Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.36.1

भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।
निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः ॥ ३.३६.१ ॥

贡蒂之子坚战听了怖军的话,叹了一口气,陷入深思。这位人中虎、敌人的焚烧者。

3.36.2

श्रुता मे राजधर्माश्च वर्णानां च पृथक्पृथक् ।
आयत्यां च तदात्वे च यः पश्यति स पश्यति ॥ ३.३६.२ ॥

我曾分别听闻王者之法与各种姓的法则。能同时洞见未来与当下的人,才是真正的洞见者。

3.36.3

धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम् ।
कथं बलात्करिष्यामि मेरोरिव विवर्तनम् ॥ ३.३६.३ ॥

我虽知晓法的至高之道,然而此道极难知晓,我怎能以力强行改变它,如同以力扭转须弥山一般?

3.36.4

स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् ।
भीमसेनमिद वाक्यमपदान्तरमब्रवीत् ॥ ३.३६.४ ॥

他仿佛沉思片刻,决定了应当如何行事,便对怖军说了这番话。

3.36.5

एवमेतन्महाबाहो यथा वदसि भारत ।
इदमन्यत्समादत्स्व वाक्यं मे वाक्यकोविद ॥ ३.३६.५ ॥

大力者啊,你说的正是如此,婆罗多之子啊。现在请听我这另一番话,善言辞者啊。

3.36.6

महापापानि कर्माणि यानि केवलसाहसात् ।
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ॥ ३.३६.६ ॥

怖军啊,仅凭鲁莽所发起的,正是大罪之业;婆罗多之子啊,这些业便会带来痛苦。

3.36.7

सुमन्त्रिते सुविक्रान्ते सुकृतेसुविचारिते ।
सिद्ध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ॥ ३.३६.७ ॥

谋划周详、勇敢执行、完成妥善、考虑周全的事业,便能成功,啊大臂者;此事上天命也是顺利的。

3.36.8

यत्तु केवलचापल्याद्बलदर्पोत्थितः स्वयम् ।
आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्रमे ॥ ३.३६.८ ॥

若你仅凭轻率与力量的傲慢,便自己起来认为此事应当着手,那就听我说。

3.36.9

भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् ।
भीष्मो द्रोणश्च कर्णशच् द्रोणपुत्रश्च वीर्यवान् ॥ ३.३६.९ ॥

布利什拉瓦斯、沙利亚、勇猛的摩揭陀王迦罗桑陀、毗湿摩、德罗纳、迦尔纳,以及勇猛的德罗纳之子(马嘶)。

3.36.10

धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः ।
सर्व एव कृताशस्त्राश्च सततं चाततायिनः ॥ ३.३६.१० ॥

持国之子,难以抵挡,以难敌为首;他们皆精通兵器,且常是侵犯者。

3.36.11

राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः ।
ते श्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम् ॥ ३.३६.११ ॥

我们所折磨的诸王与大地之主,如今已投靠俱卢一方,并对其产生了亲近之情。

3.36.12

दुर्योधनहिते युक्ता न तथाऽस्मासु भारत ।
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ॥ ३.३६.१२ ॥

啊婆罗多,他们一心为难敌谋利,对我们却不然;他们拥有充盈的府库与军队,必将尽力保护他。

3.36.13

सर्वे कौरवसैन्यस् सपुत्रामात्यसैनिकाः ।
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ॥ ३.३६.१३ ॥

考罗婆全军,连同其子、大臣与士兵,确实各方面都以财富与享乐得到了妥善的供给。

3.36.14

दुर्योधनेन ते वीरा मानिताश्च विशेषतः ।
प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः ॥ ३.३६.१४ ॥

那些被難敵特别尊崇的英雄,将在战斗中舍弃生命,这是我坚定的看法。

3.36.15

समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च ।
द्रोणस् च महाबाहो कृषस्य च महात्मनः ॥ ३.३६.१५ ॥

虽然毗湿摩对我们与对他们的待遇相同,大臂者啊,德罗纳与大德的克利巴亦是如此。

3.36.16

अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः ।
तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान् ॥ ३.३६.१६ ॥

