Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.48

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.48.1

तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम् ।
चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः ॥ ३.४८.१ ॥

听闻他们超越凡人、令人惊叹的事迹,心被忧虑与悲伤所围绕,充满了愤怒,

3.48.2

दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः ।
अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ ॥ ३.४८.२ ॥

安毗迦之子持国长长地、炽热地叹息,呼唤御者散阇耶说:「婆罗多族的雄牛啊,

3.48.3

न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वैक्षणम् ।
संचिन्त्य दुर्णयं घोरमतीतं द्यूतजं हि तत् ॥ ३.४८.३ ॥

「御者啊,无论夜晚还是白天,我都找不到平静,每当我思量那由赌博而生的、可怕的、已逝的错误之时。」

3.48.4

तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम् ।
अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम् ॥ ३.४८.४ ॥

那些威力不可承受的兄弟的勇武、坚韧、至高的决心以及彼此的深情,都超越了凡人。

3.48.5

देवपुत्रौ महाभागौ देवराजसमद्युती ।
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥ ३.४८.५ ॥

两位神之子,大福德者,光辉与众神之王相等,即无种与偕天,二位般度之子,在战斗中狂傲奋勇。

3.48.6

दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ ।
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ रथे स्थितौ ॥ ३.४८.६ ॥

手持坚固武器,箭程远,决心坚定于战斗,手法敏捷,怒气坚定,时刻准备,站立于战车上的二人。

3.48.7

भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि ।
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ॥ ३.४८.७ ॥

当毗摩与阿周那站在战阵之首时,两位如狮般威猛、如双阿湿婆一般难以抵挡。

3.48.8

निःशेषमिह पश्यामि मम सैन्यस्य संजय ॥ ३.४८.८ ॥

桑闍耶啊,我在此看见我军的全面毁灭。

3.48.9

तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ ।
द्रौपद्यास्तं परिक्लेशं न क्षंस्येतेऽत्यमर्षिणौ ॥ ३.४८.९ ॥

这两位在战斗中无人能敌的车战勇士、神之子、大车将,极为愤怒,不会饶恕德罗波蒂所受的那场屈辱。

3.48.10

वृष्णयोऽथ महेष्वासाः पाञ्चाला वा महौजसः ।
युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः।
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥ ३.४८.१० ॥

毗湿尼的大弓箭手与强大的般遮罗人,受到信守誓言的婆苏提婆守护,普利塔之子将在战场上焚毁我诸子的军队。

3.48.11

रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन ।
न शक्यः सहितुं वेगः पर्वतैरपि दुःसहः ॥ ३.४८.११ ॥

御者之子啊,由罗摩与黑天率领的毗湿尼人之冲击无法抵挡;即便是群山也承受不住。

3.48.12

तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः ।
शैक्यया वीरघातिन्या गदया विचरिष्यति ॥ ३.४८.१२ ॥

其中,威猛异常的大弓手毗摩将执着能杀伤英雄的铁制大棒,纵横驰骋。

3.48.13

तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ ३.४८.१३ ॥

同样,他们无法承受甘狄拔弓如雷霆炸响的鸣声,也无法承受毗摩的铁杵之猛势,诸王啊。

3.48.14

ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः ।
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥ ३.४८.१४ ॥

于是我顺从难敌的意愿,将想起那些值得铭记的善友之言,那些我从前未曾采纳的劝告。

3.48.15

व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः ।
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥ ३.४८.१५ ॥

大王啊,这桩大罪被您忽视了:您本有能力,却因迷惑未能制止您的儿子。

3.48.16

श्रुत्वाऽयं निर्जितान्द्यूते पाण्डवान्मधुसूदनः ।
त्वरितः कामय्के पार्थान्समभावयदच्युतः ॥ ३.४८.१६ ॥

闻知般度五子在赌博中败北,不坏者摩豆苏陀那急忙向普利塔之子表达爱意,并加以安慰。

3.48.17

द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः ।
विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥ ३.४८.१७ ॥

德律波陀之子,以猛光为首;还有毗罗吒、坚相,以及大车战士甘哈耶人。

3.48.18

तैश्च यत्कथितं राजन्दृष्ट्वा पार्थान्पराजितान् ।
चारेण विदितं सर्वं तन्मया वेदितं च ते ॥ ३.४८.१८ ॥

