摩诃婆罗多 · 章 3.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.35.1
सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा ।
अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा ॥ ३.३५.१ ॥
即使与时间立下盟约,与那终结者、有翼者、无尽者、不可量者、卷走一切的洪流。
3.35.2
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः ।
फेनधर्मा महाराज फलधर्मा तथैव च ॥ ३.३५.२ ॥
大王,你视时间为显见之物;凡人受时间束缚,有泡沫之性,也有果实之性。
3.35.3
निमेषादपि कौन्तेय यस्यायुरपचीयते ।
सूच्येवाञ्जनचूर्णानि किमिति प्रतिपालयेत् ॥ ३.३५.३ ॥
贡蒂之子啊,寿命即使在一瞬之间也会减损,如同针尖漏下的眼黛粉末,何必等待呢?
3.35.4
यो नूनममितायुः स्यादथवाऽऽयुःप्रमाणवित् ।
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥ ३.३५.४ ॥
若有人确实寿命无量,或知晓寿命的限度,能洞见一切者,他方可等待时间。
3.35.5
प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश ।
आयुषोपचयं कृत्वा मरणायोपनेष्यति ॥ ३.३५.५ ॥
大王,我们等待时间十三年,它增益了寿命之后,便会将我们引向死亡。
3.35.6
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् ।
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥ ३.३५.६ ॥
因为有形体的众生之死常住于身体之中;所以在死亡之前,我们应为王国而努力。
3.35.7
यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः ।
अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥ ३.३५.७ ॥
不以清明的思虑行事、不扩展疆土、不使仇敌受苦的人,便会像陷入泥中的牛一样沉没。
3.35.8
यो न यातयते वैरमल्पसत्वोद्यमः पुमान् ।
अफलं जन्म तस्याहं मन्ये दुर्जातजीविनः ॥ ३.३५.८ ॥
我认为那个勇气和努力都微弱、不使仇敌受苦的人,他的出生毫无意义,过着不幸的生活。
3.35.9
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी ।
हत्वा द्विषन्तं संग्रामे भुङ्क्ष्व बाहुजितं वसु ॥ ३.३५.९ ॥
你的双臂如金,名声遍布大地。在战场上杀死仇敌之后,便可享用以臂力所得的财富。
3.35.10
हत्वा वै पुरुषो राजन्निकर्तारमरिंदम् ।
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ॥ ३.३५.१० ॥
大王啊,降伏敌人者!杀死自己仇敌、那个斩杀者的人,或许会在地狱中度过一日,但与之相当的天堂也属于他。
3.35.11
अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः ।
येनाहमभिसंतप्तो न नक्तं न दिवा शये ॥ ३.३५.११ ॥
因愤怒而生的煎熬,比火焰更加炽烈;我被它深深折磨,无论夜晚白昼都无法入睡。
3.35.12
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे ।
आस्ते परमसंतप्तो नूनं सिंह इवाशये ॥ ३.३५.१२ ॥
还有这位般度之子毗跋蹉,在拉弓弦上最为出众,他深深地痛苦着,确实如同蹲踞洞穴中的狮子。
3.35.13
योऽयमेको नुदेत्सर्वांल्लोके राजन्धनुर्भृतः ।
सोयमात्मजमूष्माणं ग्रहाहस्तीव यच्छति ॥ ३.३५.१३ ॥
大王啊,这位独自便能驱散世上所有持弓者的人,如今压抑着自己内心的怒火,如同驭象人勒住大象。
3.35.14
नकुलः सहदेवश्च वृद्धा माता च वीरसूः ।
तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥ ३.३५.१४ ॥
那国罗、萨哈德瓦,以及生育英雄的年迈母亲,都只愿你满意,如同愚钝哑巴一样默然而坐。
3.35.15
सर्वे तेऽप्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः ।
अहमेकश्च संतप्तो माता च प्रतिबिन्ध्यतः ॥ ३.३५.१५ ॥
你的亲族与萨拉宇人一同,都想让你不快;唯独我一人痛苦,母亲也被阻拦而痛苦。
3.35.16
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन ।
सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥ ३.३५.१६ ॥
我说的虽是令众人欢喜之事,或其他什么,但大家都已陷入灾难,而他们都曾欢迎战争。
3.35.17
नातः पापीयसी काचिदापद्राजन्भविष्यति ।
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥ ३.३५.१७ ॥
大王啊,再没有比这更罪恶的灾难了:我们的王国被夺走,却由卑贱而力量弱小的人享用。
3.35.18
शीलदोषाद्धृणाविष्ट आनृशंस्यात्परंतप ।
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥ ३.३५.१८ ॥
灭敌之王啊,你因品性之过,为怜悯与仁慈所困,忍受着种种苦难;别人没有谁会称赞这种做法。
3.35.19
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ ३.३५.१९ ॥
大王啊,你就像一个博学的吠陀学者,却迟钝而无智;你的智慧只被诵读所伤,并不能看见事物的真义。
3.35.20
घृणी ब्राह्मणरूपोसि कथं क्षत्रेष्वजायथाः ।
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥ ३.३५.२० ॥
你仁慈,有婆罗门的形貌;你怎么会生在刹帝利之中?在这一种族里,多数生来就是心性残酷的人。
3.35.21
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् ।
क्रूरान्निकृतिसंपन्नान्विहितानशमात्मकान् ॥ ३.३५.२१ ॥
你已经听闻了王者之法,正如摩奴所说:对于残酷、充满欺诈、性情不安的人,已规定了惩罚。
3.35.22
धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः ।
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ॥ ३.३५.२२ ॥
大王啊,你为何宽恕心术不正的持国之子?人中之虎啊,当有当尽的职责时,你为何像蛇一样盘踞在座位上?
