摩诃婆罗多 · 章 3.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.43.1
ददर्श स पुरीं रम्यां सिद्धचारणसेविताम् ।
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ॥ ३.४३.१ ॥
他看到了那座美丽的城市,那里有悉陀和遮罗那往来,装饰着四季的圣洁花木。
3.43.2
तत्र सौगन्धिकानां च पुष्पाणां पुण्यगन्धिनाम् ।
उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ॥ ३.४३.२ ॥
那里,他被混合着悉光迦莲花与其他圣花芳香的微风轻轻吹拂。
3.43.3
नन्दनं च वनं दिव्यमप्सरोगणसेवितम् ।
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ॥ ३.४३.३ ॥
他看到了神圣的难陀园林,那里有天女群游,开着天界之花的树木仿佛在呼唤他。
3.43.4
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना ।
स लोकः पुण्यकर्तॄणां नापि युद्धे पराङ्युखैः ॥ ३.४३.४ ॥
未曾苦行、未曾设立圣火的人,不能见到那福德之人的世界;临阵退缩者也不能。
3.43.5
नायज्वभिर्नाव्रतिकैर्न वेदश्रुतिवर्जितैः ।
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ॥ ३.४३.५ ॥
不祭祀的人、不持戒的人、不通晓吠陀闻教的人、在圣渡口以种种方式沐浴却被排斥于祭祀与布施之外的人,都不能见到那世界。
3.43.6
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन ।
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ॥ ३.४३.६ ॥
破坏祭祀者、卑劣之人、饮酒者、玷污师长之床者、食肉者或心术不正之人,都无论如何不能见到它。
3.43.7
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् ।
प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ॥ ३.४३.७ ॥
他看见那片回荡着天界歌声的神圣森林,这位大臂者走进了因陀罗心爱的城市。
3.43.8
तत्र देवविमानानि कामगानि सहस्रशः ।
संस्थितान्यभियातानि ददर्शायुतशस्तदा ॥ ३.४३.८ ॥
他在那里看见成千上万、乃至数万的天神飞车,随意而行,有的停驻,有的正在靠近。
3.43.9
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः ।
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ॥ ३.४३.९ ॥
受到乾闼婆与阿普萨拉斯的赞颂,般度之子被携带花香的清净微风吹拂。
3.43.10
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम् ॥ ३.४३.१० ॥
于是诸神与乾闼婆、悉陀及大仙欢喜地隆重礼敬这位行事无劳的普利塔之子。
3.43.11
आसीर्वादैः स्तूयमानो दिव्यवादित्रनिःस्वनैः ।
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ॥ ३.४३.११ ॥
在祝福的赞颂与天界乐器的声响中,这位大臂者踏上了响彻海螺与鼓声的道路。
3.43.12
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् ।
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ॥ ३.४३.१२ ॥
依因陀罗之命,普利塔之子沿着名为星路、以诸神之道闻名的广阔道路前行,四面皆受赞颂。
3.43.13
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनौ तथा ।
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ॥ ३.४३.१३ ॥
那里有萨陀耶神、毗湿婆天神、摩卢特神、双阿湿婆神、阿ditya神、婆苏神、楼陀罗神,以及纯净的梵仙。
3.43.14
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः ।
तम्बुरुर्नारदश्चैव गन्धर्वौ च हाहा हूहूः ॥ ३.४३.१४ ॥
还有以狄利普为首的众多王仙与国王,以及檀武鲁、那罗陀,和两位乾达婆哈哈与胡胡。
3.43.15
