Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.38.1

भगवञ्श्रोतुमिच्छासमि पार्थस्याक्लिष्टकर्मणः ।
विस्तरेण कथामेतां यथाऽस्त्राण्युपलब्धवान् ॥ ३.३८.१ ॥

尊敬的圣者啊,我想详细听闻无瑕行事的般度之子(阿周那)的这段故事:他是如何获得神兵的。

3.38.2

कथं च पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः ।
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥ ३.३८.२ ॥

人中之虎、长臂、光辉的达那阳阁耶(阿周那)如何无畏地进入那无人的森林?

3.38.3

किंचानेन कृतंतत्रवसता ब्रह्मवित्तम ।
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥ ३.३८.३ ॥

梵知者中最杰出者啊,他在那里居住时做了什么?尊贵的斯塔奴(湿婆)与天王(因陀罗)又是如何得到欢喜的?

3.38.4

एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम ।
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ॥ ३.३८.४ ॥

二生者中最杰出者啊,蒙你恩典,我愿听闻此事。你是全知者,既知天界之事,也知人间之事。

3.38.5

अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः ।
भवेन सह संग्रामं चकाराप्रतिमं किल।
पुरा प्रहरतांश्रेष्ठः संग्रामेष्वपराजितः ॥ ३.३८.५ ॥

大智者啊,此事极为奇异、令人毛骨悚然:阿周那曾与婆婆(湿婆)展开无与伦比的战斗。这位战士中的最杰出者、在战场上从未败北的人,竟然做到了。

3.38.6

यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् ।
शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥ ३.३८.६ ॥

闻此之后,连人中雄狮、英勇的普利塔之子的心也因沮丧、喜悦和极大的惊异而颤抖。

3.38.7

यद्यच्च कृतवानन्यत्पार्थस्तदस्विलं वद ॥ ३.३८.७ ॥

请完整地告诉我,Pārtha(阿周那)还做了其他什么事。

3.38.8

न ह्यस् निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ।
चरितं यस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥ ३.३८.८ ॥

我看不出胜利者阿周那的行为中有任何可责之处,哪怕极其细微。请把这位英雄的全部事迹都讲给我听。

3.38.9

कथयिष्यामि ते तात कथामेतां महात्मनः ।
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥ ३.३८.९ ॥

亲爱的孩子,我将把这位大德之人的这段神圣故事讲给你听,你是俱卢族中的猛虎;它伟大而如同奇迹一般。

3.38.10

गात्रसंस्पर्शसंबद्धां त्र्यम्बकेण महाहवे ।
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥ ३.३८.१० ॥

请仔细听:在大战中,Pārtha 与三眼神、诸神之神相遇,这一相遇与身体的接触相连。

3.38.11

युधिष्ठिरनियोगात्स जगामामितविक्रमः ।
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् ॥ ३.३८.११ ॥

依照坚战的命令,这位武勇无量者前往拜见诸神之主帝释天(Śakra),以及神中之神湿婆(Śaṅkara)。

3.38.12

दिव्यं तद्धनुरादाय खङ्गं च पुरुषर्षभः ।
महाबलो महाबाहुरर्जुनः कार्यसिद्धये ॥ ३.३८.१२ ॥

阿周那——人中雄牛、大力、双臂有力者——拿起那把神圣的弓和剑,为了完成使命而出发。

3.38.13

दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ।
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ॥ ३.३८.१३ ॥

君王啊,俱卢族的阿周那,因陀罗之子,心志坚定,在三界闻名的大车将,向北方朝喜马拉雅山峰而去。

3.38.14

त्वरया परया युक्तस्तपसे धृतनिश्चयः ।
वनं कण्टकितं घोरमेक एवान्वपद्यत ॥ ३.३८.१४ ॥

阿周那满怀急切,决意苦修,独自走进了荆棘丛生的可怕森林。

3.38.15

नानापुष्पफलोपेतं नानापक्षिनिनादितम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ ३.३८.१५ ॥

那片森林有各种花果,回荡着众多鸟儿的鸣叫,聚集着各类鹿群,为悉陀与遮罗所常至。

3.38.16

ततः प्रयाते बीभत्सौ वनं मानुषवर्जितम् ।
शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥ ३.३८.१६ ॥

阿周那前往那无人居住的森林时,天空中响起了海螺与鼓的声音。

3.38.17

पुष्पवर्षं च सुमहन्निपपात महीतले ।
मेघजालं च सततं छादयामास सर्वतः ॥ ३.३८.१७ ॥

大地表面降下了极大的花雨,云网则不断从四面八方将其笼罩。

3.38.18

सोतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः ।
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥ ३.३८.१८ ॥

