Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.54

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.54.1

अथ काले शुभे प्राप्ते तथौ पुण्ये क्षणे तथा ।
आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥ ३.५४.१ ॥

当吉祥的时刻、神圣的日子与殊胜的瞬间来临时,国王毗摩在自选夫婿大典上召集了大地的守护者们。

3.54.2

तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः ।
त्वरिताः समपाजग्मुर्दमयन्तीमभीप्सवः ॥ ३.५४.२ ॥

诸侯闻之,心为爱箭所伤,渴望得到达摩衍蒂,急速前来聚集于此。

3.54.3

कनकस्तम्भरुचिरं तोरणेन विराजितम् ।
विविशुस्ते नृपा रङ्गं महासिंह इवाचलम् ॥ ३.५४.३ ॥

那座以金柱装点、以拱门华饰的场地,诸王进入其中,如大狮子进入山岳。

3.54.4

तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः ।
सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः ॥ ३.५४.४ ॥

诸侯们坐于各式座位上,身披芬芳花环,耳戴光洁的宝珠耳环。

3.54.5

संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ।
प्रविवेश नलो देवैः पुण्यश्लोको नराधिप ॥ ३.५४.५ ॥

犹如进入满是猛虎的山洞,那位功德闻名、如同诸神的那罗,走入充满人中猛虎的场地,啊,人主。

3.54.6

तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः ।
आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ॥ ३.५४.६ ॥

在那里可以看见他粗壮的双臂,如铁杵一般,形状与色泽俱美而光滑,宛如五头之蛇。

3.54.7

सुकेशान्तानि चारूणि सुनासानि शुभानि च ।
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥ ३.५४.७ ॥

众王的面容,发丝柔美,鼻梁秀挺,气象吉祥,如同天上的星辰一般光彩照人。

3.54.8

दमयन्ती ततो रङ्गं प्रविवेश शुभानना ।
मुष्णन्ती प्रभया राज्ञां चक्षूषि च मनांसि च ॥ ३.५४.८ ॥

于是,面容秀美的达摩衍蒂步入场中,以光华夺去众王的目光与心神。

3.54.9

तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् ।
तत्रतत्रैव सक्ताऽभून्न चचाल च पश्यताम् ॥ ३.५४.९ ॥

那些大德之人的目光落在她的肢体上,在这里那里停驻不去;而观看者的目光也凝然不动。

3.54.10

ततः संकीर्त्यमानेषु राज्ञां नामसु भारत ।
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिह ॥ ३.५४.१० ॥

婆罗多,当众王之名被宣读时,伯玛(达摩衍蒂)在此看见了五位形貌相同的男子。

3.54.11

तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् ।
संदेहादथ वेदर्भी नाभ्यजानान्नलं नृपम् ॥ ३.५४.११ ॥

她看见他们都站着,形貌无别,因此心生疑惑,维达尔毗竟未能认出纳罗王。

3.54.12

निर्विशेषवयोवेषरूपाणां तत्र सा शुभा ।
यंयं हि ददृशे तेषां तंतं मेने नलं नृपम्।
साचिन्तयन्ती बुद्ध्याऽथ तर्कयामास भामिनी ॥ ३.५४.१२ ॥

此处众人年岁、衣饰、形貌毫无分别;她所望见的每一人,她都以为是纳罗王。那位美人沉思之后,便以智慧加以推断。

3.54.13

कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ।
एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता ॥ ३.५४.१३ ॥

我如何能认出诸神?我如何能辨识国王那罗?毗达婆国的公主如此思量,心中极为悲痛。

3.54.14

श्रुतानि देवलिङ्गानि तर्कयामास भारत ।
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे ॥ ३.५४.१४ ॥

婆罗多啊,我从长者那里听到的诸神之相,她便一一加以思量。

3.54.15

तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ।
एवं विचिन्त्य बहुधा विचार्य च पुनः पुनः ॥ ३.५४.१५ ॥

这些诸神之相,我在这些站在地上的人中一个也看不出来。她这样反复多方思量,

3.54.16

शरणं प्रति देवानां प्राप्तकालममन्यत ।
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा ॥ ३.५४.१६ ॥

她认为已到向诸神求庇护之时;她以言语与心意致敬,

3.54.17

देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ।
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः।
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥ ३.५४.१७ ॥

她在诸神面前合掌,颤抖着说道:“我听了天鹅的话,选择了尼沙陀之主那罗为夫,若此言属实,那就凭这真实,诸位天神,请指给我看吧。”

3.54.18

मनसा वचसा चैव यथा नातिचराम्यहम् ।
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥ ३.५४.१८ ॥