तान्स सर्वान्समागम्य विधिवत्कुरुनन्दनः ।
ततोऽपश्यद्देवराजं शतक्रतुमरिंदमः ॥ ३.४३.१५ ॥
库鲁之喜的阿周那依礼走近他们所有人,然后看见了诸神之王、百祭者因陀罗,那位降伏敌人者。
3.43.16
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् ।
ददर्श साक्षाद्देवेशं पितरं पाकशासनम् ॥ ३.४३.१६ ॥
于是大臂的贡蒂之子从上好的战车上下来,亲眼看见了诸神之主、他的父亲、杀死波迦的因陀罗。
3.43.17
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा ।
दिव्यगन्धाधिवासेन व्यजनेन विधूयता ॥ ३.४३.१७ ॥
他撑着白色华盖,金柄美丽,散发着天界香气,还有人挥动拂尘。
3.43.18
विश्वावसुप्रभृतिनिर्गन्धर्वैः स्तुतिवन्दिभिः ।
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ॥ ३.४३.१८ ॥
他被以毗湿伐苏为首的乾达婆、赞颂的歌者,以及最优秀的再生者,用《梨俱》《夜柔》《娑摩》三部吠陀的赞歌所颂扬。
3.43.19
ततोऽभिगम्य कौन्तेयः शिरसाऽभ्यगमद्बली ।
स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृह्णत ॥ ३.४३.१९ ॥
于是力大的昆提之子走近,低头致敬;他以圆润丰满的双臂接纳了他。
3.43.20
ततः शक्रासने पुण्ये देवर्षिगणसेविते ।
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ॥ ३.४३.२० ॥
随后,在为诸天神仙所侍奉的神圣因陀罗宝座上,因陀罗握住他的手,让他坐在自己身旁。
3.43.21
मूर्धि चैनमुपाघ्राय देवेन्द्रः परवीरहा ।
अङ्कमारोपयामास प्रश्रयावनतं तदा ॥ ३.४३.२१ ॥
于是杀敌英雄的天帝嗅其头顶,将谦逊俯首的他抱上膝头。
3.43.22
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा ।
आरुरुक्षुरमेयात्मा द्वितीय इववासवः ॥ ३.४३.२२ ॥
奉千眼神之命,无量心的帕尔塔此时欲登上因陀罗宝座,仿佛第二个婆薮。
3.43.23
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् ।
पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ॥ ३.४३.२३ ॥
于是伐腾罗的敌人因陀罗以充满神圣香气的手,深情地抚摸阿周那美丽的面容,安慰他。
3.43.24
प्रमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ ।
ज्याशरक्षेपकिनौ स्तम्भाविव हिरण्मयौ ॥ ३.४३.२४ ॥
轻轻抚摸他修长美丽的双臂,那双臂擅长拉弓射箭,如同金柱。
3.43.25
वज्रग्रहणचिह्नेन करेण परिसान्त्वयन् ।
मुहुर्मुहुर्वज्रधरो बाहू चास्फोटयञ्शनैः ॥ ३.४३.२५ ॥
以握持金刚杵留下印记的手轻声安慰他,持金刚者一次又一次地慢慢拍打他的双臂。
3.43.26
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् ।
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ॥ ३.४३.२६ ॥
仿佛微笑着凝视古达刻沙,千眼的斩杀弗栗多者,因喜悦而睁大双眼,仍不知满足。
3.43.27
एकासनोपविष्टौ तौ शोभयांसचक्रतुः सभाम् ।
सूर्याचन्द्रमसौ व्योम चतुर्दश्यामिवोदितौ ॥ ३.४३.२७ ॥
二人同坐一座,装点着议事厅,如同第十四日天空中同时升起的日月。
3.43.28
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना ।
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ॥ ३.४३.२८ ॥
那里,以覆卢为首的乾闼婆们精于歌唱与娑摩吟诵,以极其悦耳的娑摩曲调歌唱故事。
3.43.29
घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा ।
उर्वशी मिश्रकेशी च दण्डगौरी वरूथीनि ॥ ३.४३.२९ ॥
酥陀奇、梅那卡、兰跋、普尔瓦奇提、自光、优婆湿、弥室罗开西、丹达高黎及婆鲁提尼(天女)。
3.43.30
