Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.34.1

स एवमुक्तस्तु महानुभावः ।
सत्यव्रतो भीमसेनेन राजा।
अजातशत्रुस्तदनन्तरं वै ।
धैर्यान्वितो वाक्यमिदं बभाषे ॥ ३.३४.१ ॥

婆罗多王阿闍多设咄卢(坚战)心地高尚、守誓言真实,听毗摩森那如此说后,便以坚定的心情说出了这些话。

3.34.2

असंशयं भारत सत्यमेत-
द्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि।
न त्वां विगर्हे प्रतिकूलमेत-
न्ममानयाद्धि व्यसनं व आगात् ॥ ३.३४.२ ॥

婆罗多啊,你用如箭般的言辞刺伤我、使我消瘦,这毫无疑问是真的。我并不责备你;这不愿有的灾祸,是因我自己的过失降临到你们身上的。

3.34.3

अहं ह्यक्षानन्वपद्यं जिहीर्षन् ।
राज्यंसराष्ट्रं धृतराष्ट्रस्य पुत्रात्।
तन्मां शठः कितव प्रत्यदेवी-
त्सुयोधनार्थं सुबलस्य पुत्रः ॥ ३.३४.३ ॥

我想从持国王的儿子们手中夺回王国和领土,于是开始掷骰子。那时,苏巴拉之子沙恭尼——那个狡诈的赌徒——为了难敌的缘故,赢了我。

3.34.4

महामायः शकुनिः पार्वतीयः ।
सभामध्ये प्रवपन्नक्षपूगान्।
अमायिनं मायया प्रत्यजैषी-
त्ततोऽपश्यं वृजिनं भीमसेन ॥ ३.३४.४ ॥

在会场之中,大幻术的山生者沙恭尼抛掷成堆的骰子,以诡计战胜了毫无机心的我。毗摩森那啊,那时我才看到了灾难。

3.34.5

अक्षांश्च दृष्ट्वा शकुनेर्यथावत् ।
कामानुकूलानयुजो युजश्च।
शक्यो नियन्तुमभविष्यदात्मा ।
मन्युस्तु हन्यात्पुरुषस्य धैर्यम् ॥ ३.३४.५ ॥

若我如实看清沙恭尼的骰子——有的顺应欲望,有的不均、有的均衡——我本可以克制自己。然而愤怒会摧毁人的坚忍。

3.34.6

यन्तुं नात्मा शक्यते पौरुषेण ।
मानेन वीर्येण च तात नद्धः।
न ते वाचो भीमसेनाभ्यसूये ।
मन्ये तथा तद्भवितव्यमासीत् ॥ ३.३४.६ ॥

自我为骄傲与勇力所缚,不能以人力制服,孩子。Bhīmasena,我不责备你的话;我想这事本该如此。

3.34.7

स नो राजा धृतराष्ट्रस्य पुत्रो ।
न्यपातयद्व्यसने राज्यमिच्छन्।
दास्यं च नोऽगमयद्भीमसेन ।
यत्राभवच्छरणं द्रौपदी नः ॥ ३.३४.७ ॥

那位持国之子,我们的国王,贪求王国,把我们推入灾难;Bhīmasena,他又使我们沦为奴仆,而德罗波蒂成了我们的庇护。

3.34.8

त्वं चापि तद्वेत्थ धनंजयश्च ।
पुनर्द्यूतायागतास्तां सभां नः।
यन्माऽब्हवीद्धृतराष्ट्रस्य पुत्र ।
एकग्लहार्थं भरतानां समक्षम् ॥ ३.३४.८ ॥

你也知道此事,Dhanaṃjaya也知道:我们为赌博再次来到那个会场,持国之子在婆罗多人面前,为了一次掷骰,对我说了那番话。

3.34.9

वने समा द्वादश राजपुत्र ।
यथाकामं विदितमजातशत्रो।
अथापरं चाविदितश्चरेथाः ।
सर्वैः सह भ्रातृभिश्छद्मरूपः ॥ ३.३४.९ ॥

王子,在森林中十二年,随你所愿,此事众所周知;然后,Ajātaśatru,再以无人识别的身份漂泊一年,与所有兄弟一同,以伪装之形。

3.34.10

त्वां चेच्छ्रुत्वा तात तथा चरन्त-
मवभोत्स्यन्ते भारतानां चराश्च।
अन्यांश्चरेथास्तावतोऽब्दांस्तथात्वं ।
निश्चित्य तत्प्रतिजानीहि पार्थ ॥ ३.३४.१० ॥

若婆罗多的密探听闻你如此漂泊并得知此事,孩子,那么同样的年数你应以另一种形态漂泊。既已决定,便发誓吧,普利塔之子。

3.34.11

चरैश्चेन्नो विदितः कालमेतं ।
युक्तो राजन्मोहयित्वा मदीयान्।
ब्रवीमि सत्यं कुरुसंसदीह ।
तवैव ता भारत पञ्च नद्यः ॥ ३.३४.११ ॥

