摩诃婆罗多 · 章 3.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.58.1
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः ।
पुष्करेण हृतं राज्यं यच्चापि वसु किंचन ॥ ३.५८.१ ॥
随后,当伐尔什涅耶离去之后,圣名者(那罗)正在赌博时,补湿迦夺去了他的王国和他所有的财富。
3.58.2
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् ।
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ॥ ३.५८.२ ॥
对失去王国的那罗,补湿迦笑着说:『大王啊,让赌局再继续吧。你拿什么来作对等的赌注?』
3.58.3
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया ।
दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ॥ ३.५८.३ ॥
『你只剩下达摩衍蒂一人了;其余的一切都已被我赢去。若你认为合宜,就让达摩衍蒂作为你的赌注,公平地继续赌局吧。』
3.58.4
पुष्रेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना ।
व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत् ॥ ३.५८.४ ॥
补湿迦这样说之后,圣名者那罗的心仿佛因愤懑而碎裂;他却一句话也没有回应他。
3.58.5
ततः पुष्करमालोक्य नलः परममन्युमान् ।
उवाच विद्यतेऽन्यच्च धनं मम नराधम ॥ ३.५८.५ ॥
那罗望着补湿迦,满腔愤怒地说:『你这最卑劣的人啊!我还有别的财富。』
3.58.6
षणरूपेण निक्षिप्य पुण्यश्लोकः सुदुर्मनाः ।
उत्तरीयं तथा वस्त्रं तस्याश्चाभरणानि च।
उन्सृज्य सर्वगात्रभ्यो भूषणानि सहायशाः ॥ ३.५८.६ ॥
圣名者那罗心情极度沮丧,将他的上衣、她的衣裙和饰物作为赌注抵押,从身上卸下所有装饰;他变得无人相助。
3.58.7
सुकवासा ह्यसंवीतः सुहृच्छोकविवर्धनः ।
निश्चक्राम ततोराजा त्यक्त्वा सुविपुलां श्रियम् ॥ ३.५८.७ ॥
他external看似衣着整齐,实则一无所有,使朋友悲伤的国王便离开了,舍弃了他巨大的富贵。
3.58.8
दमयन्त्येकवस्त्राऽथ गच्छन्तं पृष्ठतोऽन्वगात् ।
स तया नगराभ्याशे त्रिरात्रं नैपधोऽवसत् ॥ ३.५८.८ ॥
于是只穿一件衣服的达摩衍蒂从后面跟随着离去的他。那位纳湿陀王在城郊停留了三夜。
3.58.9
पुष्करस्तु महाराज धोषयामास वै पुरे ।
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥ ३.५८.९ ॥
然而大王,普什卡在城中宣告:凡妥善侍奉纳拉者,将被我处死。
3.58.10
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च ।
पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर ॥ ३.५८.१० ॥
因普什卡的命令和他的仇恨,俱卢王啊,城民没有给他应有的尊敬。
3.58.11
स तथा नगराभ्याशे सत्कारार्हो न सन्कृतः ।
त्रिरत्रमुषितो राजा जलमात्रेण वर्तयन् ॥ ३.५८.११ ॥
那位国王虽然值得尊敬,却在城郊未受礼遇。他在那里住了三夜,只靠水维持生命。
3.58.12
पीड्यमानः क्षुधा तत्र फलमृलानि कर्पयन् ।
प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात् ॥ ३.५८.१२ ॥
他在那里饥饿所迫,采集果实与根茎,随后便出发了;达摩衍蒂跟随着他。
3.58.13
क्षुधया पीड्यमानम्तु नलो बहुतिथेऽहनि ।
अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ॥ ३.५८.१३ ॥
饥饿所困的那罗,在许多天之后,看见了几只羽毛如金的鸟。
3.58.14
स चिन्तयामास तदा निषधाधिपतिर्बली ।
अस्ति भक्ष्यो ममाद्यापि वसु चेदं भविष्यति ॥ ३.५८.१४ ॥
于是强大的尼沙陀王那罗心想:“今天我仍有食物可吃,这也将成为财富。”
3.58.15
ततस्तानन्तरीयेण वाससा स समावृणोत् ।
तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा ॥ ३.५८.१५ ॥
于是他用自己的上衣把它们盖住;可是它们全都拿走了他的那件衣服,穿过天空飞走了。
3.58.16
उत्पतन्तः खगा वाक्यमेतदाहुस्ततो नलम् ।
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥ ३.५८.१६ ॥
飞起时,众鸟对那罗说了这些话,看见他站在地上,悲惨、低着脸,只以四方为衣。
3.58.17
वयमक्षाः सुदुर्बुद्धे तववासो जिहीर्षवः ।
आगता न हि नः प्रीतिः सवाससि गते त्वयि ॥ ३.५८.१७ ॥
“最愚蠢的人啊!我们是骰子,是来取你衣服的。你穿着衣服时,我们对你并不欢喜。”
3.58.18
नान्समीक्ष्य गतानक्षानात्मानं च विवाससम् ।
पुण्यश्लोकस्तदा राजा दमयन्तीमथाब्रवीत् ॥ ३.५८.१८ ॥
看见骰子已经飞走,自己也赤身裸体,具有圣德之名的国王那罗于是对达摩衍蒂说道。
3.58.19
येषां प्रकोपादैश्वर्यान्प्रच्युतोऽहमनिन्दिते ।
