Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.33.1

याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः ।
निश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ॥ ३.३३.१ ॥

毗摩先那听了耶compare娜之言,怒火中烧,叹息着走近国王,说道:

3.33.2

राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् ।
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥ ३.३३.२ ॥

大王啊,请走善人所应行的正法之路。我们失去了法、欲与财利,住在这苦行林中又有何益?

3.33.3

नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा ।
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै ॥ ३.३३.३ ॥

那王国不是以法、不是以正直、也不是以武力夺去的,而是凭借作弊的骰子被难敌夺走的。

3.33.4

गोमायुनेव सिंहानां दिर्बलेन बलीयसाम् ।
आमिपं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥ ३.३३.४ ॥

就像弱小的豺狼希望捡拾残余,从强大的狮子口中夺取猎物一样,我们的王国被夺走了。

3.33.5

धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः ।
अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे ॥ ३.३३.५ ॥

大王啊,你只是披着一点法的外衣,却抛弃了法与欲之源的财利,为何还要为痛苦而煎熬?

3.33.6

भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् ।
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥ ३.३३.६ ॥

因为你的顺从,我们眼睁睁地看着王国被夺走;它本由持甘提婆弓者守护,即使因陀罗也无法夺去。

3.33.7

कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः ।
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥ ३.३३.७ ॥

如同独臂者的木橘果、跛子的牛被夺走一般,我们在世之时,因你之故,我们的权势被夺走了。

3.33.8

भवतः प्रियमित्येवं महद्व्यसनमीदृशम् ।
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥ ३.३३.८ ॥

为了使你欢喜,我们陷入了如此大的灾难;信任那位渴求法的你,哦,婆罗多之后,我们因此落入其中。

3.33.9

कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् ।
आत्मानं भवतः शास्त्रैर्नियम्य भरतर्षभ ॥ ३.३३.९ ॥

我们削弱了自己的朋友,使敌人欢喜,以你的律法约束自己,哦,婆罗多中的雄牛。

3.33.10

यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्म हि ।
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥ ३.३३.१० ॥

我们当时没有杀死这些持国之子,因为采纳了你的教诫,那恶行now灼烧着我们。

3.33.11

अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः ।
अवीराचरितां राजन्नबलस्थैर्निषेविताम् ॥ ३.३३.११ ॥

现在请看这种生活,如同你自己像鹿一样流浪,哦,国王——这是无英雄气概者的行为,是软弱者以忍耐所遵循的生活。

3.33.12

यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः ।
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥ ३.३३.१२ ॥

克里希纳、比毗乎(阿周那)、阿毗曼纽、流珠族人,我自己,以及摩德利的两个儿子,都不赞许这样的生活。

3.33.13

भवान्धर्मो धर्म इति सततं व्रतकर्शितः ।
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥ ३.३३.१३ ॥

你总是说“法,法”,因誓愿而消瘦。大王啊,你是否因绝望而陷入了阉人的生计?

3.33.14

दुर्मनुष्या हि निर्वेदमफलं सर्वघातकम् ।
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥ ३.३३.१४ ॥

卑劣之人陷于绝望,绝望无果且毁灭一切。无力夺取财富者,只做自己喜欢的事。

3.33.15

स भवान्दृष्टिमाञ्शक्तः पश्यन्नस्मासु पौरुषम् ।
आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे ॥ ३.३३.१५ ॥

你目光远大且有能力,看到我们身上的男子气概。大王啊,你一味仁慈,只明白自己的利益。

3.33.16

अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः ।
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥ ३.३३.१६ ॥

这些持国之子见我们忍让、不伤害,便以为我们无力。这才是痛苦,而不是战斗中的死亡。

3.33.17

तत्रचेद्युध्यमानानामजिह्ममनिवर्तिनाम् ।
सर्वशो हि वधः श्रेयान्प्रेत्य लोकांल्लभेमहि ॥ ३.३३.१७ ॥

若在那里,正直作战、不退缩的人全部战死,那更好,因为死后我们可以获得诸天界。

3.33.18

अधवा वयमेवैतान्निहत्य भरतर्षभ ।
आददीमहि गां सर्वां तथापि श्रेय एव नः ॥ ३.३३.१८ ॥

或者,婆罗多中的雄牛啊,我们杀死他们后夺取整个大地,这对我们也是好的。

3.33.19

सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् ।
काङ्खतां विषुलां कीर्ति वैरं प्रतिचिकीर्षताम् ॥ ३.३३.१९ ॥