大王啊,他们见般度之子战败后所说的一切,我都已通过密探得知,并已告诉您了。

3.48.19

समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः ।
सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥ ३.४८.१९ ॥

在那里与般度之子会合后,摩图苏登被选为战斗中法尔古那的御者。哈里对他们说:“就这样吧。”

3.48.20

अमर्षितो हि कृष्णोपि दृष्ट्वा पार्थांस्तदा गतान् ।
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥ ३.४८.२० ॥

那时,克里希那见般度之子身披黑羚羊皮作上衣离去,也十分愤怒,便对坚战说道。

3.48.21

या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह ।
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥ ३.४८.२१ ॥

般度之子在因陀罗普拉斯塔所拥有的那份繁荣,我在王祭中亲眼所见,那是其他国王极难达到的。

3.48.22

यत्रसर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् ।
सवङ्गाङ्गान्सपौण्ड्रौढ्रान्सचोलद्रविडान्ध्रकान् ॥ ३.४८.२२ ॥

在那里,所有国王都因兵器的光芒和两种恐惧而苦恼,包括湾伽人和安伽人、般德罗人和奥德罗人、朱罗人、达罗毗荼人和安达罗人。

3.48.23

सागरानूपकांश्चैव ये च पत्तनवासिनः ।
सिंहलान्बर्बरान्म्लेच्छान्ये च लङ्कानिवासिनः ॥ ३.४८.२३ ॥

海滨及沿海之民,以及居住在城镇与港口的人;僧伽罗人、蛮族人、弥列车人,以及居住在楞伽的人。

3.48.24

पश्चिमानि चराष्ट्राणि शतशः सागरान्तिकान् ।
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥ ३.४८.२४ ॥

西方数百个靠近大海的流动之国:帕拉瓦人、一切达罗人、吉罗多人、希腊人与塞种人。

3.48.25

हारहूणांश्च चीनांश्च तुषारान्सैन्धवांस्तथा ।
जागुडान्रामठान्मुण्डान्स्त्रीराज्यमथ तङ्गणान् ॥ ३.४८.२५ ॥

哈拉人与匈奴人、中国人、吐火罗人、信度人,以及遮古陀人、罗摩陀人、蒙陀人、女人之国和汤甘那人。

3.48.26

केकयान्मालवांश्चैव तथा काश्मीरकानपि ।
अद्राक्षमहमाहूतान्यज्ञे ते परिवेषकान् ॥ ३.४८.२६ ॥

我曾见到钦卡亚人、摩罗婆人,以及迦湿弥罗人,都受邀参加你的祭祀,充当侍food者。

3.48.27

सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी ।
आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥ ३.४८.२७ ॥

你那份被他们夺去的繁荣,是无常而会回转的;我将取他们的性命,把它重新带回来。

3.48.28

रामेण सह कौरव्य भीमार्जुनवयैस्तथा ।
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ॥ ३.४८.२८ ॥

啊,俱卢之子!与罗摩,与婆罗和阿周那及其同辈,与阿克鲁罗、伽陀和沙婆,以及与普拉占那和阿呼卡。

3.48.29

धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ।
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत।
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यति ॥ ३.४८.२९ ॥

与英雄德里什塔迪尤姆纳及尸舍补罗之子同心,在战场上杀死难敌之后,啊婆罗多,立即杀掉迦尔纳、难降、苏婆罗之子沙恭尼,以及其他任何与他们对抗的人。

3.48.30

ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् ।
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमां ॥ ३.४८.३० ॥

此后你将与兄弟们居住在象城,获得持国之子的王者福运,统治这片大地。

3.48.31

अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे ।
शृण्वत्स्वेतेषु वीरेषु धृष्टद्युम्नमुखेषु च ॥ ३.४८.३१ ॥

那时国王在这群英雄的集会中,当这些英雄以及以德里斯塔迪优姆那为首的人们聆听时,对他说道。

3.48.32

प्रतिगृह्णामि ते वाचमिमां सत्यां जनार्दन ।
अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥ ३.४८.३२ ॥

ジャナルダナよ、我はお前のこの真実の言葉を受け入れる。大いなる腕を持つ者よ、お前は私の敵をその従者ともども滅ぼすであろう。

3.48.33

वर्षात्रयोदशादूर्ध्वं सत्यं मां कुरु केशव ।
प्रतिज्ञातो वने वासो राज्ञांमध्ये मया ह्ययम् ॥ ३.४८.३३ ॥

