摩诃婆罗多 · 章 3.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.42.1
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः ।
चिन्तयामास राजेन्द्र देवराजरथागमम् ॥ ३.४२.१ ॥
噢,諸王之主!諸世界護衛離去後,摧毀敵人的帕爾塔思惟因陀羅戰車的到來。
3.42.2
तस्य चिन्तयमानस्य गुडाकेशस्य धीमतः ।
रथो मातलिसंयुक्त आजगाम महाप्रभः ॥ ३.४२.२ ॥
智慧的古達克舍(阿周那)正在思索時,由摩多梨駕馭的大光明戰車來到了。
3.42.3
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव ।
दिशः संपूरयन्नादैर्महामेघरवोपमैः। ॥ ३.४२.३ ॥
使天空不再昏暗,仿佛撕裂雲層,以如大雷雲咆哮般的聲音充滿四方。
3.42.4
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः ।
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ॥ ३.४२.४ ॥
可怖的劍、矛與鐵棒,形象猛烈;具神力的長槍,以及大光明的閃電。
3.42.5
तथैवाशनयश्चैव चक्रयुक्तास्तुलागुडाः ।
वायुस्फोटाः सनिर्घाताः शङ्खमेघस्वनास्तथा ॥ ३.४२.५ ॥
同樣,裝有圓盤的霹靂,以及如秤砣般的圓球;狂風爆裂與轟擊,聲如法螺與雲層。
3.42.6
तत्रनागा महाकाया ज्वलितास्याः सुदारुणाः ।
सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ॥ ३.४२.६ ॥
那裡有身軀巨大、口噴烈焰、極其可怖的蛇,形如白色雲峰,聚集如岩石。
3.42.7
दशवाजिसहस्राणि हरीणां वातरंहसाम् ।
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ॥ ३.४२.७ ॥
一万匹迅如疾风的哈利骏马拉着那辆由幻术造成、耀人双目的神车。
3.42.8
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् ।
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ॥ ३.४२.८ ॥
他在那里看见了伐闍衍多旗,极为深蓝而光辉璀璨,色黑如青莲,旗杆饰以黄金。
3.42.9
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् ।
दृष्ट्वा पार्थो महाबाहुर्देवराजमतर्कयत् ॥ ३.४२.९ ॥
普利塔之子(阿周那)见那车上站着一位以精金装饰的御者,这位大臂者推测那是诸神之王。
3.42.10
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः ।
सन्नतः प्रस्थितो भूत्वा वाक्यमर्जुनमब्रवीत् ॥ ३.४२.१० ॥
法尔古那(阿周那)正这样推测时,摩多梨躬身上前,对阿周那说了这些话。
3.42.11
भोभो शक्रात्मज श्रीमञ्शक्रस्त्वां द्रष्टुमिच्छति ।
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संभतम् ॥ ३.४२.११ ॥
啊,帝释之子,尊贵者!帝释想见你。请你速登已备好的因陀罗神车。
3.42.12
आह माममरश्रेष्ठः पिता तव शतक्रतुः ।
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः ॥ ३.४२.१२ ॥
你的父亲,诸神中最优秀的百祭(帝释)对我说:“贡蒂之子已来到此处,愿天界居民都来瞻仰。”
3.42.13
एष शक्रः परिवृतो देवैर्ऋषिगणैस्तथा ।
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ॥ ३.४२.१३ ॥
此处因陀罗被诸神、诸仙众、乾闼婆与阿普萨拉斯环绕,渴望见到你,正在等待。
3.42.14
अस्माल्लोकाद्देवलोकं पाकशासनशासनात् ।
मारोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ॥ ३.४२.१४ ॥
从此世界出发,遵循杀死帕卡者因陀罗的命令,与我一同升往神界;获得武器后,你将再次归来。
3.42.15
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् ।
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ॥ ३.४२.१५ ॥
摩多利啊,快去;登上那辆殊胜的战车,即使举行数百次王祭与马祭也难以获得。
3.42.16
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः ।
दैवतैर्वा दुरारोहं दानवैर्वा रथोत्तमम् ॥ ३.४२.१६ ॥
即使是有大福的、行祭并施以丰厚布施的君王,或诸神、或檀那婆,也难以登上那辆殊胜的战车。
3.42.17
नातप्ततपसा शक्य एष दिव्यो महारथः ।
द्रष्टुं वाऽप्यथवा स्प्रष्टुमारोढुं कुत एव च ॥ ३.४२.१७ ॥
未曾苦修的人,无法见到、触摸或登上这辆神圣的大战车;又怎能做到呢?
