Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.59.1

इत्युक्तः स तदा देव्या नलो वचनमब्रवीत् ।
यथा राज्यंतव पितुस्तथा मम नसंशयः।
न तु तत्र गमिष्यामि विषमस्थः कथंचन ॥ ३.५९.१ ॥

王后这样说后,那罗当时说了这些话:“你父亲的王国如何,我的也如此,毫无疑问。但我身处困境,绝不会去那里。”

3.59.2

कथं समृद्धो गत्वाऽहं तव हर्षविवर्धनः ।
परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥ ३.५९.२ ॥

“我若富足而去,如何增添你的喜乐?若我落魄而去,又会增添你的悲伤。”

3.59.3

इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः ।
सान्खयामास कल्याणीं वाससोर्धेन संवृताम् ॥ ३.५९.३ ॥

国王那罗这样说着,一次又一次地安慰达摩衍蒂——那位吉祥的女子,她正以他衣服的一半遮身。

3.59.4

तावेकवस्त्रसंवीतावटमानावितस्ततः ।
क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः ॥ ३.५९.४ ॥

两人共披一件衣裳,四处流浪,饥渴交加,疲惫不堪,来到了一座大厅。

3.59.5

तां सभामुपसंप्राप्य तदा स निषधाधिपः ।
वैदर्भ्या सहितो राजा निषसाद महीतले ॥ ३.५९.५ ॥

那罗——尼沙陀之主,与毗达婆公主一同抵达那座大厅后,便坐在了地上。

3.59.6

स वै विवस्त्रो मलिनो विवर्णः पांसुगुण्ठितः ।
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥ ३.५९.६ ॥

他衣衫褴褛,污秽憔悴,满身尘土,与达摩衍蒂一同疲惫不堪,便睡在了大地上。

3.59.7

ततः स्ववसनस्यान्तं दमयन्ती विशांपते ।
भूमावास्तीर्य सुष्वाप पतिमालिङ्ग्य शोभना ॥ ३.५९.७ ॥

于是,人民之主啊,达摩衍蒂将自己衣襟的一角铺在地上,拥抱着丈夫,光彩照人地睡去。

3.59.8

दमयनत्यपि कल्याणी निद्रयाऽपहृता ततः ।
सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥ ३.५९.८ ॥

吉祥的达摩衍蒂也被睡眠征服了;她突然陷入悲伤,这位柔弱而苦修的女子便睡去了。

3.59.9

सुप्तायां दमयन्त्यां तु नलो राजा विशांपते ।
शोकोन्मथितचित्तः सन्न स्म शेते यथा पुरा ॥ ३.५९.९ ॥

人民之主啊,达摩衍蒂入睡后,心被悲伤搅乱的那罗王,不像从前那样躺下睡觉。

3.59.10

स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः ।
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥ ३.५९.१० ॥

他看见王国被夺、朋友全然弃他而去,以及自己在森林中的败落,便陷入了忧虑的沉思。

3.59.11

किं नु मे स्यादिदं कृत्वा किंनु मे स्यादकुर्वतः ।
किंनु मे मरणं श्रेयः परित्यागो जनस्य वा ॥ ३.५९.११ ॥

若我这样做,于我有何益处?若我不这样做,于我又有何益处?对我而言,死亡更好,还是抛弃某人更好?

3.59.12

मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते ।
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥ ३.५९.१२ ॥

她对我如此眷恋,因我而承受这般痛苦;然而若离开了我,她或许有一天会回到自己的亲人那里。

3.59.13

मया निःसंशयं दुखमियं प्राप्स्यत्यनुव्रता ।
उत्सर्गेसंशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥ ३.५९.१३ ॥

因为我,这位忠贞的女子无疑将遭受痛苦。若舍弃她,则有疑虑;然而她或许某处某时仍能得到幸福。

3.59.14

स विनिश्चित्य बहुधा विचार्य च पुनःपुनः ।
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिप ॥ ३.५९.१४ ॥

他反复多方思量后作出决定;人主啊,他认为舍弃达摩衍蒂对她更为有利。

3.59.15

न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि ।
यशस्विनी महाभागा मद्भक्तेयं पतिव्रता ॥ ३.५९.१५ ॥