प्राणयात्रां न विन्देयं दुःखितः क्षुधयाऽन्वितः ॥ ३.५८.१९ ॥
无可指摘的女人啊,因他们的愤怒,我失去了王权;如今我连维持生计之法也找不到,忧伤且饥饿缠身。
3.58.20
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः ।
इमे ते शकुना भूत्वा वासश्चाषहरन्ति मे ॥ ३.५८.२० ॥
因为那些人,纳伊沙陀人不曾敬待我;如今正是他们化作这些飞鸟,夺走了我的衣衫。
3.58.21
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः ।
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ॥ ३.५८.२१ ॥
我,你的丈夫,陷入极大困境,悲痛且失去神智;为了你自己的好处,请听我这句话。
3.58.22
एते गच्छन्ति वहवः पन्थानो दिणापथम् ।
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥ ३.५८.२२ ॥
这些众多道路通往南方之路;越过阿槃提与黎克萨凡山,它们继续延伸。
3.58.23
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा ।
आश्रमाश्च महर्षीणां बहुमूलफलान्विताः ॥ ३.५८.२३ ॥
这是大山温狄亚,流向大海的波俄什尼河,以及富有根茎与果实的大仙人们的修行处。
3.58.24
एष पन्था विदर्भाणामेष यास्यति कोसलान् ।
अतःपरं च देशोऽयं दक्षिणो दक्षिणापथः ॥ ३.५८.२४ ॥
此路通往毗达婆人之地,此路将通往科萨拉人之地;再往前,此地便是南方之路,即南道。
3.58.25
एतद्वाक्यं नलो राजा दमयन्तीं समाहितः ।
उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत ॥ ३.५८.२५ ॥
国王那罗陷于痛苦却心志专注,一再对婆伊米·达摩衍蒂说出这些话,婆罗多啊。
3.58.26
ततः सा वाष्पकलया वाचा दुःखेन कर्शिता ।
उवाच दमयन्ती तं नैषधं करुणं वचः ॥ ३.५८.२६ ॥
于是达摩衍蒂因悲痛而憔悴,声音被泪水哽咽,向尼沙陀国王说出了悲悯的话语。
3.58.27
उद्वेषते मे हृदयं सीदन्त्यङ्गानि सर्वशः ।
तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः ॥ ३.५८.२७ ॥
国王啊,我反复思量你的决定,心中颤抖,四肢也渐渐无力。
3.58.28
हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम् ।
कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने ॥ ३.५८.२८ ॥
你的王国和财富都已被夺走,衣衫褴褛,饥饿疲惫,我怎能抛下你,在这荒僻的森林中独自离去?
3.58.29
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् ।
वने घोरे महाराज नाशयिष्याम्यहं क्लमम् ॥ ३.५८.२९ ॥
伟大的国王啊,你疲惫、饥饿、陷于忧思,我将在这可怕的森林中给你安慰,驱散你的疲惫。
3.58.30
न च भार्यासमं किंचिन्नरस्यार्तस्य भेषजम् ।
नित्यं हि सर्वदुःखेषु सत्यमेतद्व्रवीमि ते ॥ ३.५८.३० ॥
对于痛苦的人而言,没有任何良药能比得上妻子。在一切苦难中这总是真实的,这正是我对你所说的。
3.58.31
एवमेतद्यथाऽऽन्थ त्वं दमयन्ति सुमध्यमे ।
नास्ति बार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥ ३.५८.३१ ॥
美腰的达摩衍蒂啊,正如你所说:对于受苦的人来说,没有与妻子相当的朋友,也没有与之相当的良药。
3.58.32
न चाहं त्यक्तुकामस्त्वां किमलं भीरु शङ्कसे ।
त्यजेयमहमात्मानं न चैव त्वामनिन्दिते ॥ ३.५८.३२ ॥
我并不想抛弃你。胆怯的人啊,你为何徒然恐惧?我可以舍弃自己,但无垢的你,我绝不会舍弃。
3.58.33
यदि मां त्वं महाराज न विहातुमिहच्छसि ।
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥ ३.५८.३३ ॥
大王,若你不愿在此抛弃我,那为何要指出通往毗陀婆的道路?
3.58.34
अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि ।
चेतसा त्वपकृष्टेन मां त्यजेथा महीपते ॥ ३.५८.३४ ॥
大王,我知道你不配抛弃我。但是,大地之主啊,若你的心志已经堕落,你就会抛弃我。
3.58.35
पन्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम ।
अतो निमित्तं शोकं मे वर्धयस्यमरोपम ॥ ३.५८.३५ ॥
人中之最,你一再为我指示道路,因此,如神一般的人啊,你增加了我悲伤的缘由。
3.58.36
यदि चायमभिप्रायस्तव राजन्भविष्यति ।
सहितावेव गच्छावो विदर्भान्यदि मन्यसे ॥ ३.५८.३६ ॥
大王,若你确有此意,并且认为合适,那就让我们二人一同前往毗陀婆吧。
3.58.37
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद ।
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥ ३.५८.३७ ॥
维达尔毗国王将在那里尊敬你,哦,赐予尊荣者。受他尊敬,哦,国王,你将在我们的家中安乐居住。