3.35.23
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ।
तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम्।
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥ ३.३५.२३ ॥
你兼具智慧、勇力、学识与高贵的出身,俺昆提之子啊,你却想要掩盖我们,就像有人想用一把草遮住喜马拉雅山一样。
3.35.24
अज्ञातचर्यागूढेन पृथिव्यां विश्रुतेन च ।
दिवीव पार्थ सूर्येण न शक्याऽऽचरितुं त्वया ॥ ३.३५.२४ ॥
普利塔之子啊,你想隐姓埋名地生活,却又在大地上闻名;然而正如天上的太阳无法被遮蔽,这对你来说也是做不到的。
3.35.25
बृहत्साल इवानूपे शाखापुष्पपलावान् ।
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्ति ॥ ३.३५.२५ ॥
如同沼泽地中枝叶花繁的大娑罗树,或如不为人知的白象,胜利者阿周那将如何隐居度日?
3.35.26
इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू ।
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥ ३.३५.२६ ॥
这两位如狮子般的兄弟,还是少年的那古拉与萨哈德瓦,啊,普利塔之子,他们将如何度日?
3.35.27
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् ।
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥ ३.३५.२७ ॥
这位名声纯洁的公主,英雄之母德罗波蒂,声名远扬,啊,普利塔之子,黑公主如何能不为人知地度日?
3.35.28
मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः ।
अज्ञातचर्यां पश्यन्ति मेरोरिव निगूहनम् ॥ ३.३५.२८ ॥
大王,这些百姓,连孩童都认得我;他们将看到我隐匿的生活,如同将须弥山藏起一般。
3.35.29
तथैव बहव्रोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः ।
राजानो राजपुत्राश्च धार्तराष्ट्रमनुव्रताः ॥ ३.३५.२९ ॥
同样,我们已将许多追随持国之子的国王和王子从其国土驱逐出去。
3.35.30
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः ।
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥ ३.३५.३० ॥
他们既受侮辱或蒙受欺凌,也不会平息;希望我们好的人,一定要向他们报复。
3.35.31
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान् ।
आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम् ॥ ३.३५.३१ ॥
他们也可能派出大量潜伏的密探对付我们;若他们探知我们并告知,便会有极大的危险。
3.35.32
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश ।
परिमाणएन तान्पश्य तावतः परिवत्सरान् ॥ ३.३५.३२ ॥
我们在林中完整住了十三个月;请衡量一下,它们相当于那么多年。
3.35.33
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः ।
पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥ ३.३५.३३ ॥
正如智者所说,以菩提迦草代替苏摩,一个月也可以有替代者;就这样去做吧。
3.35.34
अथवाऽनडुहे राजन्साधने साधुवाहिने ।
सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते ॥ ३.३५.३४ ॥
或者,大王,以善于负重的公牛作为“那希特亚”之施,便可从此罪过中解脱。
3.35.35
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया ।
क्षत्रियस्य हि सर्वस्य नान्यो धर्मोस्ति संयुगात् ॥ ३.३५.३५ ॥
所以,大王,你应下定决心诛杀敌人;因为对一切刹帝利而言,除了战斗之外没有别的法。