Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.52.1

तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत ।
अथैतान्परिपप्रच्छ कृताञ्जलिरुपस्थितः ॥ ३.५२.१ ॥

婆罗多啊,那罗答应他们说“我会做到”之后,合掌站在他们面前,向他们询问。

3.52.2

के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः ।
किंच तत्रमया कार्यं कथयध्वं यथातथम् ॥ ३.५२.२ ॥

你们是谁?我被希望去作为谁的使者?我在那里该做什么?请如实告诉我。

3.52.3

एवमुक्ते नैषधेन मघवानभ्यभाषत ।
अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ॥ ३.५२.३ ॥

那罗如此说后,摩ghavān(因陀罗)对他说:“你要知道,我们这些不死者是为了达摩衍蒂而来的。”

3.52.4

अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिः ।
शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ॥ ३.५२.४ ॥

我是因陀罗,这位是阿耆尼,同样这位是水之主(伐楼那),而且,国王啊,这位也是夜摩,他结束人的身体。

3.52.5

त्वं वै समागतानस्मान्दमयन्त्यै निवेदय ।
लोकपाला महेन्द्राद्याः समायान्ति दिदृक्षवः ॥ ३.५२.५ ॥

你应该告诉达摩衍蒂我们已经来到。以大因陀罗为首的世界守护者们渴望见到她,正在前来。

3.52.6

प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः ।
तेषामन्यतमं देवं पतित्वे वरयस्व ह ॥ ३.५२.६ ॥

诸神都想得到你——释迦(因陀罗)、阿耆尼、伐楼那和夜摩。请从这些神中选择一位作为你的丈夫。

3.52.7

एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् ।
एकार्थसमवेतं मां न प्रेषयितुमर्हथ ॥ ३.५२.७ ॥

因帝释如此相告,那罗合掌说道:"我只为一件事而来,你们不应派遣我。"

3.52.8

कथ हि जातसंकल्पः स्त्रियमुत्सृजते पुमान् ।
परार्थमीदृशं वक्तं तद्वै पश्यामरेश्वर ॥ ३.५२.८ ॥

"心中已生情愿的男子,怎会舍弃那女子?为他人说出这样的话,天神之主,请您自己看吧。"

3.52.9

एवमुक्तो नैषधेन मघवान्पुनरब्रवीत् ।
करिष्य इतिसंश्रुत्य पूर्वमस्मासु नैषध।
न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ॥ ३.५२.९ ॥

那罗如此相告,摩伽婆(因陀罗)又说道:"那罗之子,你先前曾向我们许诺要去做,为何不做?那罗之子,不要耽搁,快去吧。"

3.52.10

स वै त्वमागतानस्मान्दमयन्त्यै निवेदय ।
श्रेयसा योक्ष्यसे हि त्वं कुर्वन्नमरशासनम् ॥ ३.५२.१० ॥

"你去告诉达摩衍蒂,我们已经到来。奉行天神的命令,你将获得吉祥。"

3.52.11

एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् ।
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥ ३.५२.११ ॥

那些天神如此相告,那罗又说道:"那么严密守护的宫室,我怎敢进入?"

3.52.12

प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत ।
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥ ३.५२.१२ ॥

因陀罗又对他说:"你将能够进入。"他说"就这样吧",便前往达摩衍蒂的住所。

3.52.13

ददर्श तत्र वैदर्भीं सखीगणसमावृताम् ।
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥ ३.५२.१३ ॥

他在那里看见被众女伴环绕的毗达婆公主,她身体与光彩都熠熠生辉,肤色极为美丽。

3.52.14

अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् ।
आक्षिपन्तीमिव च तां शशिनं स्वेन तेजसा ॥ ३.५२.१४ ॥

肢体极为娇柔,腰肢纤细,眼睛美丽,她以自身的光彩仿佛要压过月亮。

3.52.15

तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् ।
सत्यं चिकीर्षमाणस्तुधारयामास हृच्छयम् ॥ ३.५२.१५ ॥

他一见到她,对这位甜美微笑的女子的欲念便滋长起来;然而他想要恪守真实,便压抑住心中潜藏的那份爱意。

3.52.16

ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः ।
आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥ ३.५२.१६ ॥

那些高贵的女子看见尼沙陀王,惊慌失措,被他的光辉所慑,纷纷从座位上跃起。

3.52.17

प्रशशंसुश्च मुप्रीता नलं ता विस्मयान्विताः ।
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यपूजयन् ॥ ३.५२.१७ ॥

她们十分欢喜,充满惊叹,赞美那罗;却不曾与他说话,只在心中敬奉他。

3.52.18

अहो रूपमहो कान्तिरहो धैर्यं महात्मनः ।
कोऽयं देवोऽथवा यक्षो गन्धर्वो वा भविष्यति ॥ ३.५२.१८ ॥

啊,这位大德的容貌!啊,光彩!啊,定力!他会是谁呢——天神、夜叉,还是乾闼婆?

3.52.19

न तास्तं शक्नुवन्ति स्म व्याहर्तुमपि किंचन ।
तेजसा धर्षितास्तस्य लज्जावत्यो वराङ्गनाः ॥ ३.५२.१९ ॥

她们被他的光辉所震慑,知羞的美女们竟不敢对他说任何话。

3.52.20

अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी ।
दमयन्ती नलं वीरमभ्यभाषत विस्मिता ॥ ३.५२.२० ॥

于是,惊讶的达摩衍蒂仿佛带着微笑,先展颜一笑,然后对英雄那罗说道。

3.52.21

कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन ।
प्राप्तोस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥ ३.५२.२१ ॥

你肢体完美无瑕,增添我心中的爱慕!你是谁?英雄啊,你如天神一般降临;无罪者啊,我想知道你的身份。

3.52.22

कथमागमनं चेह कथं चासि न लक्षितः ।
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ॥ ३.५२.२२ ॥

你是如何来到这里,又怎能不被人察觉?我的居所防守严密,而国王的统治也十分严厉。

3.52.23

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
नलं मां विद्धि कल्याणि देवदूतमिहागतम् ॥ ३.५२.२३ ॥

毗陀婆公主如此说后,那罗回答她:吉祥的人啊,你应知道我是来到此地的天神使者。

3.52.24

देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः ।
तेषामन्यतमं देवं पतिं वरय शोभने ॥ ३.५२.२४ ॥

诸神都想得到你:因陀罗、火神阿耆尼、伐楼那和阎摩。光彩照人的你,请从他们中选择一位天神做你的丈夫吧。

3.52.25

तेषामेव प्रभावेण प्रविष्टोऽहमलक्षितः ।
प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत् ॥ ३.५२.२५ ॥

凭借他们的神力,我隐形入内;入内时无人看见我,也无人阻拦。

3.52.26

एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः ।
एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ॥ ३.५२.२६ ॥

正是为此,诸神中的最优者派我前来。听到这些,吉祥的女子啊,你就按你的心意作决定吧。