克舍婆啊,十三年之后请让我的誓言成真。在诸王之中,我曾许下这林中居住的誓愿。

3.48.34

धर्मराजस्य वचनं प्रतिश्रुत्य सभासदः ।
धृष्टद्युम्नपुरोगास्ते समयामासुऱञ्जसा ॥ ३.४८.३४ ॥

听了法王的话,以德里斯塔迪优姆那为首的会众便欣然同意了。

3.48.35

केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ।
पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः ॥ ३.४८.३५ ॥

婆苏提婆倾听之时,他们以甜美得体的言辞对愤怒的克舍婆说话,并称般遮罗公主毫无瑕疵。

3.48.36

दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् ।
प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ॥ ३.४८.३६ ॥

女神啊,杜尔约达那将因你的愤怒而舍弃生命。我们真诚地向你发誓;美丽的女子,不要悲伤。

3.48.37

ये स्म ते कुरवः कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा ।
मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः ॥ ३.४८.३७ ॥

那些在看见你时嘲笑你的俱卢人啊,黑女——吃他们的肉,豺狼与飞鸟将把它叼走。

3.48.38

पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा ।
उत्तमाङ्गानि कर्षन्तो यैः कृष्टाऽसि सभातले ॥ ३.४८.३८ ॥

秃鹫与豺狼将饮他们的血,拖着那些在议事厅中拖拽你的人的头颅。

3.48.39

तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले ।
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥ ३.४८.३९ ॥

般遮罗女啊,你将看见他们的尸身倒在地上,被食肉者拖拽,一再吞噬。

3.48.40

परिक्लिष्टाऽसियैस्तत्रयैश्चासि समुपेक्षिता ।
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥ ३.४८.४० ॥

那些在彼处折磨你、轻慢你的人——头颅被斩断,大地将饮尽他们的血。

3.48.41

एवं बहुविधा वाचस्त ऊचुः पुरुषर्षभाः ।
सर्वेतेजस्विनः शूराः सर्वेचाहतलक्षणाः ॥ ३.४८.४१ ॥

如此这般,那些人中雄牛说了许多种话——他们个个光辉、英勇,具有未受损的武勇之相。

3.48.42

ते धर्मराजेन वृतावर्षादूर्ध्वं त्रयोदशात् ।
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥ ३.४८.४२ ॥

那些大车战士,在十三年之后由法王派遣,将以瓦苏提婆置于前列而出发。

3.48.43

रामश्च कृष्णश्च धनंजयश्च ।
प्रद्युम्नसाम्बौ युयुधानभीमौ।
पाञ्चालपुत्राः सह मत्स्यराज्ञा ॥ ३.४८.४३ ॥

罗摩与克里希那、德汉贾亚与普拉优姆那、萨姆巴与尤尤陀那、怖军、般遮罗之子们,以及摩蹉王。

3.48.44

माद्रीसुतौ केकयराजपुत्राः ।
एतान्सर्वाल्लोँकवीरानजेया-
न्महात्मनः सानुबन्धान्ससैन्यान् ।
को जीवितार्थी समरेऽभ्युदीया-
त्क्रुद्धान्सिंहान्केसरिणो यथैव ॥ ३.४८.४४ ॥

玛德利的两个儿子、柯迦耶王的诸子,这些世界英雄、不可战胜的大德者,与其亲属和军队。谁还想活命,会在战场上像怒狮面对怒狮一样冲向他们?

3.48.45

यन्माऽब्रवीद्विदुरो द्यूतकाले ।
त्वं पाण्डवाञ्जेषय्सि चेन्नरेन्द्र।
ध्रुवं कुरूणामयमन्तकालो ।
महाभयो भविता शोणितौधः ॥ ३.४८.४५ ॥

在掷骰子之时,维杜罗对我所说的话:噢,人主,若你战胜般度之子,这必定是俱卢族的末日;将有巨大的恐怖,血流成河。

3.48.46

मन्ये यथा तद्भवितेति सूत ।
यथा क्षत्ता प्राह वचः पुरा माम्।
असंशयं भविता युद्धमेत-
द्गते काले पाण्डवानां यथोक्तम् ॥ ३.४८.४६ ॥

噢,御者,我想它会应验,正如维杜罗先前对我所说。毫无疑问,当般度之子的时机到来时,这场战争必将发生,正如所说。