即使在路上,也无人能以威势欺凌她。她荣耀,福运深厚,忠于我,是贞节的妻子。

3.59.16

एवं तस् तदा बुद्धिर्दमयन्त्यां न्यवर्तत ।
कलिना दुष्टभावेन दमयन्त्या विसर्जने ॥ ३.५९.१६ ॥

于是,那时他的决心便从舍弃达摩衍蒂之事上转了回来,这是受了心怀恶意的迦利影响所致。

3.59.17

सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् ।
चिन्तयित्वाऽध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥ ३.५९.१७ ॥

国王思量自己与她只有一件衣裳,便想到将衣服的一半裁去。

3.59.18

कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया ।
विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा ॥ ३.५९.१८ ॥

"如何割开这件衣裳,才不惊醒我心爱的人呢?"如此思量,国王那罗便在大殿中来回踱步。

3.59.19

परिधावन्नथ नल इतश्चेतश्च भारत ।
आससाद सभोद्देशे विकोशं स्वङ्गमुत्तमम् ॥ ३.५९.१९ ॥

婆罗多啊!那时那罗在四处奔走,来到议事厅的一处,找到一把从鞘中拔出的上好宝剑。

3.59.20

तेनार्धं वाससश्छित्त्वा निवस् च परंतपः ।
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनाम् ॥ ३.५९.२० ॥

他用剑割下一半衣服裹在身上,这位焚敌者便丢下沉睡、失去知觉的毗达婆公主逃走了。

3.59.21

ततो निबद्धहृदयः पुनरागम् तां सभाम् ।
दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिपः ॥ ३.५९.२१ ॥

于是心被牵绊的尼沙陀之主又回到那议事厅,见到达摩衍蒂,便痛哭起来。

3.59.22

यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् ।
सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥ ३.५९.२२ ॥

往昔连风和太阳都不曾见到的我的爱妻,今日却像无依无靠之人一样倒卧在议事厅中央的地上。

3.59.23

इयं वस्त्रावकर्तेन संवीता चारुहासिनी ।
उन्मत्तेव मया हीना कथं बुद्ध्वा भविष्यति ॥ ३.५९.२३ ॥

这位笑容甜美的女子,裹着被割破的衣裳,失去了我,如同疯癫一般;她醒来后会变成怎样呢?

3.59.24

कथमेका सती भमी मया विरहिता शुभा ।
चरिष्यति वने घोरे मृगव्यालनिषेविते ॥ ३.५९.२४ ॥

达摩衍蒂,吉祥而贞洁,与我分离,孤身一人,将如何在那充满鹿与猛兽的可怕森林中徘徊呢?

3.59.25

आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ ।
रक्षन्तु त्वां महाभागे धर्मेणासि समावृता ॥ ३.५९.२५ ॥

愿诸阿提耶、诸婆苏、诸楼陀罗,以及与摩录多众同在的双阿湿毗,护佑你;啊,大福之人,你为法所护。

3.59.26

एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुषि ।
कलिनाऽपहृतज्ञानो नलः प्रातिपष्ठदुद्यतः ॥ ३.५९.२६ ॥

对着大地上美貌无双的爱妻如此说罢,被迦利夺去心智的那罗便准备出发。

3.59.27

गत्वागत्वा नलो राजा पुनरेति सभां मुहुः ।
आकृष्यमाणः कलिना सौहृदेनावकृष्यते ॥ ३.५९.२७ ॥

国王那罗一次又一次地离去,却又再次回到议会厅;他被迦利拉扯,又因友情的假象而被再次拉回。

3.59.28

द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा ।
दोलेव मुहुरायाति याति चैव मुहुर्मुहुः ॥ ३.५९.२८ ॥

那时,这位悲伤者的心仿佛一分为二;他如秋千一般,一次又一次地来,又一次又一次地去。

3.59.29

अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः ।
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥ ३.५९.२९ ॥

那罗被迦利拖拽、神志迷乱,丢下熟睡的妻子逃走了,一路悲切地哀叹良久。

3.59.30

नष्टात्मा कलिनाऽऽविष्टस्तत्तद्विगणयन्मुहुः ।
जगामैकां वने शून्ये भार्यामुत्सृज्य मोहितः ॥ ३.५९.३० ॥

那罗失去了自我,被迦利附身,反复思量这样那样,心智迷乱,抛下妻子,独自走入荒凉的森林。