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा ।
चित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥ ३.४३.३० ॥
牧女、俱生、瓶生、警醒、彩军、彩画、忍及甘音(天女)。
3.43.31
एताश्चान्याश्च ननृतुस्तत्रतत्र शुचिस्मिताः ।
चत्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ॥ ३.४३.३१ ॥
其他同样面带纯净微笑、眼如莲花的天女也在处处起舞,致力于扰动悉陀们的心。
3.43.32
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः ।
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहरैः ॥ ३.४३.३२ ॥
臀部宽阔、腰束璎珞,胸脯颤动,以斜视与娇媚姿态的甜美,夺走心、智与意。
3.43.33
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् ।
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥ ३.४३.३३ ॥
于是诸天与乾闼婆取上好的迎宾供物,知晓因陀罗之意,即刻礼敬普利塔之子阿周那。
3.43.34
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् ।
प्रवेशयामासुरथो पुरंदरनिवेशनम् ॥ ३.४३.३४ ॥
让王子接受洗足水与漱口水之后,他们便将他引入补罗檀陀罗(因陀罗)的宫殿。
3.43.35
एवं संपूजितो जिष्णुरुवास भवने पितुः ।
उपशिक्षन्महास्राणि ससंहाराणि पाण्डवः ॥ ३.४३.३५ ॥
如此受到礼遇的胜利者般度子住在父亲的宫中,学习大武器及其收回之法。
3.43.36
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं च दुःसहम् ।
अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥ ३.४३.३६ ॥
从因陀罗手中(获得)心爱的金刚杵与难以承受的武器,以及具有云与孔雀之相、雷鸣巨大的霹雳。
3.43.37
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः ।
पुरंदरनियोगाच्च पञ्चाब्दानवसत्सुखी ॥ ३.४३.३७ ॥
持武器的昆提之子般度族人想起了兄弟们;依因陀罗之命,他在那里快乐地住了五年。
3.43.38
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते ।
नृत्यं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥ ३.४३.३८ ॥
于是因陀罗对精通武器的帕尔塔说:“昆提之子,时机已到;你当从持明族的citrasena那里学习舞蹈和歌唱。”
3.43.39
वादित्रं देवविहितं नृलोके यन्न विद्यते ।
तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥ ३.४३.३९ ॥
“昆提之子,去获取神所造的乐器,那是人间所没有的;这对你必定吉祥。”
3.43.40
सखायं प्रददौ चास्य चित्रसेनं पुरंदरः ।
स तेन सह संगम्य रेमे पार्थो निरामयः ॥ ३.४३.४० ॥
因陀罗把持明族的citrasena作为他的朋友送给他;与他相会后,无病的帕尔塔欢喜快乐。
3.43.41
गीतवादित्रनृत्यानि भूय एवादिदेश ह ।
तथाऽपि नालभच्छर्म तरस्वी द्यूतकारितम् ॥ ३.४३.४१ ॥
他又教导歌唱、乐器与舞蹈;然而这位勇健的帕尔塔仍因赌博所致的痛苦而不得安宁。
3.43.42
दुःशासनवधामर्षी शकुनेः सौबलस्य च ।
ततस्तेनातुलां प्रीतिमुपागम्य क्वचित्क्वचित्।
गान्धऱ्वमतुलं नृत्यं वादित्रं चोपलब्धवान् ॥ ३.४३.४२ ॥
他因杜沙萨那之死以及苏跋罗之子沙恭尼的过错而愤怒;之后借由他得到无比的喜悦,于是时而学习了持明式的无比舞蹈与乐器。
3.43.43
स शिक्षितो नृत्यगुणाननेका-
न्वादित्रगीतार्थगुणांश्च सर्वान्।
न शर्ण लेभे परवीरहन्ता ।
भ्रातॄन्स्मरन्मातरं चैव कुन्तीम् ॥ ३.४३.४३ ॥
虽然他学习了舞蹈的诸多技艺,以及乐器与歌唱的一切意义与妙处,这位杀敌英雄却得不到安宁,他时时想念兄弟们和母亲昆蒂。