若我以心与言从未越出本分,那就凭这真实,诸位天神,只将他指给我看吧。

3.54.19

यथा देवैः स मे भर्ता विहितो निषधाधिषः ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ ३.५४.१९ ॥

诸神既已为我指定尼沙达之主为夫,愿诸神以此真实之故,将他显示于我。

3.54.20

यथेदं व्रतमारब्धं नलस्याराधने मया ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ ३.५४.२० ॥

我为侍奉那罗而发起此誓,愿诸神以此真实之故,将他显示于我。

3.54.21

स्वं चैव रूपं पुष्यन्तु लोकपाला महेश्वराः ।
यथाऽहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥ ३.५४.२१ ॥

愿护世者与大自在天显示其本相,使我能认出那名声圣洁的人主。

3.54.22

निशम्य दमयन्त्यास्तत्करुणं प्रतिदेवितम् ।
निश्चयंपरमं तथ्यमनुरागं च नैषधे ॥ ३.५४.२२ ॥

听闻达摩衍蒂悲切的回应之哀声,知其至高而真实的决意与对尼沙达王的深情。

3.54.23

मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे ।
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥ ३.५४.२३ ॥

诸神如所言般成就了她心之清净、智慧、虔诚与对尼沙达王的深情,并赐予她显现标志的能力。

3.54.24

साऽपश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् ।
अम्लानस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ॥ ३.५४.२४ ॥

她看见诸神:无汗,目光凝定,花鬘不萎,无尘垢,立于空中而不触地。

3.54.25

छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः ।
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥ ३.५४.२५ ॥

尼沙陀王那罗与他的影子为伴,站在地上,花环枯萎,满身尘土与汗水,转瞬之间被认出。

3.54.26

सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत ।
नैषधं वरयामास भैमी धर्मेण पाण्डव ॥ ३.५४.२६ ॥

婆罗多啊,般度之子,黛摩衍蒂看过那些神明和名声纯洁的那罗之后,依法选择了尼沙陀的那罗。

3.54.27

विलज्जमाना वस्त्रान्तं जग्राहायतलोचना ।
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम् ॥ ३.५४.२७ ॥

她含羞抓住衣角,那长眼睛的女子将最美丽的花环挂在他的肩上。

3.54.28

वरयामास चैवैनं पतित्वे वरवर्णिनी ।
ततो हाहेति सहसा मुक्तः शब्दो नराधिपैः ॥ ३.५४.२८ ॥

那肤色美丽的女子便选他为夫。此时众王中忽然发出一声“哈!”的惊叹。

3.54.29

देवैर्महर्षिभिस्तत्र साधुसाध्विति भारत ।
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥ ३.५४.२९ ॥

婆罗多啊,诸神与大仙们惊叹地高呼“善哉!善哉!”,赞美那罗王。

3.54.30

दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः ।
आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना ॥ ३.५४.३० ॥

库鲁的后裔啊,毗罗犀那之子那罗王以欢喜的心安慰了那臀部美丽的黛摩衍蒂。

3.54.31

यत्त्वं भजसि कल्याणि पुमांसं देवसन्निधौ ।
तस्मान्मां विद्धि भर्तारमेतत्ते वचने रतम् ॥ ३.५४.३१ ॥

吉祥的女子啊,你在诸神面前所选择的那个男子,你应当知道我就是你的丈夫,因为我一心遵从你的话。

3.54.32

यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते ।
तावत्त्वयि भविष्यामि सत्यमेतद्ब्रवीमि ते ॥ ३.५४.३२ ॥

笑容纯净的女子啊,只要生命之气仍在我的身体里,我就属于你;这是我对你说的真话。

3.54.33

दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः ॥ ३.५४.३३ ॥

达摩衍蒂以这些话欢迎了他,合掌而立。

3.54.34

तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान् ।
तानेव शरणं देवाञ्जग्मतुर्मनसा तदा ॥ ३.५४.३४ ॥

见二人彼此欢悦,他们便在心中皈依以阿耆尼为首的诸神。

3.54.35

वृते तु नैषधे भैम्या लोकपाला महौजसः ।
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥ ३.५४.३५ ॥

当婆伊密选择了尼沙陀的那罗之后,所有威力强大的世界护持者都欢喜地赐予那罗八种恩惠。

3.54.36

प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् ।
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥ ३.५४.३६ ॥

舍奇之主因欢喜,将祭祀中亲见诸神的殊荣,以及至上吉祥的归宿,赐予尼沙陀的那罗。

3.54.37

अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः ।
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥ ३.५४.३७ ॥