他们必须偿还王家饭食之债,这是我的看法。因此,他们将在战斗中舍弃极难舍弃的生命。

3.36.17

सर्वेदिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः ।
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ॥ ३.३६.१७ ॥

他们都精通神兵,且皆奉行法(达摩);依我之见,即使诸神与因陀罗(婆娑婆)联手,也无法战胜他们。

3.36.18

अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः ।
सर्वास्त्रविदनाधृष्यो ह्यभेद्यकवचावृतः ॥ ३.३६.१८ ॥

那里有迦尔纳,大车战士,不能忍耐,总是愤怒;精通一切兵器,难以攻击,披着坚不可摧的铠甲。

3.36.19

अनिर्जित्यरणे सर्वानेतान्पुरुषसत्तमान् ।
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ॥ ३.३६.१९ ॥

若不先在战场上战胜这些人中之最,你无人相助,便不可能杀死难敌。

3.36.20

न निद्रामधिगच्छामि चिन्तयानो वृकोदर ।
अतिसर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ॥ ३.३६.२० ॥

狼腹啊,我思虑不已,无法入睡;御者之子的手法之敏捷,超过所有弓箭手。

3.36.21

एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः ।
बभूव शान्तिसंयुक्तो गुरोर्वचनवारितः ॥ ३.३६.२१ ॥

毗摩娑那听懂此言,虽极为愤怒,却被师长之言所制,遂归于平静。

3.36.22

तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः ।
आजगाम महायोगी व्यासः सत्यवतीसुतः ॥ ३.३६.२२ ॥

二位般度之子正如此交谈时,大瑜伽士、萨提亚瓦蒂之子毗耶娑来到了。

3.36.23

सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः ।
युधिष्ठिरमिदं वाक्यमुवाच वदतांवरः ॥ ३.३६.२३ ॥

他依礼前来,受到般度之子们的敬礼。随后,辩者中最杰出的他对坚战说了这番话。

3.36.24

युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम् ।
मनीषया तत क्षिप्रमागतोस्मि नरर्षभ ॥ ३.३६.२४ ॥

大臂的坚战啊,我知道你心中所想;因此,人中之牛啊,我凭智慧迅速来到了这里。

3.36.25

भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत ।
दुर्योधनान्नृपसुतात्तथा दुःशासनादपि ॥ ३.३६.२५ ॥

婆罗多啊,来自毗湿摩、德罗纳、克里帕、迦尔纳、德罗纳之子、难敌、王子,以及同样来自难降。

3.36.26

त्ते भयममित्रघ्न हृदि संपरिवर्तते ।
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ॥ ३.३६.२६ ॥

灭敌者啊,你心中盘旋的那恐惧,我将以依规定所见的方法将其除去。

3.36.27

तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ।
प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि ॥ ३.३६.२७ ॥

听到此言,应持定坚忍,以仪式完成之。王中之王啊,完成之后,应迅速摒弃那焦灼之热。

3.36.28

तत एकान्तमानाय्य पाराशर्यो युधिष्ठिरम् ।
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ॥ ३.३६.२८ ॥

于是精通言辞的波罗奢罗之子(毗耶娑)将坚战带到一旁僻静处,说出了这些切合意旨的话。

3.36.29

श्रेयसस्तेऽपरः कालः प्राप्तो भरतसत्तम ।
येनाभिभविता शत्रून्रणे पार्थो धनुर्धरः ॥ ३.३६.२९ ॥

婆罗多中最优者啊,你又迎来了吉祥之时;借此,持弓的贡蒂之子(阿周那)将在战场上战胜敌人。

3.36.30

गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमर्तामिव ।
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ॥ ३.३६.३० ॥

请接受我所宣说的这一成就,犹如其具体的形体。对你这位归依者,我宣说名为“记忆回还”的此明智。

3.36.31

यामवाप्यमहाबाहुरर्जुनः साधयिष्यति ।
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ॥ ३.३६.३१ ॥