对于我们这些履行自身本分、渴望广大声名并欲报仇雪恨的人而言,此事无论如何都必须去做。

3.33.20

आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे ।
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा ॥ ३.३३.२० ॥

对于在人生中为自己而战的人,即使王国已被他人夺去,这也是赞誉而非指责。

3.33.21

कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा ।
व्यसनं नाम तद्राजन्न धर्मः स कुवर्त्मतत् ॥ ३.३३.२१ ॥

国王啊,那以折磨婆罗门和自身为目的的所谓法,实为灾祸而非法;那是邪道。

3.33.22

सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् ।
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥ ३.३३.२२ ॥

但是,亲爱的,法与利会舍弃那虽常恪守法、却在法中软弱的人,犹如苦乐舍弃死者一般。

3.33.23

यस्य धर्मो हि धर्मार्थँ क्लेशभाङ्ग स पण्डितः ।
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥ ३.३३.२३ ॥

那把受苦当作法之实践的人,并非智者;他不懂法的真义,正如盲人不知日光。

3.33.24

यस्य चार्थार्थ एवार्थः स च नार्थस्य कोविदः ।
रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः ॥ ३.३३.२४ ॥

若财富只为财富本身而存在,此人并非善用财富之人;他就像受雇守护功德的仆役,其为人正是如此。

3.33.25

अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति ।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥ ३.३३.२५ ॥

若有人过度追求财富而不顾其余二事,他便如杀害婆罗门者一般,为一切众生所当诛、所厌恶。

3.33.26

सततं यश्च कामार्थी नेतरावनुतिष्ठति ।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥ ३.३३.२६ ॥

若有人constantly追求欲乐与财富而不顾其余二事,他的朋友便会离散,他也失去法与财富。

3.33.27

तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् ।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥ ३.३३.२७ ॥

对于失去法与财富的人,欲望终结之时必定毁灭,如同鱼在水中嬉戏,水干涸时便死去。

3.33.28

तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः ।
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥ ३.३३.२८ ॥

因此智者从不懈怠于法与财富,因为它们正是欲望的根源,犹如钻木之杵是火的根源。

3.33.29

सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः ।
इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा ॥ ३.३३.२९ ॥

财富在各方面以法为根本,法则依赖于财富的积聚;须知二者相互引导,如同云与海洋。

3.33.30

द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते ।
स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते ॥ ३.३३.३० ॥

由于物、财富与触觉相接而生起的喜悦,便是欲望,是心的决意;它并无可见之身。

3.33.31

अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति ।
अर्थमिच्छति कामार्थीन कामादन्यमिच्छति ॥ ३.३३.३१ ॥

大王啊,追求财富的人渴望伟大的法。他渴望财富;追求欲乐的人渴望的是欲乐之外的东西。

3.33.32

न हि कामेन कामोऽन्यः सिध्यते फलमेव तत् ।
उषयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः ॥ ३.३३.३२ ॥

欲望不能靠另一欲望成就;它只是果实。唯有享用果实,如同从木柴得灰烬,智者才明白这一点。

3.33.33

इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा ।
एतद्रूपमधर्मस्य भूतेषु च विहिंसनम् ॥ ३.३३.३३ ॥

大王啊,如同捕鸟人杀害这些鸟,这就是非法的形态,也是对众生的伤害。

3.33.34

कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्ति ।
स वध्यः सर्वभूतानां प्रेत्य चेहैच दुर्मतिः ॥ ३.३३.३४ ॥

若因欲望与贪婪而不见法的正道,这恶意之人应被一切众生所杀,无论死后还是在此世。

3.33.35

व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः ।
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥ ३.३३.३५ ॥

大王啊,财富与积聚财物的道理,你已清楚明了。它的本性,以及它的诸多变化,你也都知道。

3.33.36

तस्य नाशं विनाशं वा जरया मरणेन वा ।
अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते ॥ ३.३३.३६ ॥

它的丧失或毁灭,因衰老或死亡而起,人们视之为灾祸。这正是存在于我们之中的东西。

3.33.37

इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च ।
विपये वर्तमानानां या प्रीतिरुपजायते ॥ ३.३३.३७ ॥

