Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.53.1

सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् ।
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥ ३.५३.१ ॥

她向诸神行礼后微笑着对那罗说:"大王,请依您的心意爱我吧。我能为您做什么?"

3.53.2

अहं चैव हि यच्चान्यन्ममास्ति वसु किंचना ।
तत्सर्वं तव विस्रब्धं कुरु प्रणयमीश्वर ॥ ३.५३.२ ॥

我和我所有的财富都完全属于您。主啊,请放心地向我表达您的爱意吧。

3.53.3

हंसानां वचनं यत्तु तन्मां दहति पार्थिव ।
त्वत्कृते हि मया वीर राजानः सन्निपातिताः ॥ ३.५३.३ ॥

大王,天鹅的那些话灼烧着我。英雄啊,正是为了您,我才召集了诸王。

3.53.4

यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद ।
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥ ३.५३.४ ॥

赐予尊荣者啊,若您拒绝依恋您的我,为了您,我将求助于毒药、火、水或绳索。

3.53.5

एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥ ३.५३.५ ॥

毗陀婆女如此说后,那罗回答她:"诸世界护持者都在此,你怎么会想要一个凡人呢?"

3.53.6

येषामहं लोककृतामीश्वराणां महात्मनाम् ।
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥ ३.५३.६ ॥

我甚至不及那些创造世界的伟大主宰脚下的尘土;愿你的心转向他们。

3.53.7

विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युच्छति ।
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥ ३.५३.७ ॥

凡人若做违逆诸神之事,便会遭遇死亡。无瑕美体者啊,救救我吧;请选择诸神中最优者。

3.53.8

विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा ।
भूषणानि तु दिव्यानि देवान्प्राप्य तु भुङ्क्ष्व वै ॥ ३.५३.८ ॥

无尘的衣裳、光彩夺目的天界花环,以及天界的饰物——得到诸神之后,你便将享用这些。

3.53.9

य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः ।
हुताशमीशं देवानां का तं न वरयेत्पतिम् ॥ ३.५३.९ ॥

谁不会选择那位将整个大地收拢、又再次吞下的诸神之主胡塔沙那(火神)为夫呢?

3.53.10

यस् दण्डभयात्सर्वे भूतग्रामाः समागताः ।
धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम् ॥ ३.५३.१० ॥

众生因畏惧他的惩罚而聚集,只遵循法(达摩)——哪位女子不会选择他为夫呢?

3.53.11

धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् ॥ ३.५३.११ ॥

心怀正法、心灵高尚、摧毁阿修罗与檀那婆的,诸神之大因陀罗——哪位女子不会选择他为夫呢?

3.53.12

क्रियतामविशङ्केन मनसा यदि मन्यसे ।
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥ ३.५३.१२ ॥

如果你心中毫无疑虑地认为这样是对的,那就照此去做。在世界护卫者中选择伐楼那吧;请听这位朋友的话。

3.53.13

नैषधेनैवमुक्ता सा दमयन्ती बचोऽब्रवीत् ।
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥ ३.५३.१३ ॥

那罗如此说后,达摩衍蒂回答道,她的双眼被悲伤所生的泪水充满。

3.53.14

देवेभ्योऽहं नमस्कृत् यसर्वेभ्यः पृथिवीपते ।
वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते ॥ ३.५३.१४ ॥

地上之主啊,我向诸神致敬之后,只选你为夫君;这是我对你的真实之言。

3.53.15

तामुवाच ततो राजा वेषमानां कृताञ्जलिम् ।
दौत्येनागत्य कल्याणि नोत्सहे स्वार्थमीप्सितं ॥ ३.५३.१५ ॥

于是国王对她说,她颤抖着合掌而立:吉祥的人啊,我是作为使者而来,我不敢为了自己所求的私利去做这件事。

3.53.16

कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः ।
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥ ३.५३.१६ ॥

既已特别向诸神许诺,又为他人之事着手努力,我怎能在此为自己的私利而奋发呢?

3.53.17

एष धर्मो यदि स्वार्थो ममापि भविता ततः ।
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् ॥ ३.५३.१७ ॥

若我自己的私利也成为义务,那么我便如此去成就自己的私利;善良的人啊,就这样安排吧。

3.53.18

ततो बाष्पाकुलांवाचं दमयन्ती शुचिस्मिता ।
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥ ३.५३.१८ ॥

于是笑容纯洁的达摩衍蒂,慢慢收敛被泪水哽咽的声音,对国王那罗说道。

3.53.19

अस्त्युपायो मया दृष्टो निरपायो नरेश्वर ।
येन दोषो न भविता तव राजन्कथंचन ॥ ३.५३.१९ ॥

人主啊,我已找到一个万无一失的办法,国王,由此你绝不会因此而蒙受任何过失。

3.53.20

त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः ।
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥ ३.५३.२० ॥

你,人中最好的,以及以因陀罗为首的诸神,都请一同前来我举行自选夫婿大典的地方。

3.53.21

ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर ।
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥ ३.५३.२१ ॥

那时,在世界守护者面前,我将选择你,人主,人中之虎;这样就不会有过失了。

3.53.22

एवमुक्तस्तु वैदर्भ्या नलो राजा विशंपते ।
आजगाम पुनस्तत्र यत्र देवाः समागताः ॥ ३.५३.२२ ॥

毗陀婆国公主如此说后,人民之主啊,那罗王又回到诸神聚集的地方。

3.53.23

तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः ।
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम् ॥ ३.५३.२३ ॥

大自在的世界守护者们看见他这样走来,见到他后便询问了全部经过。

3.53.24

कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता ।
किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ॥ ३.५३.२४ ॥

国王啊,你是否见到了笑容纯净的达摩衍蒂?她对我们所有人说了什么?请告诉我们,大地之主,无垢者。

3.53.25

भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् ।
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥ ३.५३.२५ ॥

奉诸位之命,我前往达摩衍蒂的居所,进入了一个被持杖老年卫士环绕的极大庭院。

3.53.26

प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः ।
ऋते तां पार्तिवसुतां भवतामेव तेजसा ॥ ३.५३.२६ ॥

我进入那里时,除了公主,没有任何人看见我,那只是因为你们的光辉。

3.53.27

सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः ।
विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः ॥ ३.५३.२७ ॥

我看见了她的女伴,她们也注意到了我。看见我后,她们都惊讶不已,诸位天神之主啊。

3.53.28

वर्ण्यमानेषु च मया भवत्सु रुचिराननां ।
मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः ॥ ३.५३.२८ ॥

诸位天神中的最优者啊,我描述你们之时,那容颜光彩照人的女子,心意已定,只选择了我。

3.53.29

अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः ।
त्वया सह नरव्याघ्र मम यत्रस्वयंवरः ॥ ३.५३.२९ ॥

那少女对我说:"人中之虎啊,愿诸神一同前来,到我举行选婿大典(自选夫婿)的地方,与你同在。"

3.53.30

तेषामहं संनिधौ त्वां वरयिष्यामि नैषध ।
एवं तव महाबाहो दोषो न भवितेति ह ॥ ३.५३.३० ॥

"在他们面前,我将选择你,奈沙陀之子啊。如此,大臂者啊,你将无任何过失。"

3.53.31

एतावदेव विबुधा यथावृत्तमुपाहृतम् ।
मया शेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥ ३.५३.३१ ॥

诸天啊,我所叙述的经过只到此为止;其余之事,当以你们这些三十三天之主为准。