摩诃婆罗多 · 章 3.50
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.50.1
आसीद्राजा नलो नाम वीरसेनसुतो बली ।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥ ३.५०.१ ॥
有一位名叫那罗的国王,是毗罗森那之子,强大、具备令人喜爱的品德,相貌俊美,精通马术。
3.50.2
यज्वा दानपतिर्दक्षः सदा शीलपुरस्कृतः ।
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा।
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥ ३.५०.२ ॥
他行祭祀,是布施之主,精明能干,始终尊重美德。他超越所有人间君王,如同众神之主高于诸神;光辉如太阳一般。
3.50.3
ब्रह्मण्यो वेदविच्छ्ररो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥ ३.५०.३ ॥
他敬重婆罗门,通晓吠陀,勇敢,是尼沙陀的国王。他喜爱骰子,诚实,伟大,是一支阿刹乌喝尼军队的统帅。
3.50.4
ईप्सितो नरनारीणामुदारः संयतेन्द्रियः ।
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥ ३.५०.४ ॥
为男女所爱戴,慷慨,克制自己的感官,是弓手中最优秀的守护者;他宛如毗摩奴本人。
3.50.5
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजाः ॥ ३.५०.५ ॥
同样,在毗达婆国有一位婆摩,勇力惊人,是具备一切美德的英雄。他渴望子嗣,却无子女。
3.50.6
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः ।
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥ ३.५०.६ ॥
他一心专注,为求子嗣付出了极大努力。婆罗多子孙啊,那时名叫达摩那的梵仙来到了他面前。
3.50.7
तं स भीमः प्रजाकामस्तोषयामास धर्मवित् ।
महिष्या सह राजेनद्र सत्कारेण सुवर्चसम् ॥ ३.५०.७ ॥
众王之主啊!渴望子嗣、通晓法度的婆摩与正妃一同以礼敬使那光辉的仙人欢喜。
3.50.8
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥ ३.५०.८ ॥
大名鼎鼎的达摩那心生欢喜,赐予他与其妻一个恩惠:一位如宝石般的女儿,以及三个高尚的儿子。
3.50.9
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् ।
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥ ३.५०.९ ॥
达摩衍蒂、达摩、达多,以及光辉的达摩那——具备一切美德,威武,勇猛无比。
3.50.10
दमयन्ती तु रूपेण तेजसा वपुषा श्रिया ।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥ ३.५०.१० ॥
纤腰的达摩衍蒂以容貌、光彩、身姿、华美与福运,在诸世界中获得了声誉。
3.50.11
अथ तां वयसि प्राप्ते दासीनां समलंकृतम् ।
शतं सखीनां च तदा पर्युपास्ते शचीमिव
शतं शतं सखीनां च पर्युपासच्छचीमिव ॥ ३.५०.११ ॥
当她到达青春年华时,一百名装饰华丽的侍女与一百位女友侍奉她,如同侍奉舍遮一般。
3.50.12
तत्र स्म राजते भैमी सर्वाभरणभूषिता ।
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा ॥ ३.५०.१२ ॥
在那里,婆摩之女身披一切饰物,肢体无瑕,在众女伴中闪耀,如同云中的闪电。
3.50.13
अतीव रूपसंपन्ना श्रीरिवायतलोचना ।
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ॥ ३.५०.१३ ॥
容貌极其美丽,眼睛宽大,宛如吉祥天女;在诸天与夜叉之中,从未有人有如此美貌。
3.50.14
मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता ।
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥ ३.५०.१४ ॥
在人类或其他生灵之中,从未见过也从未听闻;这位令人心神荡漾的少女,比诸天之神还要美丽。
3.50.15
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि ।
कंदर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥ ३.५०.१५ ॥
人中之虎那罗在大地上容貌无双,仿佛爱神迦摩自身化为了有形之身。
3.50.16
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् ।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥ ३.५०.१६ ॥
在她面前,人们出于好奇称赞那罗;在那伽迪王子面前,人们则一再称赞达摩衍蒂。
3.50.17
तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान् ।