他穿过森林中的险峻之处,来到大山附近;那时,居住在喜马拉雅山坡上的阿周那光彩焕发。

3.38.19

तत्रतत्र द्रुमान्फुल्लान्विहगैर्वल्गुनादितान् ।
नदीश्च विपुलावर्ता वैदूर्यनीलसंनिभाः ॥ ३.३८.१९ ॥

到处是繁花盛开的树木,回荡着鸟儿悦耳的鸣叫;还有旋涡宽广的河流,宛如青金石般碧蓝。

3.38.20

हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा ।
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥ ३.३८.२० ॥

天鹅与鸭子唱着歌,鹤鸣此起彼伏,雄杜鹃的啼声与鹭鸟、孔雀的鸣叫回荡其间。

3.38.21

मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः ।
पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत् ॥ ३.३८.२१ ॥

阿周那见到这里有令人心醉的树林,以及清净、清凉、澄澈的水流,心中欢喜。

3.38.22

रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा ।
तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥ ३.३८.२२ ॥

阿周那在那片令人心旷神怡的林地中流连,此时他威光赫赫、志气高远,便投身于严苛的苦行。

3.38.23

दर्भचीरं निवस्याथ दण्डाजिनबिभूषितः ।
शीर्णं च पतितं भूमौ पर्णं समुपभुक्तवान् ॥ ३.३८.२३ ॥

他穿上吉祥草编织的衣服,佩戴手杖与鹿皮作为装饰,然后吃掉落在地上的枯叶。

3.38.24

पूर्णेपूर्णे त्रिररात्रे तु मासमेकं फलाशनः ।
द्विगुणेनैव कालेन द्वितीयं मासमत्ययात् ॥ ३.३८.२४ ॥

每当三夜圆满,他便靠果实为食过一个月;再用加倍的时间,度过第二个月。

3.38.25

तृतीयमपि मासं स क्रमेणाहारमाचरन् ।
चतुर्थे त्वथ संप्राप्ते मासे भरतसत्तमः ॥ ३.३८.२५ ॥

第三个月,他仍依次进食;到第四个月来临时,婆罗多族中最优秀者……

3.38.26

वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ।
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः ॥ ३.३८.२६ ॥

大臂的般度之子成为只以风为食的人;双臂高举,无所依靠,站在脚拇指的尖端上。

3.38.27

सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः ।
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥ ३.३८.२७ ॥

由于他常常饮水净身,这位大德、光辉无量者的发束如闪电与莲花一般。

3.38.28

ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् ।
विवेदयिषवः पार्थं तपस्युग्रे समास्थितम् ॥ ३.३८.२८ ॥

于是众大仙人前往持弓(毗那迦)之神那里,想要禀告那正在修行苦行的般度子(阿周那)。

3.38.29

नीलकण्ठं महादेवमभिवाद्य प्रणम्य च ।
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥ ३.३८.२९ ॥

他们向青颈的大天神致敬行礼,然后都禀告了法尔古那(阿周那)的那件事。

3.38.30

एकः पार्थो महातेजा हिमवत्पृष्ठमाश्रितः ।
उग्रे तपरसि दुष्पारे स्थितो धूमापयन्दिशः ॥ ३.३८.३० ॥

唯有大光辉的般度子(阿周那)独自隐居于喜马拉雅山脊之上,安住于猛烈而艰难的苦行,使四方充满烟气。

3.38.31

तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् ।
संतापयति नः सर्वानसौ साधु निवार्यताम् ॥ ३.३८.३१ ॥

天神之主啊,我们都不知道他的意图。他使我们所有人痛苦;应当好好地制止他。

3.38.32

तेषां तद्वचनं श्रुत्वा मुननां भावितात्मनाम् ।
उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह ॥ ३.३८.३२ ॥

听了那些心灵纯净的仙人的话,乌玛之主、众生之主说了这些话。

3.38.33

न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः ।
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ॥ ३.३८.३३ ॥

你们不应因法尔古那(阿周那)而有任何忧愁。欢欣而不知疲倦地,依照来时的路,迅速返回吧。

3.38.34

अहमस्य विजानामि संकल्पं मनसि स्थितम् ।
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः।
यत्तस्य काङ्क्षितं प्राप्तुं तत्करिष्येऽहमद्य वै ॥ ३.३८.३४ ॥

我知道他心中所存的决心。他既不渴望天界,也不渴望权势,更不渴望长寿。他想要获得的,我今天一定会为他实现。

3.38.35

तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः ।
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमम् ॥ ३.३८.३५ ॥

听了湿婆(Śarva)的话,诚实的仙人们心中欢喜,各自返回自己的修道林。