摩诃婆罗多 · 章 3.41
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.41.1
तस्य संपश्यतस्त्वेव पिनाकी गोवृषध्वजः ।
जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान् ॥ ३.४१.१ ॥
就在他注视之际,持皮纳卡弓、以公牛为旗的神明消失不见了,如同太阳落下,离开了世界。
3.41.2
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा ।
मया साक्षान्महादेवो दृष्ट इत्येव भारत ॥ ३.४१.२ ॥
于是,斩杀敌方英雄的阿周那大为惊异,心想:“我亲眼见到了大天神。”婆罗多啊。
3.41.3
धन्योस्म्यनुगृहीतोस्मि यन्मया त्र्यम्बको हरः ।
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्ट पाणिना ॥ ३.४१.३ ॥
我何其有幸,蒙受恩典,因为我见到了三眼的诃罗,持皮纳卡弓、赐予恩惠、显现形体的神明,我甚至用手触摸了他。
3.41.4
कृतार्थं चावगच्छामि परमात्मानमात्मना ।
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ॥ ३.४१.४ ॥
我自知已经圆满成就,自觉已成至上之我;所有敌人都已被征服,目的已经达成。
3.41.5
इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः ।
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः।
यादोगणवृतः श्रीमानाजगाम जलेश्वरः ॥ ३.४१.५ ॥
当这位光辉无限的般度之子如此思忖时,那光彩夺目的水神降临了,他如青金石般的光辉照亮四方,被众多水族环绕。
3.41.6
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैर्मरुद्गणैः ।
वरुणो यादसांभर्ता वशी तं देशमागमत् ॥ ३.४१.६ ॥
水族之主、自制的伐楼那,偕同诸龙、诸河(阳性与阴性)、达提亚、萨地亚与摩录多群,来到了那个地方。
3.41.7
अथ जाम्बूनदवपुर्विमानेन महार्चिषा ।
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ॥ ३.४१.७ ॥
此时,金身的主神俱毗罗乘着光芒万丈的天车,在夜叉们的簇拥下来到了那里。
3.41.8
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः ।
धनानामधिपः श्रीमानर्जुनं द्रष्टुमागतः ॥ ३.४१.८ ॥
照亮天空,容貌奇妙,荣耀的财神前来拜见阿周那。
3.41.9
तथा लोकान्तकः श्रीमान्यमः साक्षात्प्रतापवान् ।
मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ॥ ३.४१.९ ॥
同样,毁灭世界的吉祥而威严的阎摩亲自到来,与身具人形、护持世界的祖灵们同行。
3.41.10
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् ।
वैवस्वतो धर्मराजो विमानेनावभासयन् ॥ ३.४१.१० ॥
手持刑杖、本性不可思议、毁灭一切众生的毗婆娑之子法王阎摩,以其天车照亮而来。
3.41.11
त्रील्लोकान्गुह्यकांश्चैव गन्धर्वाश्चैव पन्नगान् ।
द्वितीय इव मार्ताण्डो युगान्ते समुपस्थिते ॥ ३.४१.११ ॥
当劫末来临时,他仿佛第二个太阳,照亮三界、guhyaka、干达婆与蛇众。
3.41.12
भानुमन्ति विचित्राणि शिखराणि महागिरेः ।
समास्थायार्जुनं तत्रददृशुस्तपसान्वितम् ॥ ३.४१.१२ ॥
他们立于大山那光辉而奇妙的峰顶之上,在那里看见了正沉浸于苦行的阿周那。
3.41.13
ततो मुहूर्ताद्भगवानैरावतशिरोगतः ।
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ॥ ३.४१.१३ ॥
片刻之后,坐在爱罗婆多头上的世尊因陀罗与因陀罗尼一同到来,被诸天众所环绕。
3.41.14
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुशुभे नागराजस्थः सितमभ्रमिव स्थितः ॥ ३.४१.१४ ॥
头顶撑着白伞,立于象王之上,他光辉闪耀,仿佛立于白云之上。
3.41.15
संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः ।
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ॥ ३.४१.१५ ॥
受到乾闼婆和以苦行为财富的仙人赞颂,他抵达山峰,站立如初升的太阳。
3.41.16
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् ।
यमऋ परमधर्मज्ञो दक्षिणां दिशमास्थितः ॥ ३.४१.१६ ॥
于是,声如雷鸣、智慧、通晓至高法的阎摩立于南方,说出了吉祥之言。
3.41.17
