回来,你自己也去取水。

3.313.35

भीमसेनस्तथेत्युक्त्वा तं देशं प्रत्यपद्यत ।
रयत्रते पुरुषव्याघ्रा भ्रातरोस्य निपातिताः ॥ ३.३१३.३५ ॥

怖军说道:“就这样吧。”便快速奔向那个地方,他的兄弟——人中之虎们,已被击倒在那里。

3.313.36

तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः ।
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ॥ ३.३१३.३६ ॥

怖军见此情景,悲痛且被渴意折磨,这位大臂者心想:这是夜叉与罗刹所为。

3.313.37

सचिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ।
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ॥ ३.३१३.३७ ॥

于是他思忖道:“今日我必定要战斗。我先喝这水。”——普利塔之子狼腹(婆罗多,即怖军)如此想。

3.313.38

ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥ ३.३१३.३८ ॥

于是口渴的人中雄牛奔向了水边。

3.313.39

मा तात साहसंकार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ३.३१३.३९ ॥

“孩子,不要对我的先在权利鲁莽行事。昆蒂之子,先回答我的问题,然后再饮水取用。”

3.313.40

एवमुक्तस्तदा भीमो यक्षेणामिततेजसा ।
अनुक्त्वैव तु तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३.३१३.४० ॥

无量光明的夜叉这样说了,怖军却不回答那些问题便饮了水,随即倒下。

3.313.41

ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः ।
आत्मनाऽऽत्मानमन्विष्य विचारमकरोत्प्रभुः ॥ ३.३१३.४१ ॥

于是昆蒂之子国王坚战,这位人中雄牛、强大的主人,深思熟虑,反观自身,并进行思量。

3.313.42

ततश्चिरगतान्भ्रातृनथाऽऽज्ञाय युधिष्ठिरः ।
चिरायमाणान्बहुशः पुनः पुनरुवाचह ॥ ३.३१३.४२ ॥

于是坚战得知兄弟们去了很久,且迟迟不归,便屡次对他们说话。

3.313.43

किंस्विद्वनमिदं दग्धं किंखिद्दृष्टो मृतो भवेत् ।
प्रहरन्तो महाभूतं शप्तास्तेनाथ तेऽपतन् ॥ ३.३१३.४३ ॥

这片森林为何被焚烧?是否有人被发现而死去?他们攻击大存在,被其诅咒而倒下了吗?

3.313.44

न पश्यन्त्यथवा वीराः पानीयं यत्रते गताः ।
अन्विच्छद्भिर्वने तोयं कालोऽयमतिपातितः ॥ ३.३१३.४४ ॥

英雄们不看吗,或者他们为水去了何处?在林中寻水的人,这段时间已经过去了。

3.313.45

किंनु तत्कारणं येन नायान्ति पुरुषर्षभाः ।
गच्छाम्येषां पदं द्रष्टुमिति कृत्वा युधिष्ठिरः ॥ ३.३१३.४५ ॥

究竟是什么原因,使人中的雄牛们没有回来?尤incl迪希特拉决定:“我要去看看他们的足迹。”

3.313.46

समुत्थाय महाबुद्धिर्दह्यमानेन चेतसा ।
व्यपेतजननिर्घोषं प्रविवेश महावनम् ॥ ३.३१३.४६ ॥

大智的尤迪希特拉站起身,心如火焚,走入了那无人声的大森林。

3.313.47

रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ।
नीलभास्वरवर्णैश्च पादपैरुशोभितम् ॥ ३.३१३.४७ ॥

为鲁鲁鹿、野猪和鸟类所栖息,以深蓝与闪亮色泽的树木点缀。

3.313.48

भ्रमरैरुपगीतं च पक्षिभिश् समन्ततः ।
मृदुशाड्वलसंकीर्णभूमिभागं मनोहरम् ॥ ३.३१३.४८ ॥

四周蜂群与鸟儿歌唱,地面覆盖柔软的绿草,令人心醉。

3.313.49

स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् ।
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ॥ ३.३१३.४९ ॥

他走在那片森林中,看见那座以金网装饰的湖,仿佛是毗首羯摩所造。

3.313.50

उपेतं नलिनीजालैः सिन्धुवारैः सचेतसैः ।
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ॥ ३.३१३.५० ॥

那湖中满是莲花丛,周围环绕着信度婆罗、刻塔卡花、夹竹桃和毕波罗树。

3.313.51

ततो धर्मसुतः श्रीमान्भ्रातृदर्शनलालसः ।
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाऽथ विस्मितः ॥ ३.३१३.५१ ॥

那时,法之子这位光辉者,渴望见到兄弟,又因疲惫而痛苦,来到湖边,看见后感到惊奇。