火神赐予他一个由自身所生的儿子,无论那纳拉想要在哪里;又赐予他以自身光明照耀的世界。

3.54.38

यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् ।
अपांपतिरपां भावं यत्रवाञ्छति नैपधः
स्रजश्चोत्तमगन्धाढ्याः सर्वेच मिथुनं ददुः ॥ ३.५४.३८ ॥

阎摩赐予他食物的精华和法中的至高安住;水之主伐楼那赐予他在那纳拉想要之处的水的本性;众神都赐予饱含上等香气的花环和一对。

3.54.39

वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ।
एतत्सर्वं नलोऽपश्यद्दमयन्ती च भारत।
यथा स्वप्नं महाराज तथैव ददृशुर्जनाः ॥ ३.५४.३९ ॥

诸神如此赐予他恩惠后,便回到天界。婆罗多子孙啊,那罗与妈咪提都看见了这一切;大王啊,众人也看见了,如同梦境一般。

3.54.40

ततः स्वयवरं चक्रे भीमो राजाऽतिमानुषम् ।
समागतेषु सर्वेषु भूपालेसु विशांपते ॥ ३.५४.४० ॥

于是,国王毗摩举行了超越人间的选婿大会,人主啊,当所有聚集的诸王都到齐之时。

3.54.41

दमयन्त्यपि तद्दृष्ट्वाराजमण्डलमृद्धिमत् ।
अन्वीक्ष्यनैषधं वव्रे भैमी धर्मेण भारत ॥ ३.५४.४१ ॥

妈咪提也看见了那壮丽的诸王之众,凝视着尼沙陀之子那罗,婆罗多啊,毗摩之女依法选择了他。

3.54.42

वृते च नैषधे भैम्या निवृत्ते च स्वयंवरे ।
सर्व एव महीपालाः प्रतिजग्मुर्यथागतम् ॥ ३.५४.४२ ॥

当那罗被妈咪提选中,选婿大会结束时,诸王都照着来时的路回去了。

3.54.43

पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः ।
दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम् ॥ ३.५४.४३ ॥

诸王目睹了那罗的婚礼,心中惊叹,又为达摩衍蒂而欢喜,于是按原路返回。

3.54.44

गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः ।
विवाहं कारयामास दमयन्त्या नलस्य च ॥ ३.५४.४४ ॥

诸王离去之后,心胸宽广的毗摩欢喜,为达摩衍蒂与那罗举行了婚礼。

3.54.45

उष्य तत्र तथाकामं नैषधो द्विपदांवरः ।
भीमेन समनुज्ञातो जगाम नगरं स्वकम्।
अवाप्य नारीरत्नं तु पुण्यश्लोकोपि पार्थिवः ॥ ३.५४.४५ ॥

那罗(尼沙陀王,人中之最)在那里随意住了一段时间,经毗摩允许,返回自己的城市。他得到了女中之宝,这位以圣德闻名的国王。

3.54.46

रेमे सह तया राजञ्छच्येव बलवृत्रहा ।
अतीव मुदितो राजा भ्राजमानोंशुमानिव ॥ ३.५४.४६ ॥

大王啊,他与她欢娱,如同杀伐毗摩的因陀罗与舍支欢娱。极为喜悦的国王,光芒如同太阳。

3.54.47

अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् ।
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः।
अन्यैश्च बहुभिर्धीमान्क्रतुभिश्चाप्तदक्षिणैः ॥ ३.५४.४७ ॥

这位英雄以法护佑臣民,使他们喜悦。他如同那胡沙之子耶耶底,举行了马祭,这位智者又以丰厚的酬金举行了许多其他祭祀。

3.54.48

पुगश्च रमणीयेषु वनेषूपवनेषु च ।
दमयन्त्या सह नलो विजहारामरोपमः ॥ ३.५४.४८ ॥

那罗如同神明,与达摩衍蒂在美丽的森林和园林中游戏。

3.54.49

जनयामास च ततो दमयन्त्यां महामनाः ।
इन्द्रसेनं सुतं चापि इन्द्रसेनां चकन्यकाम् ॥ ३.५४.४९ ॥

随后,这位大心的那罗与达玛衍蒂生下了名为因陀罗塞那的儿子,也生下了名为因陀罗塞娜的女儿。

3.54.50

एवं स यजमानश्च विहरंश्च नराधिपः ।
ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः ॥ ३.५४.५० ॥

如此,这位人主一边行祭祀、一边游乐,作为大地之主守护着充满财富的大地。