当五根、意与心沉溺于外境之时所生起的喜悦。

3.33.38

स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ।
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ॥ ३.३३.३८ ॥

我的看法是,那就是欲,是诸业的最高果报。如此分别看待法、利与欲,

3.33.39

न धर्मपर एव स्यान्न चार्थपरमो नरः ।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥ ३.३३.३९ ॥

人不应只专注于法,也不应只专注于利,更不应只专注于欲;应当时时兼顾三者。

3.33.40

धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत् ।
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ ३.३३.४० ॥

早年当修行法,中年当营求利,晚年当追求欲;如此日日随行。这是经典所定的规矩。

3.33.41

कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत् ।
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ ३.३३.४१ ॥

早年当修习欲,中年当营求利,晚年当行法;随年岁如此遵行。这是经典所定的规矩。

3.33.42

धर्मं चार्थं च कामं च यथावद्वदतांवर ।
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥ ३.३३.४२ ॥

言者中最善者啊!智者知时,应将法、利、欲分别清楚,并各依其时而奉行之。

3.33.43

मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् ।
प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन ॥ ३.३३.४३ ॥

君王啊,对于追求幸福的人而言,解脱乃是至高的善;或者依靠智慧,连同其方法而获得它,库鲁之喜啊。

3.33.44

तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् ।
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥ ३.३३.४४ ॥

因此,君王啊,应迅速去做,或者去达成它;因为生命如同病人一般,处于苦难之中。

3.33.45

विदितश्चैव मे धर्मः सततं चरितश्च ते ।
जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥ ३.३३.४५ ॥

法于我是明了的,而你也一直在践行它;了解你的朋友们向你进言,劝你行动。

3.33.46

दानं यज्ञाः सतां पूजा वेदधारणमार्जवम् ।
एष धर्मः परो राजन्फलवान्प्रेत्य चेंह च ॥ ३.३३.४६ ॥

布施、祭祀、尊敬善人、护持吠陀、正直——这便是至高的法,君王啊,它在死后与今生都结出果实。

3.33.47

एष नार्थविहीनेन शक्यो राजन्निपेवितुम् ।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीनरे ॥ ३.३३.४७ ॥

没有财富之人无法践行此法,君王啊,人中之虎啊,即便一个人身上具备一切德行。

3.33.48

धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते ।
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥ ३.३३.४८ ॥

世界以法为根基,君王啊;没有什么比法更为殊胜。而法本身也只有凭借巨大的财富才能践行,君王啊。

3.33.49

न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित् ।
वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना ॥ ३.३३.४९ ॥

不以乞食为生,也从不以怯懦,国王啊,财富是可以获得的;国王啊,唯有以法为念的心智方能获得。

3.33.50

प्रतिष्द्धा हि ते याच्ञा यया सिध्यति वै द्विजः ।
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥ ३.३३.५० ॥

因为乞求对你是被禁止的,尽管两生者借之可以成事;人中之雄啊,在追求财富时,只应以你的威势去努力。

3.33.51

भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका ।
क्षत्रियस् विशेषेण धर्मस्तु बलमौरसम् ॥ ३.३३.५१ ॥

乞食之生活并非所定,吠舍与首陀罗的生计也非所定;对刹帝利而言,尤其是法,乃其本有之力。

3.33.52

स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान् ।
धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय ॥ ३.३३.५२ ॥

践行你自己的法,击杀聚集而来的敌人;啊,普利塔之子,我与你一同,摧毁那位持国之子的林莽吧。

3.33.53

उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः ।
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥ ३.३३.५३ ॥

博学的智者称法为宏大;你应当接受宏大,不应停留在低下的境地。

3.33.54

अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् ।
क्रूरकर्माऽभिजातोसि यस्मादुद्विजते जनः ॥ ३.३३.५४ ॥

国王之主啊,请领悟并知晓永恒的法;你生于行残酷之事的家族,因此民众对你感到恐惧。

3.33.55

प्रजापालनसंभूतं फलं तव न गर्हितम् ।
एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥ ३.३३.५५ ॥

你因保护臣民而得的果报并无可责。大王,这永恒的法是造物主为你所定。

3.33.56

तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि ।
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥ ३.३३.५६ ॥

因此,普利塔之子啊,若你偏离了你的法,你将在世间成为笑柄。人若偏离自己的本分,是不值得称赞的。

3.33.57

स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः ।
वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत् ॥ ३.३३.५७ ॥

