Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.46

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.46.1

अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः ।
धृतराष्ट्रो महातेजाः श्रुत्वा तत्र किमब्रवीत् ॥ ३.४६.१ ॥

无量光明的般度之子阿周那的这一功业何等奇妙。大光明的持国王听闻后,在那里说了什么?

3.46.2

शक्रलोकगतं पार्थं श्रुत्वा राजाऽम्बिकासुतः ।
द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत् ॥ ३.४६.२ ॥

国王——安必迦之子听闻般度之子已前往因陀罗界,便对从诸仙之首二黑仙处得知此事的桑遮耶说了这些话。

3.46.3

श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस् धीमतः ।
कच्चित्तवापि विदितं याथातथ्येन सारथे ॥ ३.४६.३ ॥

御者啊,我已完整听闻了智慧的般度之子的功业。御者,你是否也如实地知晓此事?

3.46.4

प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः ।
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥ ३.४६.४ ॥

我的儿子沉溺于世俗之乐,心智迟钝,决意行恶,极其愚昧,他将使大地走向毁灭。

3.46.5

यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः ।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः ॥ ३.४६.५ ॥

对于那言语永远真实、即使在私事上也如此的大德之人,若他的战士是财胜(阿周那),三界也可以归他所有。

3.46.6

अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् ।
नार्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥ ३.४६.६ ॥

当阿周那射出带倒钩的铁箭、箭头锐利并在石上磨过时,无人能立于他面前;即便超越衰老的死神,也不能立于他面前。

3.46.7

मम पुत्रा दुरात्मानः सर्वे मृत्युवशंगताः ।
येषां युद्धं दुराधर्षैः पाण्डवैः समुपस्थितम् ॥ ३.४६.७ ॥

我那些心怀恶念的儿子都已落入死亡之手;与不可战胜的般度五子的战争已降临到他们身上。

3.46.8

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः ।
अनिशं चिन्तयानोऽपि य एनमुदियाद्युधि ॥ ३.४६.८ ॥

在战场上,我看不到能与持甘地弓者相比的人;即便日夜思虑,也没有谁能站出来与他对抗。

3.46.9

द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे ।
महान्स्यात्संशयोलोके न तु पश्यामि नो जयम् ॥ ३.४६.९ ॥

即便德罗纳、迦尔纳,甚至毗湿摩在战场上与他相抗,世上也会有很大的疑虑;但我看不到我们的胜利。

3.46.10

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ।
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥ ३.४६.१० ॥

迦尔纳仁慈而疏忽;导师年迈,是尊贵的师长;帕尔沙不能容忍侮辱,强壮、激烈,且勇武坚定。

3.46.11

भवेत्सुतुमुलं युद्धं सर्वस्याप्यपराजितम् ।
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥ ३.४६.११ ॥

这场战斗将极为激烈,而任何一方都不会被击败;他们都是精通兵器的勇士,都已获得了巨大的声誉。

3.46.12

अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः ।
वधे नूनं भवेच्छान्तिरेतेषां फल्गुनस्य वा ॥ ३.४६.१२ ॥

战败者甚至不会渴望统治一切;必定只有在这些人或法尔古那被杀之时,才会有和平。

3.46.13

न तु हन्ताऽर्जुनस्यास्ति जेता वाऽस्य न विद्यते ।
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥ ३.४६.१३ ॥

然而无人能杀阿周那,也无人能胜他。他对愚人升起的愤怒,如何能够平息?

3.46.14

त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् ।
जिगा पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥ ३.४६.१४ ॥

这位与天神之主相等的英雄,在坎达瓦森林中满足了火神,并在伟大的王祭中征服了所有国王。

3.46.15

शेषं कुर्याद्गिरेर्वज्रो निपतन्मूर्ध्नि संजय ।
न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना ॥ ३.४६.१५ ॥

桑闪耶啊,雷电落在山顶,或许还会留下些许;但亲爱的,戴冠者所射出的箭,什么也不会留下。

3.46.16

यथा हि किरणा भानोस्तपन्तीह चराचरम् ।
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मत्सुतान् ॥ ३.४६.१६ ॥

正如太阳的光芒在此炙烤一切动与不动之物,同样,从帕尔特之臂射出的箭将炙烤我的儿子们。

3.46.17

अपि तद्रथघोषेण भयार्था सव्यसाचिनः ।
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥ ३.४६.१७ ॥

即便如此,这支婆罗多人的军队,因阿周那战车的轰鸣而惊恐,看上去从四面八方被撕裂了。

3.46.18

समुद्धरन्प्रवपंश्चैव बाणान् ।
स्ताताऽऽततायी समरे किरीटि।
सृष्टोऽन्तकः सर्वहरो विधात्रा ।
भवेद्यथा तद्वदवारणीयः ॥ ३.४६.१८ ॥

戴冠者在战场上拉满弓,抽出并散射箭矢,便如造物主所创、夺去一切的死神一般,不可抵挡。

3.46.19

यदतत्कथितं राजंस्त्वया दुर्योधनं प्रति ।
सर्वमेतद्यथातत्त्वं नतु मिथ्या महीपते ॥ ३.४६.१९ ॥

大王啊,您对难敌所说的一切都如实无误,并非虚妄,哦,大地之主。

3.46.20

मन्युना हि समाविष्टाः पाण्डवास्त्वमितौजसः ।
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीं ॥ ३.४६.२० ॥

大王啊,无量威力的般度五子看到光荣的正妻黑公主被带入大殿,充满了愤怒。

3.46.21

दुःशासनस्य ता वाचः श्रुत्वा वै कटुकोदयाः ।
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥ ३.४६.२१ ॥