阿周那获得此物后将成就其事。为了神兵,他应前往因陀罗与楼陀罗之处。

3.36.32

वरुणं च कुबेरं च धर्मराजं च पाण्डव ।
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ॥ ३.३६.३२ ॥

般度之子啊,也应去见伐楼那、俱毗罗与法王。他凭苦行与勇力,能够见到诸神。

3.36.33

ऋषिरेष मेहातेजा नारायणसहायवान् ।
पुराणः शास्वतो देवस्त्वजेयो जिष्णुरच्युतः ॥ ३.३६.३३ ॥

此大光明仙人以那罗延为伴。他是古老永恒的神,不可战胜、胜利且不朽。

3.36.34

अस्त्राणीनद्राच्च रुद्राच्च लोकपालेभ्य एव च ।
समादाय महाबाहुर्महत्कर्म करिष्यति ॥ ३.३६.३४ ॥

他从因陀罗、楼陀罗及诸世界护持者处获得神兵后,这位大臂者将成就伟大的功业。

3.36.35

वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् ।
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ॥ ३.३६.३५ ॥

昆提之子啊,请从此林另择他林,地之主啊,若此林适合你们居住的话。

3.36.36

एकत्रचिरवासो हि न प्रीतिजननो भवेत् ।
तापसानां च शान्तानां भवेदुद्वेगकारकः ॥ ३.३६.३६ ॥

长久居于一处不会带来喜悦,对于寂静的苦行者而言,它可能成为扰乱的缘由。

3.36.37

मृगाणामुपरोधश्च वीरुदोषधिसंक्षयः ।
बिभर्षि च बहून्विप्रान्वेदवेदाङ्गपारगान् ॥ ३.३६.३७ ॥

鹿群受到伤害,藤蔓与药草遭到毁坏;然而你仍供养着许多精通吠陀与吠陀支分的婆罗门。

3.36.38

एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः ।
प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ॥ ३.३६.३८ ॥

如此说罢,通晓瑜伽精义的尊贵主宰向那虔诚归依、清净的坚战讲授了至上的瑜伽之学。

3.36.39

धर्मराजाय धीमान्स व्यासः सत्यवतीसुतः ।
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ॥ ३.३६.३९ ॥

智者毗耶娑,即萨提雅瓦蒂之子,向法王昆提之子辞别后,便在那里隐没了。

3.36.40

युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः ।
धारयामास मेधावी कालेकाले सदाऽभ्यसन् ॥ ३.३६.४० ॥

而心怀正法、智慧的坚战,将那梵智铭记于心,并在适当的时候时常修习。

3.36.41

स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः ।
ययौ सरस्वतीकूले काम्यकं नाम काननम् ॥ ३.३६.४१ ॥

因毗耶娑之言而欢喜,他随即离开二林,前往萨拉斯瓦蒂河岸名为迦摩耶迦的森林。

3.36.42

तमन्वयुर्महाराज शिक्षाक्षरविशारदाः ।
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ॥ ३.३६.४२ ॥

大王啊,精通音韵与字母、具足苦行的婆罗门跟随着他,犹如诸仙跟随天神之王因陀罗。

3.36.43

ततः काम्यकमासाद्य पुनस्ते भरतर्षभ ।
न्यविशन्त महात्मानः सामान्याः सपदानुगाः ॥ ३.३६.४३ ॥

随后,婆罗多的雄牛啊,他们再次抵达迦摩耶迦林,那些大心者与随从一同在那里定居。

3.36.44

तत्रते न्यवसन्राजन्कंचित्कालं मनस्विनः ।
धनुर्वेदपरा वीरा गृणाना वेदमुत्तमम् ॥ ३.३६.४४ ॥

大王啊,那些有智慧的英雄在那里居住了一段时间,专心于弓箭之学,诵读至高的吠陀。

3.36.45

चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः ।
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ॥ ३.३६.४५ ॥

每日狩猎,以纯净的箭寻找鹿群,并依照规定向祖先、诸神与婆罗门供奉。