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् ।
दृष्टिं ते वितरामोऽद्य भवानर्हति दर्शनम् ॥ ३.४१.१७ ॥
阿周那,阿周那!看看我们这些聚集于此的世界守护者。今日我们赐予你神眼;你配得上见到我们。
3.41.18
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः ।
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ॥ ३.४१.१८ ॥
你是无量自性的古仙,名叫那罗的大力者;亲爱的,你奉梵天之命降生为凡人。
3.41.19
त्वया च वसुसंभूतो महावीर्यः पितामहः ।
भीष्मः परमधर्मात्मा जेतव्यश्च रणेऽनघ ॥ ३.४१.१९ ॥
你还须在战场上战胜祖父毗湿摩——他出生于婆苏神族,威力巨大,至上地具有正法之心,无罪之人啊。
3.41.20
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् ।
निवातकवचाश्चैव संसाध्याः कुरुनन्दन ॥ ३.४१.२० ॥
还有那由婆罗堕阇之子守护、触之如火的刹帝利群体,以及尼婆多迦婆查,你须加以制服,库卢族的欢喜啊。
3.41.21
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः ।
कर्णश्व सुमहावीर्यस्त्वया वध्यो धनंजय ॥ ३.४१.२१ ॥
还有迦尔纳——我父的一部分,那照耀并灼烧一切世界的神明之子,大勇士,你须杀死他,财富征服者啊。
3.41.22
अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् ।
त्वया निपातिता युद्धेस्वकर्मफलनिर्जिताम्।
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ॥ ३.४१.२२ ॥
那些降临大地的诸神、乾闼婆与罗刹之分身,将被你在战场上击倒,因自身业果而败亡,各自获得应得的归宿,贡蒂之子,制敌者啊。
3.41.23
अक्षया तव कीर्तिश्च लोके स्थासय्ति फल्गुन ।
त्वया साक्षान्महादेवस्तोषितो हि महामृधे ॥ ३.४१.२३ ॥
你不灭的名声将永存于世,法尔古那啊;因为在那场大战中,你亲自使大天神欢喜了。
3.41.24
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ॥ ३.४१.२४ ॥
与毗湿奴一道,大地的重负应当得到减轻。
3.41.25
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् ।
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ॥ ३.४१.२५ ॥
噢,大臂者,请接受这件名为杖(daṇḍa)的兵器,它无法抵挡。借此兵器,你必将成就极大的功业。
3.41.26
प्रतिजग्राह पार्थोपि विधिवत्कुरुनन्दनः ।
समन्त्रं सोपरोधं च समोक्षविनिवर्तनम् ॥ ३.४१.२६ ॥
俱卢族的欢喜者般度之子(Pārtha)也依礼受之,连同其咒语、其制止之法,以及释放与收回之法。
3.41.27
ततो जलधरश्यामो वरुणो यादसांपतिः ।
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ॥ ३.४१.२७ ॥
于是,如雨云般黝黑的、水族之主的世尊伐楼那面向西方,开口说话。
3.41.28
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः ।
पश्य मां पृथुताम्राक्ष वरुणोस्मि जलेश्वरः ॥ ३.४१.२८ ॥
噢,般度之子,武士中的翘楚,你安立于刹帝利的本分之中。噢,宽眼赤目者,看着我吧——我是伐楼那,水之主。
3.41.29
मया समुद्यतान्पाशान्वारुणाननिवारितान् ।
प्रतिगृह्णीष्व कौन्तेय सहरहस्यनिवर्तनान् ॥ ३.४१.२९ ॥
噢,贡蒂之子,请接受我举起的、伐楼那所属的、无法阻挡的绳索,连同收回它们的秘法。
3.41.30
एभिस्तदा मया वीर संग्रामे तारकामये ।
दैतेयानां सहस्राणि संयतानि महात्मनाम् ॥ ३.४१.३० ॥
噢,英雄,正是借此,我曾在名为塔拉卡的那场大战中,制服了数千名伟大灵魂的提提亚(达伊提亚)。
3.41.31
तस्मादिमान्महासत्व मत्प्रसादसमुत्थितान् ।
गृहाण न हि ते मुच्येदन्तकोप्याततायिनः ॥ ३.४१.३१ ॥
因此,大力者啊,接受这些由我恩典所生的(武器)吧。即便是死神,也不会使你脱离侵略者的伤害。
3.41.32
अनेन त्वं यदाऽस्त्रेण संग्रामे विचरिष्यसि ।
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ॥ ३.४१.३२ ॥
当你手持此武器在战场上驰骋之时,大地便将没有刹帝利,这毫无疑问。
3.41.33
ततस्तान्वारुणानस्त्रान्दिव्यानस्त्रविदांवरः ।
प्रतिजग्राह विधिवद्वरुणाद्वासविस्तदा ॥ ३.४१.३३ ॥
于是,精通武器者中的最优者依仪轨从伐楼那处接受了那些天界的伐楼那武器。
3.41.34
