Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.5.1

पाण्डवास्तु वने वासमुद्दिश्य भरतर्पभाः ।
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥ ३.५.१ ॥

般度之子为了在森林中居住,婆罗多族的雄牛们与随从一同从恒河岸边出发,前往俱卢之野。

3.5.2

सरस्वतीदृपद्वत्यौ यमुनां च निषेव्य ते ।
ययुर्वननैव वनं सततं पश्चिमां दिशम् ॥ ३.५.२ ॥

他们依次巡礼萨拉斯瓦蒂、德里沙德瓦蒂和亚穆纳河,从一片森林走向另一片森林,始终向西方行进。

3.5.3

ततः सरस्वतीकूले समेषु मरुधन्वसु ।
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥ ३.५.३ ॥

之后,在萨拉斯瓦蒂河岸、平坦的沙漠之地,他们看见一座名为迦密耶迦的森林,为众多仙人所喜爱。

3.5.4

तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे ।
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥ ३.५.४ ॥

婆罗多啊,那些英雄便居住在鹿鸟众多的森林中,受到仙人们的侍奉与安慰。

3.5.5

विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः ।
जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥ ३.५.५ ॥

此时,始终渴望见到般度诸子的毗图罗独自乘一辆车,前往繁盛的迦密耶迦森林。

3.5.6

ततो गत्वा विदुरः काम्यकं त-
च्छीघ्रैरश्वैर्वाहितः स्यन्दनेन।
ददर्शासीनं धर्मात्मानं विविक्ते ।
सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥ ३.५.६ ॥

毗图罗抵达迦密耶迦后,乘着疾马拉的车,看见正义的坚战独坐于僻静处,与德劳帕蒂、诸兄弟及婆罗门在一起。

3.5.7

ततोऽपश्यद्विदुरं तूर्णमारा-
दभ्यायान्तं सत्यसन्धः स राजा।
अथाब्रवीद्धातरं भीमसेनं ।
किंनु क्षत्ता वक्ष्यतिनः समेत्य ॥ ३.५.७ ॥

那位信守诺言的国王远远看见维杜罗疾速走来,便对兄弟怖军说:"与我们相见后,克沙塔·维杜罗会对我们说什么呢?"

3.5.8

कच्चिन्नायं वचनात्सौबलस्य ।
समाह्वातुं देवनायोपयाति।
कच्चित्क्षुद्रः कुशली चाऽयुधानि ।
जेष्यत्यस्माकं पुनरेवाक्षवत्याम् ॥ ३.५.८ ॥

"他是奉苏波罗之子沙古尼之言来邀请我们赌博的吗?那个卑劣而精明的人,会不会在骰子游戏中再次赢走我们的武器?"

3.5.9

समाहूतः केनचिदाहवाय ।
नाहं शक्तो भीमसेनापयातुम्।
गाण्डीवे च संशयिते कथं नु ।
राज्यप्राप्तिः संशयिता भवेन्नः ॥ ३.५.९ ॥

"若有人召我应战,怖军啊,我无法拒绝。若甘狄拔弓变得可疑,我们获得王国怎能确定?"

3.5.10

तत उत्थाय विदुरं पाण्डवेयाः ।
प्रत्यगृह्णन्नृपते सर्व एव।
तैः सत्कृतः स च तानाजमीढो ।
यथोचितं पाण्डुपुत्रान्समेयात् ॥ ३.५.१० ॥

于是般度之子们全都起身迎接维杜罗,王啊。受到他们敬重的阿闍弥陀族之维杜罗,也依礼与般度之子们相见。

3.5.11

समाश्वस्तं विदुरं ते नरर्षभा-
स्ततोऽपृच्छन्नागमनाय हेतुम्।
स चापि तेभ्यो विस्तरतः शशंस ।
यथावृत्तं धृतराष्ट्रेऽम्बिकेये ॥ ३.५.११ ॥

维杜罗得到安慰后,那些人中之牛问他前来的缘由。他也将关于安比迦之子持国王所发生的一切,详细地告诉了他们。

3.5.12

अवोचन्मां धृतराष्ट्रोऽभिगुप्त-
मजातशत्रो परिगृह्याभिपूज्य।
एवं गते समतामभ्युपेत्य ।
पथ्यं तेषां मम चैव ब्रवीहि ॥ ३.५.१२ ॥

德拉特拉什陀罗拥抱并敬重我——我当时受到保护——对我说:“事已至此,请以平等之心,告诉我对他们和我都有益之事,阿阇多设特鲁。”