若我们的探子得知此时,哦王,他们便会迷惑我的人民而从事其事。我在俱卢议会中说实话:那五条河流都是你的,哦婆罗多。

3.34.12

वयं चैतद्भारत सर्व एव ।
त्वया जिताः कालमपास्य भोगान्।
चरेम इत्याह पुरा स राजा ।
मध्ये कुरूणां स मयोक्तस्तथेति ॥ ३.३४.१२ ॥

我们众人,哦婆罗多,被你所败,将舍弃享乐而度过时日——从前那位国王在俱卢人中间如此说。我回答:“就这样吧。”

3.34.13

तत्र द्यूतमभवन्नो जघन्यं ।
यस्मिञ्जिताः प्रव्रजिताश् सर्वे।
इत्थं तु देशाननुसंचरामो ।
वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥ ३.३४.१३ ॥

那里我们的赌博是卑劣的,因此我们众人皆败而被流放。如此我们在各地漂泊,穿越艰难的森林,以困苦的形态。

3.34.14

सुयोधनश्चापि न शान्तिमिच्छत् ।
भूयः स मन्योर्वशमन्वगच्छत्।
उद्योजयामास कुरूंश्च सर्वान् ।
येचास्य केचिद्वशमन्वगच्छन् ॥ ३.३४.१४ ॥

苏尤达纳也不愿和平;他再次屈服于愤怒。他煽动了所有的俱卢人,他的一些人也听从了他的控制。

3.34.15

तां सिद्धिमास्थाय सतां सकाशे ।
को नाम जह्यादिह राज्यहेतोः।
आर्यस्य मन्ये मरणाद्गरीयो ।
यद्धर्ममुत्क्रम्य महीं प्रशासेत् ॥ ३.३४.१५ ॥

在善人面前依托那成就,谁会为了王国而在此舍弃它?我认为,对于高尚之人,违背法而统治大地比死亡更为沉重。

3.34.16

तदैव चेद्वीरकर्माकरिष्यो ।
यदा द्यूते परिघं पर्यमृक्षः।
बाहू दिधक्षन्वारितः फल्गुनेन ।
किं दुष्कृतंभीम तदाऽभविष्यत् ॥ ३.३४.१६ ॥

若你那时建立了英雄之功,在掷骰之戏中握住门闩,却被法尔古那阻止,而你想焚烧自己的双臂,那么,婆罗门啊,那时会发生什么恶事呢?

3.34.17

प्रागेव चैवं समयक्रियायाः ।
किं नाब्रवीः पौरुषमाविदानः।
प्राप्तं तु कालं त्वभिपद्यपश्चात् ।
किं मामिदानीमतिवेलमात्थ ॥ ३.३४.१७ ॥

在约定的此时之前,你为何不展现你的男子气概而说出?时机已到之后,为何如今错过时机才对我说话?

3.34.18

भूयोपि दुःखं मम भीमसेन ।
दूये विषस्येव रसं हि पीत्वा।
यद्याज्ञसेनीं परिक्लिश्यमानां ।
संदृश्य तत्क्षान्तमिति स्म भीम ॥ ३.३४.१८ ॥

啊,婆罗门之子,毗摩森那,我再次痛苦,仿佛饮了毒药的滋味;因为看见耶纳森尼受折磨,你竟然忍受了,啊,毗摩。

3.34.19

न त्वद्य शक्यं भरतप्रवीर ।
कृत्वा यदुक्तं कुरुवीरमध्ये।
कालं प्रतीक्षस्व सुखोदयाय ।
पाकं फलानामिव बीजवापः ॥ ३.३४.१९ ॥

啊,婆罗多中的英杰,在库鲁英雄之中所说的话,今天无法做到;等待幸福升起的时机,正如播种者等待果实成熟。

3.34.20

यदा हि पूर्वं निकृतोनिकृन्ते-
द्वैरं सपुष्पं सफलं विदित्वा।
महागुणं हरति हि पौरुषेण ।
तदा वीरो जीवति जीवलोके ॥ ३.३४.२० ॥

当先前受辱之人,了知怨仇连同其花与果,以男子汉的努力夺得大德时,那时英雄便在这生者的世界中活着。

3.34.21

श्रियं च लोके लभते समग्रां ।
मन्ये चास्मै शत्रवः सन्नमन्ते।
मित्राणि चैनमतिरागाद्भजन्ते ।
देवा इवेनद्रमुपजीवन्ति चैनम् ॥ ३.३४.२१ ॥

他在世间获得完满的繁荣。我认为他的敌人向他俯首,朋友因深厚的情谊依附于他,犹如诸神依赖因陀罗。

3.34.22

मम प्रतिज्ञां च निबोध सत्यां ।
वृणे सत्यममृतीज्जीविताच्च।
राज्यं च पुत्राश्च यशो धनं च ।
सर्वं न सत्यस्य कलामुपैति ॥ ३.३४.२२ ॥

请知我真实的誓愿:我宁取真理,不取不死,亦不取生命。王国、子嗣、名声与财富,合在一起也抵不上真理的一个分。