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभापत ।
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ॥ ३.४१.३४ ॥
于是,居住在凯拉萨山的财神开口说道,天界武器已由伐楼那与阎摩授予。
3.41.35
प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाहल ।
त्वया सह समागम्य अजितेन तथैव च ॥ ३.४१.३५ ॥
智者啊,般度之子,大臂者,我也因与你相会而对你感到欣悦,与阿吉多(湿婆)相会亦复如此。
3.41.36
सव्यसाचिन्महाबाहो पूर्वदेव सनातन ।
सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ॥ ३.४१.३६ ॥
萨维亚萨钦啊,大臂者,古神啊,永恒者啊,在往昔的劫中,你总是与我们一同疲惫。
3.41.37
दर्शनं ते त्विदं दिव्यं प्रदिशामि नरर्षभ ।
अमानुषान्महाबाहो दुर्जयानपि जेष्यसि ॥ ३.४१.३७ ॥
人中之牛啊,我将此神圣的景象赐予你。大臂者啊,你将战胜非人与难以征服者。
3.41.38
मत्तश्चैव भवानाशु गृह्णात्वस्त्रमनुत्तमम् ।
अनेन त्वमनीकानि धार्तराष्ट्रस्य धक्ष्यसि ॥ ३.४१.३८ ॥
你应迅速从我这里接受这最上的神兵。借此你将焚毁持国之子们的军队。
3.41.39
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं भम ।
ओजस्तेजोद्युतिकरं प्रस्वापनमरातिनुत् ॥ ३.४१.३९ ॥
你也从我这里接受名为安塔尔达那的心爱神兵,它增益力量与光辉,引人入睡,驱退敌人。
3.41.40
महात्मना शंकरेण त्रिपुरं निहतं यादा ।
तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः ॥ ३.४१.४० ॥
当大德的湿婆摧毁三城时,正是释放了此神兵,大阿修罗们因而被焚烧。
3.41.41
त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम ।
त्वमर्हो धारणे चास्य मेरुप्रतिमगौरव। ॥ ३.४१.४१ ॥
为了你,我举起了此神兵。你配得上执持它,啊,真正勇武者,你的尊严如同须弥山。
3.41.42
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः ।
कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः ॥ ३.४१.४२ ॥
于是大臂的俱卢之喜悦阿周那依法接受了俱毗罗的神兵;他力量强大。
3.41.43
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् ।
सान्त्वयञ्श्लक्ष्णयावाचादिव्यदुन्दुभिनिःस्वनः ॥ ३.४१.४३ ॥
于是众神之王以如天鼓之声的嗓音,用温和的话语安慰那位不知疲倦之人帕尔塔,对他说道。
3.41.44
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः ।
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ॥ ३.४१.४४ ॥
孔提之子,大臂者啊!你是古老的主宰;已获得至上成就,你直接达到了诸神的境界。
3.41.45
देवकार्यं तु सुमहत्त्वया कार्यमरिंदम ।
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ॥ ३.४१.४५ ॥
降伏敌人者啊!诸神的一件极大任务须由你来完成;你应当升往天界。大光明者啊,准备好吧。
3.41.46
रथो मातलिसंयुक्त आगतस्त्वत्कृते मम ।
तत्र तेऽहंप्रदास्यामि सर्वाण्यस्त्राणि कौरव ॥ ३.४१.४६ ॥
与摩多梨相配的我的战车,为你而来;在那里我将把所有兵器赠予你,俱卢之子啊。
3.41.47
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि ।
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः ॥ ३.४१.४७ ॥
看到那些聚集在山顶的世界守护者,智慧的孔提之子达难遮耶充满了惊异。
3.41.48
ततोऽर्जुनो महातेजा लोकपालान्समागतान् ।
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ॥ ३.४१.४८ ॥
于是大光明的阿周那依礼以言语、水和果实供养了聚集而来的世界守护者。
3.41.49
ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम् ।
यथागतेन विबुधाः सर्वे कामं मनोजवाः ॥ ३.४१.४९ ॥
于是诸神向达难摩耶致敬之后,各自沿着来时的路返回,如意念般迅捷,随心所欲。
3.41.50
ततो ऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्पभः ।
कृतार्थमथ चात्मानं स मेने पूर्णमानसम् ॥ ३.४१.५० ॥
于是获得神兵的人中雄牛阿周那心生欢喜,认为自己已成就所愿,心满意足。