Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.40

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.40.1

नरस्त्वं पूर्वदेहे वै नारायणसहायवान् ।
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥ ३.४०.१ ॥

你前世为那罗,以那罗延为伴,在巴达利多次行持极苦的苦行,历经数以万计的岁月。

3.40.2

त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे ।
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥ ३.४०.२ ॥

在你或至上人毗湿奴之中有至高的光辉;以你们二位人中之最的光辉,世界得以维系。

3.40.3

शक्राभिषेके सुमहद्धनुर्जलदनिःस्वनम् ।
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥ ३.४०.३ ॥

主啊,在因陀罗受灌顶之时,你与黑天手持如云般轰鸣的大弓,诛杀了诸檀那婆。

3.40.4

तदेतदेव गाण्डीवं तव पार्थ करोचितम् ।
भायामास्थाय तद्ग्रस्तं मया पुरुषसत्तम ॥ ३.४०.४ ॥

此甘狄拔之弓正适合你的手,贡蒂之子啊;人中最上者啊,我曾化作幻形将它夺去。

3.40.5

तूणौ चाप्यक्षयौ भूयस्तव पार्थ करोचितौ ।
भविष्यति शरीरं च नीरुजं कुरुनन्दन ॥ ३.४०.५ ॥

贡蒂之子啊,适合你手的两只箭袋也将再次变得不竭;库鲁之喜悦啊,你的身体也将无病。

3.40.6

प्रीतिमानस्मि वै पार्थ भवान्सत्यपराक्रमः ।
गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥ ३.४०.६ ॥

贡蒂之子啊,我确实因你而欢喜,你是真实勇武的人;人中之牛啊,请从我这里取得你所希求的恩惠。

3.40.7

न त्वया सदृशः कश्चित्पुमान्मर्त्येषु भारत ।
दिवि वा वर्तते त्रं त्वत्प्रधानमरिंदम ॥ ३.४०.७ ॥

婆罗多啊,凡人之中没有人能与你相比,天上也没有;你是首位,征服敌人者啊。

3.40.8

वरं ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज ।
कामये दिव्यामस्त्रं तद्धोरं पाशुपतं प्रभो ॥ ३.४०.८ ॥

婆罗多啊,帝王啊,若你出于慈爱赐我所愿之恩,我愿得那神圣而可怖的帕舒帕塔神兵。

3.40.9

यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् ।
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥ ३.४०.९ ॥

那名为梵首的猛烈神兵,威力可怖,当可怕的劫末来临时,它毁灭整个世界。

3.40.10

कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः ।
त्वत्प्रसादान्महादेव जयेयं तान्यथा युधि ॥ ३.४०.१० ॥

将有一场大战与迦尔纳、毗湿摩、克利巴和德罗纳展开;大天啊,凭你的恩典,我或许能在战中胜过他们。

3.40.11

जयेयं येन संग्रामे दानवान्राक्षसांस्तथा ।
राज्ञश्चैव पिशाचांश्च गन्धर्वानथपन्नगान् ॥ ३.४०.११ ॥

我借此可在战中胜过檀那婆、罗刹、诸王、毕舍遮、乾闼婆与蛇族。

3.40.12

यस्मिञ्शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः ।
शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः ॥ ३.४०.१२ ॥

其中,若以咒语加持,便会生出千万把三叉戟、形貌猛烈的棍棒,以及如毒蛇般的箭矢。

3.40.13

युध्येयं येन भीष्मेण द्रोणेन च कृपेण च ।
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥ ३.४०.१३ ॥

愿我能在战场上与毗湿摩、德罗纳、克利巴以及总是出言刻薄的御者之子交战。

3.40.14

एष मे प्रथमः कामो भगवन्भगनेत्रहन् ।
त्वत्प्रसादाद्विनिर्बृत्तः समर्थः स्यामहं यथा
भव उवाच। ॥ ३.४०.१४ ॥

伟大的主啊,断灭薄伽之眼者,这是我的第一个愿望:愿蒙您恩典,我能成就并变得强大。

3.40.15

ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो ।
समर्थो धारणे मोक्षे संहारेऽपि च पाण्डव ॥ ३.४०.१५ ॥

威猛者啊,我将我心爱的武器帕苏帕塔赠予你。般度之子啊,你能持有它、释放它,也能收回它。

3.40.16

न तद्वेद महेन्द्रोपि न यमो न च यक्षराट् ।
वरुणोप्यथवा वायुः कुतो वेत्स्यन्ति मानवाः ॥ ३.४०.१६ ॥

连因陀罗也不知此武器,阎摩、夜叉王、伐楼那、风神亦不知。那么,凡人又怎能知道呢?