अन्योन्यं प्रतिकौन्तेय स व्वर्धत हृच्छयः ॥ ३.५०.१७ ॥
二人不断听闻对方的美德,未曾相见便生出了爱欲;孔提之子啊,那潜藏于心中的爱意,彼此相互增长。
3.50.18
अशक्नवन्नलः कामं तदा धारयितुं हृदा ।
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥ ३.५०.१८ ॥
那罗此时无法将那欲念藏于心中,便独自隐退,停留在靠近内宫的林中。
3.50.19
स ददर्शै ततो हंसाञ्जातरूपपरिच्दान् ।
वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥ ३.५०.१९ ॥
于是他看见林中漫游的、身披金饰的天鹅,便抓住了其中一只。
3.50.20
ततो।डन्तरिक्षगो वाचं व्याजहार नलं तदा ।
हन्तव्योस्मि न तेराजन्करिष्यामि तवप्रियम् ॥ ३.५०.२० ॥
那时在空中飞行的天鹅对那罗说:“国王啊,不要杀我;我会为你做令你欢喜的事。”
3.50.21
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध ।
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥ ३.५०.२१ ॥
纳湿陀啊,我会在达摩衍蒂面前谈起你,使她永远不会想到你以外的任何男子。
3.50.22
तव चैव यथा भार्या भविष्यति तथाऽनघ ।
विधास्यामि नरव्याघ्र सोऽनुजानातु मां भवान् ॥ ३.५०.२२ ॥
无罪者啊,我会让她成为你的妻子。人中之虎啊,请允许我离去。
3.50.23
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः ।
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥ ३.५०.२३ ॥
国王听后便放走了那只天鹅;那些天鹅飞起,前往毗达婆。
3.50.24
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके ।
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥ ३.५०.२४ ॥
它们来到毗达婆城,在达摩衍蒂身边降落;那时她看见了那些飞鸟。
3.50.25
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता ।
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥ ३.५०.२५ ॥
她看到那些形貌奇妙的天鹅,被众侍女围绕着,心中欢喜,急忙上前去捉拿这些鸟。
3.50.26
अथ हंसा विससृपुः सर्वतः प्रमदावने ।
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन् ॥ ३.५०.२६ ॥
于是天鹅们向欢乐园的四面八方散去,那些少女便一个接一个地追赶那些天鹅。
3.50.27
दमयन्ती तु यं हंसं समुपाधावदन्तिके ।
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥ ३.५०.२७ ॥
然而,达摩衍蒂追近的那只天鹅,用人的语言说话,对达摩衍蒂说道。
3.50.28
दमयन्ति नलो नाम निषधेषु महीपतिः ।
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥ ३.५०.२८ ॥
达摩衍蒂啊,尼沙陀国有一位名叫那罗的国王。论容貌,他与双生神阿什文相似,凡人没有能与他相比的。
3.50.29
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ।
तस्य वै यदिभार्या त्वं भवेथा वरवर्णिनि।
सफलंते भवेज्जन्म रूपं चेदं सुमध्यमे ॥ ३.५०.२९ ॥
他仿佛自己化身为爱神,容貌如同迦达帕。若你成为他的妻子,美丽的女子啊,你的出生便有了意义,你这容貌也便有了价值,纤腰的女子啊。
3.50.30
वयं हि देवगन्धर्वमनुष्योरगराक्षसान् ।
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥ ३.५०.३० ॥
我们见过天神、乾闼婆、凡人、龙蛇和罗刹,然而从前从未见过像他这样的人。
3.50.31
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः ।
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् ॥ ३.५०.३१ ॥
你也是女子中的珍宝,而那拉是男子中最优秀的。卓越者与卓越者的结合必定美好而有德。
3.50.32
एवमुक्ता तु हंसेन दमयन्ती विशांपते ।
अब्रवीत्तत्र तं हंसं त्वमप्येवं नलं वद ॥ ३.५०.३२ ॥
天鹅如此说后,人主啊,达摩衍蒂对那只天鹅说:“你也这样对那罗说吧。”
3.50.33
तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य विशांपते ।
पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥ ३.५०.३३ ॥
人主啊,那只卵生的天鹅说“好吧”,便去见毗陀尔跋之女;随后返回尼沙陀,将一切禀告那罗。