Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.4.1

वनं प्रविष्टेष्वथ पाण्डवेषु ।
प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः।
धर्मात्मानं विदुरमगाधबुद्धिं ।
सुखासीनो वाक्यमुवाच राजा ॥ ३.४.१ ॥

般度之子们进入森林后,阿迪迦之子、以智慧为眼的国王坐在舒适处,忧伤地对心地正直、智慧深不可测的维杜罗说了这些话。

3.4.2

प्रज्ञा च ते भार्गवस्येव शुद्धा ।
धर्मं च त्वं परमं वेत्थ सूक्ष्मम्।
समश्च त्वं संमतः कौरवाणां ।
पथ्यं चैषां मम चैव ब्रवीहि ॥ ३.४.२ ॥

你的智慧纯净如婆利固(Bhārgava),你知晓至高而微妙的法。你平等无私,在俱卢族中受人尊敬。请说出对他们和对我有益的话。

3.4.3

एवं गते विदुरयदद्य कार्यं ।
पौराश्चेमे कथमस्मान्भजेरन्।
ते चाप्यस्मान्नोद्धरेयुः समूला-
न्न कामये तांश्च विनश्यमानान् ॥ ३.४.३ ॥

事已如此,维杜罗啊,现在该怎么办?这些市民将如何侍奉我们?他们也不会将我们连根拔起地救起;对于那些正在走向毁灭的人,我也不愿看到。

3.4.4

सौबलेनैव पापेन दुर्योधनहितैषिणा ।
क्रूरमाचरितं क्षत्तर्न मे प्रियमनुष्ठितम् ॥ ३.४.४ ॥

苏巴拉之子沙恭尼这恶人,为了杜尔夜特那的利益,做了这残酷之事;哦,刹多(Kṣattṛ),这并不令我欢喜。

3.4.5

तथैवाङ्गीकृते तत्र तद्भवान्वक्तुमर्हति ।
उत्तरं प्राप्तकालं च किमन्यन्मन्यते क्षमम् ॥ ३.४.५ ॥

既然那里已如此接受,您便应当就此发言。请给出合乎时宜的回答;您认为还有什么比这更合适的呢?

3.4.6

नास्ति धर्मे सहायत्वमिति मे दीर्यते मनः ।
यत्र पाण्डुसुताः सर्वे क्लिश्यन्ति वानमागताः ॥ ३.४.६ ॥

我心痛苦地想到:在法中没有助力;般度的诸子都来到森林,正在受苦。

3.4.7

त्रिवर्गोऽयं धर्ममूलो नरेन्द्र ।
राज्यं चेदं धर्ममूलं वदन्ति।
धर्मे राजन्वर्तमानः स्वशक्त्या ।
पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ॥ ३.४.७ ॥

人主啊,这三求以法为根本;而王国也被说是以法为根本。国王啊,安住于法,以你自己的力量保护你所有的儿子以及贡蒂的儿子们。

3.4.8

स वै ध्रमो विप्रलब्धः सभायां ।
पापात्मभिः सौबलेयप्रधानैः।
आहूय कुन्तीसुतमक्षवत्यां ।
पराजैषीत्सत्यसन्धं सुतस्ते ॥ ३.४.८ ॥

那法在会堂中被欺骗了,由苏巴拉之子为首的心怀恶念之人所为。召来贡蒂之子赌博,你的儿子战胜了这位言而有信者。

3.4.9

एतस्य ते दुष्प्रणीतस्य राज-
न्द्वेषस्याहं परिपश्याम्युपायम्।
यथा पुत्रस्तव कौरव्य पापा-
न्मुक्तो लोके प्रतितिष्ठेत साधु ॥ ३.४.९ ॥