3.42.18
त्वयि मतिष्ठिते साधो रथस्थे स्थिरवाजिनि ।
पश्चादहमथारोक्ष्ये मुकृती सत्पथं यथा ॥ ३.४२.१८ ॥
善人啊,待你心意坚定、站在驾着稳健骏马的战车上后,我再随后登上,犹如有福之人踏上善道。
3.42.19
तस्यतद्वचनं श्रुत्वा मातलिः शक्रसारथिः ।
आरुरोह रथं शीघ्रं हयाञ्जग्राह रश्मिभिः ॥ ३.४२.१९ ॥
摩多梨(释迦之御者)听了他的话,迅速登上战车,用缰绳勒住了马。
3.42.20
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः ।
जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ॥ ३.४२.२० ॥
随后,俱卢之乐、昆蒂之子阿周那心中欢喜,在恒河中沐浴,洁净自身,并依仪轨诵念应诵的咒语。
3.42.21
ततः पितृन्यथान्यायं तर्पयित्वा यथाविधि ।
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ॥ ३.४२.२१ ॥
随后,他依仪轨向祖先献上供水,便开始向群山之王曼陀罗山告别。
3.42.22
साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणाम् ।
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ॥ ३.४२.२२ ॥
山啊,你始终是善人、德行高尚的圣者、行善积德之人,以及渴望天界之路的人的依托。
3.42.23
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः ।
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ॥ ३.४२.२३ ॥
山啊,凭你的恩惠,婆罗门、刹帝利和吠舍都得以升天,与诸神一同无忧地往来。
3.42.24
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् ।
गच्छाम्यामन्त्रयित्वा त्वां सुखमस्म्युषितस्त्वयि ॥ ३.४२.२४ ॥
群山之王、大山啊,圣者的依托,充满圣地的你,我向你告别而去;我在你这里过得很快乐。
3.42.25
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च ।
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ॥ ३.४२.२५ ॥
你的山峰、林谷、河流、泉水和极其神圣的圣地,我已多次见过。
3.42.26
सुसुगन्धाश्च वैर्योघास्त्वच्छरीरविनिःसृताः ।
अमृतास्वादसृशाः पीताः प्रस्रवणोदकाः ॥ ३.४२.२६ ॥
从你身体流出的极其芬芳、如青金石般的水流;那泉水的滋味如甘露,我曾饮用。
3.42.27
शिशुर्यथा पितुश्चाङ्के सुखं शेते तटे तथा ।
मया तवाङ्के ललितं शैलराज महाप्रभो ॥ ३.४२.२७ ॥
如孩童安睡于父亲膝上或岸边,我也在你的怀中安然躺卧,山王啊,伟大的主啊。
3.42.28
अप्सरोगणसंकीर्णए ब्रह्मघोषानुनादिते ।
सुखमस्म्युषितः शैल तव सानुषु नित्यदा ॥ ३.४२.२८ ॥
此山充满天界仙女群,回响着梵咒之声,山啊,我一直在你的山坡上安乐居住。
3.42.29
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा ।
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ॥ ३.४२.२९ ॥
说完这些,灭敌英雄阿周那向山辞别,登上神车,光辉如同太阳。
3.42.30
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा ।
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ॥ ३.४२.३० ॥
那辆形如太阳、行事奇妙的神车载着这位明智的俱卢之喜悦者,欢欣地升向高空。
3.42.31
सोऽदर्शनपथं यातो मर्त्यानां धर्मचारिणाम् ।
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ॥ ३.४२.३१ ॥
他越过遵行法的凡人视线而去,看见了成千上万形状奇妙的天车。
3.42.32
न तत्र सूर्यः सोमो वा द्योतते न च पावकः ।
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ॥ ३.४२.३२ ॥
那里太阳、月亮和火都不发光;他们凭借功德所得的自身光辉,在那里闪耀。
3.42.33
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै ।
आकाशे विप्रकृष्टत्वात्तनूनि सुमहान्त्यपि ॥ ३.४२.३३ ॥
从此处所见如星辰般闪耀的形体,因在天空中极为遥远而显得微小,其实它们非常巨大。
3.42.34
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः ।
ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयाऽर्चिषा ॥ ३.४२.३४ ॥
在那里,般度之子看见那些光芒四射、形貌美好的居所,每一处都在自己的位置上以自身的火焰闪耀。
3.42.35
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि ।
तपसा च जितं स्वर्गं संपेतुः शतसङ्घशः ॥ ३.४२.३५ ॥
那里,王仙、成就者,以及战死沙场的英雄,凭苦行所赢得的天界中,成百上千群地聚集着。
3.42.36
गन्धर्वाणां सहस्राणि मूर्यज्वलिततेजसाम् ।
गुह्यकारनामृषीणां च तथैवाप्सरसां गणान् ॥ ३.४२.३६ ॥
那里有成千上万的乾闼婆,其光辉如太阳般燃烧,还有夜叉、仙人和阿普萨拉斯的群众。
3.42.37
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः ।
पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ॥ ३.४२.३७ ॥
法尔古那见到那些以自身光明照耀的世界,心中充满惊叹,便满怀敬意地问摩多梨;摩多梨也对他说了话。
3.42.38
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः ।
तान्दृष्टवानसि विभो तारारूपाणि भूतले ॥ ३.४२.३८ ॥
普利塔之子啊,这些行善之人各居其所;伟大者啊,你曾在大地上见到他们化为星辰的形象。
3.42.39
ततोऽपश्यत्स्थितं द्वारि मत्तं विजयिनं गजम् ।
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ॥ ३.४२.३९ ॥
随后他看见门前站立着一头发情、得胜的象——四牙的爱罗婆多,犹如有峰峦的凯拉萨山。
3.42.40
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः ।
व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः ॥ ३.४२.४० ॥
他穿过成就者之路,作为库鲁与般度族中最杰出者,如往昔一般光辉闪耀,恰如诸王中最杰出的摩哂陀多。
3.42.41
अभिचक्राम लोकान्स राज्ञां राजीवलोचनः ॥ ३.४२.४१ ॥
莲花眼的他穿过了诸王的世界。
3.42.42
एवं स संक्रमंस्तत्र स्वर्गलोके महायशाः ।
ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ॥ ३.४२.४२ ॥
如此穿行于天界的那位大名者,于是看见了因陀罗的城市阿摩罗婆提。