库鲁之裔啊,持守刹帝利之心,舍弃这颓丧的意念,依靠你的勇力,像拉车的牛一样承担轭。

3.33.58

न हि केवलधर्मात्मा पृथिवीं जातु कश्चन ।
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥ ३.३३.५८ ॥

无一位仅以法为本性的君王曾征服大地。大王,他既未得富贵,也未再得荣光。

3.33.59

जिह्वां दत्ता बहूनां हि क्षुद्राणां लुब्धचेतसाम् ।
निकृत्या लभते राज्यमाहारमिव शल्यकः ॥ ३.३३.५९ ॥

他将舌头(阿谀)施与众多心怀贪欲的卑微之人,以诡计得到王国,如豪猪得到食物一般。

3.33.60

भ्रातर पूर्वजाताश्च सुसमृद्धाश्च सर्वशः ।
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥ ३.३३.६० ॥

般度族中的雄牛啊,阿修罗,作为长兄且各方面都极为富足,却被诸神以诡计击败。

3.33.61

एवं बलवतः सर्वमिति बुद्ध्वा महीपते ।
जहि शत्रून्महाबाहो परां निकृतिमास्थितान् ॥ ३.३३.६१ ॥

知道对强者而言一切皆如此,地上之主啊,大臂者,请击杀那些已采取极大诡计的敌人。

3.33.62

न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः ।
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥ ३.३३.६२ ॥

实则,战场上没有能与阿周那相比的持弓战士,也不会有能与我这持杖者相比的人。

3.33.63

सत्वेन कुरुते युद्धं राजन्सुबलवानपि ।
न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव ॥ ३.३३.६३ ॥

君王啊,即便极其强大的人也以内在的坚定作战,而非仅凭尺度或热情。般度之子啊,安住于你内在的坚定吧。

3.33.64

सत्वं हि मूलमर्थस् यवितथं यदतोऽन्यथा ।
न तु प्रसक्तं भवति वृक्षच्छायेन हैमनी ॥ ३.३३.६४ ॥

内在的坚定确实是成功不可动摇的根基,并非另有他途。然而它并不像冬日树荫那样黏着不去。

3.33.65

अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता ।
बीजौपम्यन कौन्तेय मा ते भूदत्र संशयः ॥ ३.३३.६५ ॥

欲求善果者,甚至应当舍弃财富;以种子为喻来理解此理。贡蒂之子啊,对此你不应有任何疑惑。

3.33.66

अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः ।
न तत्र विपणः कार्यः खरकण्डूयनं हि तत् ॥ ३.३३.६६ ॥

若所遭受的损失与财富相当,即便获得了巨大的收益,也不应在那里经商;那就如同驴子搔痒一般。

3.33.67

एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः ।
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम् ॥ ३.३३.६७ ॥

人主啊,同样,人舍弃小法便得大法;此人确实是智者。

3.33.68

अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डितः ।
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥ ३.३३.६८ ॥

智者以其友人离间那拥有友人的敌人;友人既已离散而弃之,便能将孱弱者收归掌握。

3.33.69

सत्वेन कुरुते युद्धं राजन्सुबलवानपि ।
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥ ३.३३.६९ ॥

王啊,即便极其强大之人,也以内在之力作战,而非凭努力或祭祀;以此他收服所有臣民。

3.33.70

सर्वथा संहतैरेव दुर्बलैर्बलवानपि ।
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥ ३.३३.७० ॥

唯有在各方面都团结一致,弱者也能杀死强大的敌人,正如蜜蜂杀死偷蜜的人。

3.33.71

यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः ।
हन्ति चैव तथैव त्वं सदृशः सवितुर्भव ॥ ३.३३.७१ ॥

王啊,正如太阳以其光芒守护一切臣民,也打击他们,你也应当成为如同太阳(萨维特里)那样的人。

3.33.72

एतच्चापि तपो पाजन्पुराणमिति नः श्रुतम् ।
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥ ३.३३.७२ ॥

护持者啊,我们在古老传说中听说,这也是一种苦行;我们的祖先依照规则守护大地,正是如此。

3.33.73

न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः ।
यथा सृष्टेन युद्धेन विजयेनेतरेण वा ॥ ३.३३.७३ ॥