我看到一个办法来消除你对国王这种错误引导的仇恨,俱卢之后啊,使你的儿子脱离罪恶,在世间得以安立。

3.4.10

तद्वै सर्वं पाण्डुपुत्रा लभन्तां ।
यत्तद्राजन्नतिसृष्टं त्वयाऽऽसीत्।
एष धर्मः परमो यत्स्वकेन ।
राजा तुष्येन्न परस्वेषु गृद्ध्येत् ॥ ३.४.१० ॥

国王啊,愿般度之子们获得你先前所舍弃的一切。这是最高的法:国王应当满足于自己所有,不贪求他人之物。

3.4.11

यशो ने नश्येज्ज्ञातिभेदश्च न स्या-
द्धर्मो न स्यान्नैव चैवं कृते त्वाम्।
एतत्कार्ये तव सर्वप्रधानं ।
तेषां तुष्टिः शकुनेश्चावमानः ॥ ३.४.११ ॥

若如此行事,你的名誉将会毁灭,亲族之间将生分裂,法也将不存。此事之中,对你最为重要的是他们的满足,而非沙恭尼的荣誉。

3.4.12

एवं शेषं यदि पुत्रेषु ते स्या-
देतद्राजंस्त्वरमाणः कुरुष्व।
अथैतदेवं न करोषि राजन् ।
ध्रुवं कुरूणां भविता विनाशः ॥ ३.४.१२ ॥

若为你的诸子所余仅此,那么,大王,速速行之。若大王你不如此行,则俱卢族必定走向毁灭。

3.4.13

नहि क्रुद्धो भीमसेनोऽर्जुनो वा ।
शेषं कुर्याच्छात्रवाणामनीके।
येषां योद्धा सव्यसाची कृतास्त्रो ।
धनुर्येषां गाण्डिवं लोकसारम् ॥ ३.४.१३ ॥

若愤怒的毗摩センa或阿周那,必不会在敌军中留下任何东西。那些以善射者萨维耶萨钦为勇士、以世间精华的甘提婆为弓者。

3.4.14

येषां भीमो बाहुशाली च योद्धा ।
तेषां लोके किंनु न प्राप्यमस्ति।
उक्तं पूर्वं जातमात्रे सुते ते ।
मया यत्ते हितमासीत्तदानीम् ॥ ३.४.१४ ॥

对于以臂力强大的毗摩为勇士的人们,世间有何物不可得?在你儿子出生之时,我早已告诉过你,当时对你有益的是什么。

3.4.15

पुत्रं त्यजेममहितं कुलस्य ।
हितं परं न च तत्त्वं चकर्थ।
इदानीं ते हितमुक्तं न चेत्त्व-
मेवं कर्ता परितप्ताऽसि पश्चात् ॥ ३.४.१५ ॥

舍弃这个对家族有害的儿子。你没有做最高的善事。现在已对你说明了善;若你不这样做,你以后会悔恨。

3.4.16

यद्येतदेवमनुमन्ता सुतस्ते ।
संप्रीयमाणः पाण्डवैरेकराज्यम्।
तापो न ते भविता प्रीतियोगा-
त्त्वं चेन्न गृह्णासि सुतं सहायैः ॥ ३.४.१६ ॥

若你的儿子如此同意,并与般度之子们欢喜地同住一国,那么因情谊之结合,你将不会有痛苦;若你不与其盟友一同接纳儿子。

3.4.17

दुर्योधनं त्वहितं वै निगृह्य ।
पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये।
ध्रुवं विनाशस्तव पुत्रेण धीमन् ।
सबन्धुवर्गेण सहैव राजभिः ॥ ३.४.१७ ॥

制止有害的难敌,使般度之子登上王位。智者啊,因你的儿子,你必定遭受毁灭,连同亲族与诸王一起。

3.4.18

चतुर्दशे चैव वर्षे नरेन्द्र ।
कुलक्षयं प्राप्स्यसि राजसिंह।
तस्मात्कुरुष्वाधिपत्ये नरेन्द्र ।
युधिष्ठिरं धर्मभृतां वरिष्ठम् ॥ ३.४.१८ ॥