大王啊,听了难降和迦尔纳那些后果苦涩的话语,我认为他们将无法入睡。

3.46.22

श्रुतं हि ते महाराज यथा पार्थेन संयुगे ।
एकादशतनुः स्थाणुर्धेनुषा परितोषितः ॥ ३.४६.२२ ॥

大王啊,您一定听说过,普利塔之子在战斗中以弓箭使十一身的斯塔奴(湿婆)感到满意。

3.46.23

कैरातं वेषमास्थाय योधयामास फल्गुनम् ।
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ॥ ३.४६.२३ ॥

诸神之主、结发的世尊亲自,因欲一试,化作猎人(吉罗多)之形,与帕尔古那交战。

3.46.24

लेभे पाशुपतं चापि परमास्त्रं महाद्युतिः ।
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्।
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥ ३.४६.२४ ॥

那位大光明者也获得了名为帕舒帕塔的最高武器。在那里,世界守护者们向俱卢之牛阿周那显现,他曾以苦行为求取武器而奋力修行。

3.46.25

नैतदुत्सहते चान्यो लब्धुमन्यत्र फल्गुनात् ।
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ॥ ३.४६.२५ ॥

除了法尔固那,世上无人敢于亲自得见这些主宰。

3.46.26

महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् ।
कस्तमुत्सहते वीरो युद्धे जरयितुं पुमान् ॥ ३.४६.२६ ॥

大王啊,被摩醯首罗所攫取其形体、却未衰老之人,何勇士敢在战场上使其衰竭?

3.46.27

आसादितमिदं घोरं तुमुलं रोमहर्षणम् ।
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥ ३.४६.२७ ॥

这场可怖、喧嚣、令人毛骨悚然的灾祸,是那些拖拽德罗波蒂、激怒般度子孙的人所引来的。

3.46.28

यत्र विस्फुरमाणौष्ठो भीमः प्राह वचोऽर्थवत् ।
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥ ३.४६.२८ ॥

德罗波蒂展示双腿给难敌看时,怖军双唇颤抖,说出了意味深长的话。

3.46.29

ऊरुं भेत्स्यामि ते पाप गदया वज्रकल्पया ।
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ॥ ३.४६.२९ ॥

罪人啊!十三年期满之时,恶劣的赌徒,我将以如雷霆般的铁棒折断你的大腿。

3.46.30

सर्वे प्रहरतां श्रेष्ठाः सर्वेचामिततेजसः ।
सर्वेसर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ॥ ३.४६.३० ॥

他们皆是战士中的翘楚,光辉无量,通晓一切武器,即便诸天也极难战胜。

3.46.31

मन्ये मन्युसमुद्भूताः पुत्राणां तव संयुगे ।
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ॥ ३.४६.३१ ॥

我认为,由愤怒而生、充满勇力与愤慨的普利塔之子,将在战斗中结束你的儿子们。

3.46.32

किं कृतं सूत कर्णेन वदता परुषं वचः ।
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ॥ ३.४६.३२ ॥

御者啊,迦尔纳说了粗暴的话又做了什么?克利希那被带入议会,这已足以构成如此深的仇怨。

3.46.33

अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः ।
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ॥ ३.४६.३३ ॥

我这些愚笨的儿子现在还能立足吗?他们的长兄兼师长并不安于谦抑。

3.46.34

ममापि वचनं सूत न शुश्रूषति मन्दभाक् ।
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम् ॥ ३.४६.३४ ॥

御者啊,连我的话那不幸之人也不听,他看我失明、无所作为、毫无心智。

3.46.35

ये चास्य सचिवा मन्दाः कर्णसौबलकादयः ।
ते तस्य भूयसो दोषान्वर्धयन्ति विचेतसः ॥ ३.४६.३५ ॥

他那些愚蠢的谋臣,迦尔纳、萨乌巴拉等人,毫无见识,助长了他的重大过失。

3.46.36

स्वैरं मुक्ता ह्यपि शराः पार्थेनामिततेजसा ।
निर्दहेयुर्मम सुतान्किंपुनर्मन्युनेरिताः ॥ ३.४६.३६ ॥

即便是无量光辉的普利塔之子随意射出的箭,也会焚毁我的儿子们;何况是被愤怒驱使而发的箭呢!

3.46.37

पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः ।
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ॥ ३.४६.३७ ॥

由Pārtha臂力射出,自大弓发出,因神兵咒语而兴奋,它们甚至能杀死诸神。

3.46.38

यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः ।
हनिस्त्रैलोक्यनाथः स किंनु तस् न निर्जितम् ॥ ३.४६.३८ ॥

若其谋士、护卫与朋友是Janārdana本人——三界之主、毁灭者——那人又怎能不被征服?

3.46.39

इदं हि सुमहच्चित्रमर्जुनस्येह संजय ।
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ॥ ३.४६.३९ ॥

Sañjaya啊,此乃阿周那极其奇妙的事迹:听闻他以自己的双臂与大天神(Mahādeva)交战。

3.46.40

प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा ।
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ॥ ३.४६.४० ॥

往昔在Khāṇḍava林中,在一切世界眼前,Phalguna与Dāmodara共同为助火神(Agni)所作之事。

3.46.41

सर्वथा न हि मे पुत्राः सहामात्याः सबान्धवाः ।
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥ ३.४६.४१ ॥

当Pārtha、Bhīma、Vāsudeva与Sātvata震怒之时,我的儿子们、大臣们与亲族们绝无生还之理。