国王啊,刹帝利不会因苦行而获得那些世界,正如他因投入战斗、因胜利或因其他方式而获得一样。

3.33.74

अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा ।
इतिलोको व्यवसितो दृष्ट्वेमां भवतोव्यथाम् ॥ ३.३३.७४ ॥

众人看到你们二人的这种痛苦,便断定太阳的光和月亮的光辉仿佛已被饮尽。

3.33.75

भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च ।
कथयन्त्यः परिषदः पृथग्राजन्समागताः ॥ ३.३३.७५ ॥

国王啊,各自的集会聚在一起,一边赞扬你,一边非议另一方。

3.33.76

इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते ।
समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ॥ ३.३३.७६ ॥

国王啊,这已经超过了一切:聚集于此的婆罗门和你的俱卢族人欣喜地谈论你对真实的坚守。

3.33.77

यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि ।
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ॥ ३.३३.७७ ॥

你从未说过任何谎话,不是出于迷惑,不是出于卑怯,不是出于贪婪,也不是出于恐惧;不是出于欲望,也不是为了财富。

3.33.78

यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन् ।
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥ ३.३३.७८ ॥

国王在获得大地之后,无论犯下何种罪过,之后都会借助重礼厚施的祭祀将其全部消除。

3.33.79

ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः ।
मुच्यते वीर पापेभ्यस्तमोभ्य इव चन्द्रमाः ॥ ३.३३.७९ ॥

国王啊,施予婆罗门成千上万的村庄与牛群的人,英雄啊,便从罪恶中解脱,如月亮脱离黑暗。

3.33.80

पौरजानपदाः सर्वे प्रायशः कुरुनन्दन ।
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥ ३.३३.८० ॥

俱卢之喜啊,城乡之民几乎全体,连同老人与孩童,一起赞颂你,般度之子坚战啊。

3.33.81

श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा ।
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥ ३.३३.८१ ॥

如狗皮囊中之乳,或首陀罗之中之吠陀,盗贼之中之真实,女子之中之力量,如是王权在难敌之中。

3.33.82

इतिलोके निर्वचनं पुरश्चरति भारत ।
अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते ॥ ३.३३.८२ ॥

婆罗多啊,世间此言先行,甚至这些妇女与孩童也从事吠陀的诵习。

3.33.83

इमामवस्थां च गते सहास्माभिररिंदम् ।
हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति ॥ ३.३३.८३ ॥

敌人的征服者啊,我们与你一同陷入此境,唉,我们在此灾难中全都毁灭了。

3.33.84

स भवान्रथमास्थाय सर्वोपकरणान्वितम् ।
त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः ॥ ३.३३.८४ ॥

愿你登上备齐一切器具的战车,急速出发,成为向婆罗门分发财富的人。

3.33.85

वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् ।
अस्त्रविद्भिः परिवृतोभ्रातृभिर्दृढधन्विभिः ॥ ३.३३.८५ ॥

今日便请最优秀的婆罗门诵念吉祥祝词,在精通武艺、善于持弓的兄弟们环绕下,前往象城(Hāstinapura)。

3.33.86

आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ।
अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा।
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥ ३.३३.८६ ॥

以如毒蛇般的勇士,与摩录多们一道,如杀死弗栗多的因陀罗,以威力碾碎敌人,犹如弗栗多的杀者碾碎阿修罗。贡提之子、大力者啊,从持国的儿子们手中夺取吉祥(王权)吧。

3.33.87

न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् ।
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥ ३.३३.८७ ॥

从甘提婆弓射出的、带有秃鹫羽毛、如毒蛇般的箭矢,即便只是触碰,凡人也无法承受。

3.33.88

न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत ।
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥ ३.३३.८८ ॥

婆罗多之子啊,没有哪位英雄、哪头象、哪匹马,能承受我在战斗中愤怒时的钵罗的冲击。

3.33.89

सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च ।
कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे ॥ ३.३३.८९ ॥

与斯里尼迦耶人、凯柯耶人,以及毗湿尼族之牛(黑天)联手,贡提之子啊,我们怎能在战斗中得不到王国呢?

3.33.90

शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम् ।
इह यत्नमुपाहृत्य बलेन महताऽन्वितः ॥ ३.३३.९० ॥

大王啊,落入敌手的大地,我们怎能不夺回?在此付出努力,并拥有强大的力量。