摩诃婆罗多 · 章 3.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.51.1
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत ।
तदा प्रभृति न स्वस्था नलं प्रति बभूव सा ॥ ३.५१.१ ॥
婆罗多啊,达摩衍蒂听了天鹅的话,从那时起便不再安心于那罗。
3.51.2
ततश्चिन्तापरा दीना विवर्णवदना कृशा ।
बभूवदमयन्ती तु निःश्वासपरमा तदा ॥ ३.५१.२ ॥
那时达摩衍蒂沉陷于忧虑之中,悲苦、面色苍白、消瘦,一味地长叹。
3.51.3
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना ।
पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना ॥ ३.५१.३ ॥
她仰望着,沉浸于冥想,看上去如同失神,转瞬间脸色变得苍白,心神被潜伏在心中的爱神所占据。
3.51.4
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ।
न नक्तं न दिवा शेते हाहेति रुदती मुहुः ॥ ३.५१.४ ॥
床榻、座位和享乐之中,她从不感到欢喜;无论夜晚还是白天她都不入睡,只是一再哭泣,呼喊“唉!”
3.51.5
तामस्वस्थां तदाकारां सख्यस्ता जज्ञिरिङ्गितैः ॥ ३.५१.५ ॥
女伴们见她心神不宁、形容如此,便从她的神情举止中察觉了。
3.51.6
ततो विदर्भपतये दमयन्त्याः सखीजनः ।
न्यवेदयत्तामस्वस्थां दमयन्तीं नरेश्वरः ॥ ३.५१.६ ॥
于是达摩衍蒂的女伴们将她心神不宁的情况禀告了毗陀婆国王。
3.51.7
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् ।
किमर्थं दुहिता मेऽद्यनातिस्वस्थेव लक्ष्यते ॥ ३.५१.७ ॥
国王婆摩从达摩衍蒂的女伴们那里听到此事,问道:"我的女儿今天为何看起来如此不适?"
3.51.8
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् ।
अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम् ॥ ३.५१.८ ॥
这位大地的守护者看到已成年的女儿,便自己认定为达摩衍蒂举行自选夫婿大会是他的责任。
3.51.9
स सन्निपातयामास महीपालान्विशांपतिः ।
एषोऽनुभूयतां चीराः स्वयंवर इति प्रभो ॥ ३.५१.९ ॥
这位众人之主召集诸王,说道:"诸位君主、诸位长寿者,请知悉:此乃自选夫婿大会。"
3.51.10
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् ।
अभिजग्मुस्ततो वीरा राजानो भीमशासनात् ॥ ३.५१.१० ॥
诸王与英勇的君主听闻达摩衍蒂的自选夫婿大会,依婆摩之命纷纷前往。
3.51.11
हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम् ।
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः ॥ ३.५१.११ ॥
以象、马、车的喧嚣震动大地,诸王携带装饰华美、花环与饰物奇妙、令人赏心悦目的军队而来。
3.51.12
तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम् ।
यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिताः ॥ ३.५१.१२ ॥
大臂的婆摩依礼对那些大德的诸王予以应有的敬意,他们受到礼遇后便留在了那里。
3.51.13
एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ ।
अटमानौ महात्मानाविन्द्रलोकमितो गतौ ॥ ३.५१.१३ ॥
就在此时,诸神中两位最优秀的仙人,大心者,漫游着,从此处前往因陀罗之界。
3.51.14
नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ ।
देवराजस् भवनं विविशाते सुपूजितौ ॥ ३.५१.१४ ॥
那罗陀与波尔瓦塔,大智慧者、大誓愿者,受到充分尊敬,进入了诸神之王的殿堂。
3.51.15
तावर्चयित्वा मघवा ततः कुशलमव्ययम् ।
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥ ३.५१.१५ ॥
敬礼他们之后,摩诃婆那(因陀罗)——那遍在的主——接着询问了他们不朽的安好与健康。
3.51.16
आवयोः कशलं देव सर्वत्रगतमीश्वर ।
लोके च मघवन्कृत्स्नो नृपाः कुशलिनो विभो ॥ ३.५१.१६ ॥
