Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.47.1

यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने ।
प्रव्राज्यपाण्डवान्वीरान्सर्वमेतन्निर्रथकम् ॥ ३.४७.१ ॥

贤者啊,国王持国在放逐英雄般的般度之子后所悲叹的一切,都是徒劳无益的。

3.47.2

कथं च राजपुत्रं तमुपेक्षेताल्पचेतसम् ।
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ॥ ३.४७.२ ॥

那个心胸狭窄的王子难敌一直激怒般度的大车战士之子,他怎么会被置之不理?

3.47.3

किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् ।
वन्यं वाऽप्यवा कृष्टमेतदाख्यातु नो भवान् ॥ ३.४७.३ ॥

般度之子在森林中的食物是什么?请告诉我们:是野生的,还是种植的?请您告诉我们。

3.47.4

वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् ।
ब्राह्मणानां निवेद्याग्रमभुञ्जता महारथाः ॥ ३.४७.४ ॥

森林所出的食物,以及用纯净之箭射倒的鹿,大车战士们在把第一份献给婆罗门之后才食用。

3.47.5

तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने ।
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ॥ ३.४७.५ ॥

国王啊,婆罗门们跟随那些住在森林中的英勇大弓箭手,有的携带圣火,有的没有圣火。

3.47.6

ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् ।
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ॥ ३.४७.६ ॥

成千上万的大德沐浴者婆罗门,以及一万名知解解脱之人——这些人,坚战都供养着。

3.47.7

रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्मनोरमान् ।
बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत् ॥ ३.४७.७ ॥

他以各种箭射倒了 ruru 鹿、黑羚羊以及其他悦目、适于祭祀的动物,将它们奉献给婆罗门。

3.47.8

न तत्र कश्चिद्दुर्वर्णो व्याधितो वाऽपि दृश्यते ।
कृशो वा दुर्बलो वाऽपि दीनो भीतोपि वा पुनाः ॥ ३.४७.८ ॥

那里看不到面色不佳、患病、消瘦、虚弱、困苦或惊恐的人。

3.47.9

पुत्रानिव प्रियान्भ्रातॄन्ज्ञातीनिव सहोदरान् ।
पुरोष कौरवश्रेष्ठो धर्मेराजो युधिष्ठिरः। ॥ ३.४७.९ ॥

俱卢中最优秀的法王坚战,像珍爱的儿子、兄弟和同母的亲族一样照顾他们。

3.47.10

पतीश्च द्रौपदी सर्वाञ्द्विजातीश्च यशस्विनी ।
मातेव भोजयित्वाऽग्रे शिष्टमाहारयत्तदा ॥ ३.४७.१० ॥

名声显赫的黑公主如母亲一般,先供养丈夫们和所有婆罗门,然后才享用剩余的食物。

3.47.11

प्राचीं राजा दक्षिणां भीमसेनो ।
यमौ प्रतीचीमथवाऽप्युदीचीम्।
धनुर्धरा मांसहेतोर्मृगाणां ।
क्षयं चक्रुर्नित्यमेवोपगम्य ॥ ३.४७.११ ॥

国王向东,婆摩森向南,双生子向西或向北,手持弓箭,每天前去为了肉食而猎杀鹿群。

3.47.12

तथा तेषां कवसतां काम्यके वै ।
विहीनानामर्जुनेनोत्सुकानाम्।
पञ्चैव वर्षाणि तथा व्यतीयु-
रथीयतां जपतां जुह्वतां च ॥ ३.४७.१२ ॥

就这样,他们居住在迦密耶迦林中,失去了阿周那而心中渴望,在诵读、持咒与献祭中度过了五年。