第十四年,人主啊,你将遭遇家族的毁灭,诸王中的狮子啊。因此,人主啊,请使持法者中最优秀的坚战登上王位。

3.4.19

अजातशत्रुर्हि विमुक्तरागो ।
धर्मोणेमां पृथिवीं शास्तु राजन्।
ततो राजन्पार्थिवाः सर्व एव ।
वैश्या इवास्मानुपतिष्ठन्तु सद्यः ॥ ३.४.१९ ॥

愿无敌者坚战摆脱贪爱,依法统治此大地,大王。然后,大王,愿所有国王立即像吠舍一样来到我们面前侍奉。

3.4.20

दुर्योधनः शकुनिः सूतपुत्रः ।
प्रीत्या राजन्पाण्डुपुत्रान्भजन्तु।
दुःशासनो याचतु भीमसेनं ।
सभामध्ये द्रुपदस्यात्मजां च ॥ ३.४.२० ॥

愿难敌、沙恭尼与御者之子迦尔纳,怀着爱意,大王,侍奉般度的儿子们。愿难降请求怖军,并在会众之中向德鲁帕达之女请求。

3.4.21

युधिष्ठिरं त्वं परिसान्त्वयस्व ।
राज्ये चैनं स्थापयस्वाभिपूज्य।
त्वया पृष्टः किमहमन्यद्वदेय-
मेतत्कृत्वा कृतकृत्योसि राजन् ॥ ३.४.२१ ॥

你应当好好安抚坚战,尊敬他并使他在王国中就位。你既然问我,我还能说什么呢?做到这些,大王,你便功德圆满了。

3.4.22

एतद्वाक्यं विदुर यत्ते सभाया-
मिह प्रोक्तं पाण्डवान्प्राप्य मां च।
हितं तेषामहितं मामकाना-
मेतत्सर्वं मम नावैदि चेतः ॥ ३.४.२२ ॥

维杜罗啊,你在会堂上关于般度五子和我所说的这番话,对他们有益,对我的人有害;我的心并不理解这一切。

3.4.23

इदं त्विदानीं गत एव निश्चितं ।
तेषामर्थे पाण्डवानां यदात्थ।
तेनाद्य मन्ये नासि हितो ममेति ।
कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ॥ ३.४.२३ ॥

你为般度之子所说的话,如今已经确定无疑。因此我今天认为你并不善待我。为了般度之子,我怎能抛弃我的儿子?

3.4.24

असंशयं तेऽपि ममैव पुत्रा ।
दुर्योधनस्तु मम देहात्प्रमूतः।
स्वं वै देहं परहेतोस्त्यजेति ।
कोनु ब्रूयात्समतामन्ववेक्षन् ॥ ३.४.२४ ॥

毫无疑问,他们也是我的儿子,但难敌是从我自己的身体里出生的。谁能以平等之心思量后说:为了他人而舍弃你自己的身体?

3.4.25

स मां जिह्मं विदुर सर्वं ब्रवीपि ।
मन्युं तेऽहमधिकं धारयामि।
यथेच्छकं गच्छ वा तिष्ठ वा त्वं ।
सुसान्त्व्यमानाऽप्यसती स्त्री जहाति ॥ ३.४.२५ ॥

毗杜罗啊,你对我说的一切都是歪曲的,我对你怀有很大的怒气。随你的意愿去留吧。即使被好好安慰,不贞的妻子也会抛弃丈夫。

3.4.26

एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य-
दन्तर्वेश्म सहसोत्थाय राजन्।
नेदमस्तीत्यथ विदुरो भापमाप्पः ।
संप्राद्रवद्यत्र पार्था बभूवुः ॥ ३.४.२६ ॥

说完这些,持国王忽然站起,走进了内室。毗杜罗说“不是这样”,得到了回答,便奔向般度之子所在之处。