天神啊,遍在的主啊,我们的安好普遍而良好。摩诃婆那啊,大能者啊,世间的诸王也都安好。
3.51.17
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा ।
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ॥ ३.५१.१७ ॥
听了那罗陀的话,杀死强大弗栗多者问道:那些通达法义、守护大地、舍弃生命而战的王者们……
3.51.18
शस्त्रेण निधनं काले ये गच्छन्त्यपराड्युखाः ।
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ॥ ३.५१.१८ ॥
那些在时机到来时死于兵器、不背过身去的人,他们的世界是不灭的,正如我的如意牛。
3.51.19
क्वनु ते क्षत्रियाः शूरा नहि पश्यामि तानहम् ।
आगच्छतो महीपालान्दयितामनिथीन्मम ॥ ३.५१.१९ ॥
那些英勇的刹帝利在哪里?我没有看到他们在前来的诸王之中。
3.51.20
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत ।
शृणु मे मघवन्येन न दृश्यन्ते महीक्षितः ॥ ३.५१.२० ॥
帝释这样问后,那罗陀回答:摩ghavan啊,请听,那些国王不被看见的原因。
3.51.21
विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता ।
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥ ३.५१.२१ ॥
毗达婆国王的女儿,名叫达摩衍蒂,以美貌超越了大地上所有的女子。
3.51.22
तस्याः स्वयंवरः शक्र भविता नचिरादिव ।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥ ३.५१.२२ ॥
帝释啊,她的自选夫婿大典不久就要举行。所有国王和王子都正前往那里。
3.51.23
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः ।
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ॥ ३.५१.२३ ॥
那些求娶这位世间珍宝的国王,尤其渴望她,啊,击碎毗leyUtra之力的主。
3.51.24
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः ।
आजग्मुर्देवराजस्य समीपममरोत्तमाः ॥ ३.५१.२४ ॥
正在讲述这些时,世界守护者与火神以及诸神中的最优者,来到了天神之王身边。
3.51.25
ततस्ते शुश्रुवुः सर्वे नारदस्य वचो महत् ।
श्रुत्वैव चाब्रुवन्हृष्टा गच्छामो वयमप्युत ॥ ३.५१.२५ ॥
于是他们都听到了那纳罗陀的大言。听后便欢喜地说:“我们也去吧。”
3.51.26
ततः सर्वे महाराज सगणाः सहवाहनाः ।
विदर्भानभिजग्मुस्ते यतः सर्वे महीक्षितः ॥ ३.५१.२६ ॥
于是,大王啊,他们都带着随从和车骑,前往毗达婆,所有的国王都在前往那里。
3.51.27
नलोपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् ।
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ॥ ३.५१.२७ ॥
俱胝之子啊,国王那罗也听到了诸王集会的消息,以坚定的心志,倾心于达摩衍蒂,前往那里。
3.51.28
अथ देवाः पथि नलं ददृशुर्भूतले स्तितम् ।
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा ॥ ३.५१.२८ ॥
于是诸天在路上看见那罗站在大地上,仿佛爱神摩摩陀以肉身显现,美貌无比。
3.51.29
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् ।
तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा ॥ ३.५१.२९ ॥
他光辉如日,诸世界护卫见之,心志尽失,为其容貌之盛而惊异,便伫立在那里。
3.51.30
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः ।
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥ ३.५१.३० ॥
于是天上的居民在空中停住他们的天车,从天空降下,大王啊,对尼沙陀之子说道。
3.51.31
भोभो निषधराजेन्द्र नल सत्यव्रतो भवात् ।
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥ ३.५१.३१ ॥
啊,尼沙陀诸王之主那罗!你守持真实之誓。请助我们一臂之力,做我们的使者吧,人中之最!