3.5.13

मयाप्युक्तं यत्क्षमं कौरवाणां ।
हितं पथ्यं धृतराष्ट्रस्य चैव।
तद्वै पथ्यं तन्मनो नाभ्युपैति ।
ततश्चाहं क्षममन्यन्न मन्ये ॥ ३.५.१३ ॥

我也说过对俱卢族和德拉特拉什陀罗适宜、有益、有利的话;但他的心不接受它,因此我认为别无他途是适宜的。

3.5.14

परं श्रेयः पाण्डवेया मयोक्तं ।
न मे तच्च शुतवानाम्बिकेयः।
यथाऽऽतुरस्येव हि पथ्यमौपधं ।
न रोचनते स्मास्य तदुच्यमानम् ॥ ३.५.१४ ॥

般杜之子啊,我所说的至高善言,安比迦之子听到了;但正如良药不合病人之口,在被说出时它也不合他的心意。

3.5.15

न श्रेयसे यततेऽजातशत्रो ।
स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा।
ध्रुवं न रोचेद्भरतर्षभस्य ।
पतिः कुमार्या इव षष्टिवर्षः ॥ ३.५.१५ ॥

阿阇多设特鲁啊,他不为善而努力,如同学者婆罗门家中的恶妇;这必定不会使婆罗多族的雄牛满意,如同六十岁的丈夫不讨少女的喜欢。

3.5.16

ध्रुवं विनाशो नृप कौरवाणां ।
न वै श्रेयो धृतराष्ट्रः परैति।
यथा च पर्णे पुष्करस्यावसिक्तं ।
जलं न तिष्ठेत्पथ्यमुक्तं तथाऽस्मिन् ॥ ३.५.१६ ॥

王啊,俱卢族的毁灭是必然的;德拉特拉什陀罗不会获得善果。正如洒在莲叶上的水不会停留,所以对他所说的有益之言也不会停留在他心中。

3.5.17

ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां ।
यस्मिञ्श्रद्धा तव तत्र प्रयाहि।
नाहं भूयः कामये त्वां सहायं ।
महीमिमां पालयितुं पुरं वा ॥ ३.५.१७ ॥

于是愤怒的持国王对我说:你去你所信任之处吧。我不再希望你作为辅佐,来守护这片大地或这座城市。

3.5.18

सोहं त्यक्तो धृतराष्ट्रेण राज्ञा ।
प्रशासितुं त्वामुपयातो नरेन्द्र।
तद्वै सर्वं यन्मयोक्तं सभायां ।
तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥ ३.५.१८ ॥

持国王已经抛弃了我,我来到你这里,人主啊,为的是辅佐你治理国家。请记住我在议会上所说的一切,也请牢记我现在将要再次说的话。

3.5.19

क्लेशैस्तीर्व्रर्युज्यमानः सपत्नैः ।
क्षमां कुर्वन्कालमुपासते यः।
संवर्धयन्स्तोकमिवाग्रिमात्मवान् ।
स वै भुङ्क्ते पृथिवीमेक एव ॥ ३.५.१९ ॥

那人虽被敌人所困苦,仍以忍耐对待,等待适当的时机,像培育小火一样培养自己,这样能自我克制的人,独自享有大地。

3.5.20

यस्याविभक्तं वसु राजन्सहायै-
स्तस्य दुःखस्यांशभाजः सहायाः।
सहायानामेष संग्रगणेऽभ्युपायः ।
सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥ ३.५.२० ॥

国王啊,凡是财富不与辅佐者分享的人,那些辅佐者也会分担他的痛苦。这便是聚集辅佐的方法;人们说,获得辅佐便能得到大地。

3.5.21

सत्यं श्रेष्टं पाण्डवा निष्प्रलापं ।
तुल्यं चान्नं सह भोज्यं सहायैः।
आत्मा चैषामग्रतो नातिवर्ते ।
देवं वृत्तिर्वर्धते भूमिपाल ॥ ३.५.२१ ॥

真理最为殊胜,般度之子啊,不要空谈。应当与盟友平分食物,一同进食。不要把自己置于他们之前。大地的守护者啊,兴盛由命运与行为而增长。

3.5.22

एवं करिष्यामि यथा ब्रवीपि ।
परां बुद्धिमुपगम्याप्रमत्तः।
यच्चाप्यन्यद्देशकालोपपन्नं ।
तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥ ३.५.२२ ॥

你所说的,我都会照做。依靠至上的智慧,我将保持警觉。其他适合时地而被说出的事,我也会全部完成。