3.40.17

न त्वया सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् ।
जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥ ३.४०.१७ ॥

普利塔之子啊,切不可轻率地把它施于任何人。若施于力量微弱之人,它将焚毁整个世界。

3.40.18

अबध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे ।
मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥ ३.४०.१८ ॥

在三界之中,包括动与不动之物,没有谁是它无法杀死的;它可以凭意念、目光、言语或弓箭将人击倒。

3.40.19

तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः ।
उपसंगृह्य विश्वेशमधीष्वेत्यथ सोऽब्रवीत् ॥ ३.४०.१९ ॥

Pārtha听后迅速洁净并专注,抱住宇宙之主的双足,说:「请教我。」

3.40.20

ततस्त्वध्यापयामास सरहस्यनिवर्तनम् ।
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥ ३.४०.२० ॥

随后,他将那件兵器连同其秘诀与收回之法传授给般度之子中的最优者;那兵器仿佛是化身的死神。

3.40.21

उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् ।
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥ ३.४०.२१ ॥

他侍奉那位大我,如同侍奉三眼的乌玛之主;阿周那欣然,随即也接受了那兵器。

3.40.22

ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
ससागरवनोद्देशा सग्रामनगराकरा ॥ ३.४०.२२ ॥

于是大地震动,连同山岳、森林与树木,连同海洋与林区,连同村庄、城市与矿藏。

3.40.23

शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः ।
तस्मिनमुहूर्ते संप्राप्ते निर्घातश्च महानभूत् ॥ ३.४०.२३ ॥

海螺与鼓的轰鸣,以及成千上万面战鼓之声;那时刻到来,便响起巨大的雷鸣。

3.40.24

अथास्त्रं जाज्वलद्धोरं पाण्डवस्यामितौजसः ।
मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥ ३.४०.२४ ॥

于是,在力量无边的般度之子身旁,那炽燃而可怖的兵器显现为有形之身站立着;天神与阿修罗都看见了它。

3.40.25

स्पृष्टस्य त्र्यम्बकेणाथ फल्गुनस्यामितौजसः ।
यत्किं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः ॥ ३.४०.२५ ॥

于是,三眼神触摸了无量威力的法尔古那,三眼神允许他:“去吧。”阿周那便得到了许可。

3.40.26

स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः ।
प्रणम्य शिरसा राजन्प्राञ्जलिर्भवमैक्षत । ॥ ३.४०.२६ ॥

三眼神允许他:“去天界吧。”阿周那便低首致礼,大王,他合掌仰望婆婆(湿婆)。

3.40.27

ततः प्रभुस्त्रिदिवनिवासिनां वसी ।
महामतिर्गिरिश उमापतिः शिवः।
धनुर्महद्दितिजपिशाचसूदनं ।
ददौ भवः पुरुषवराय गाण्डिवम् ॥ ३.४०.२७ ॥

于是,天界居民之主、克己者、大智慧者、山主、乌玛之夫湿婆婆,将能诛灭檀那婆与毕舍遮的大弓甘狄拔赐给了人中之雄。

3.40.28

ततः शुभं गिरिवरमीश्वरस्तदा ।
सहोमयाऽसिततटसानुकन्दरम्।
विहाय तं पतगमहर्षिसेवितं ।
जगाम स्वं पुरुषवरस्य पश्यतः ॥ ३.४०.२८ ॥

于是,主宰者与乌玛一同离开了那座吉祥的山中之王(有着黑色山坡、峰峦与洞穴),也离开了为大仙所侍奉的那片天域,当人中之雄注视着他时,他返回了自己的居所。