Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.6.1

गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति ।
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत दुर्मनाः ॥ ३.६.१ ॥

大王啊,维都罗前往般度子孙的隐修处之后,大智的持国心中烦乱,深感痛苦。

3.6.2

विदुरस्य प्रभावं च सन्धिविग्रहकारितम् ।
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति ॥ ३.६.२ ॥

思量维都罗的影响力,他能促成和约或战争,并思考般度子孙将来必将达到的至高兴盛,

3.6.3

स सभाद्वारमागम्य विदुरस्मारमोहितः ।
समक्षं पार्थिवेनद्राणां विसंज्ञः प्रापतद्भुवि ॥ ३.६.३ ॥

他来到议会大厅门口,被对维都罗的回忆所迷惑,在众王面前昏厥倒地。

3.6.4

स तु लब्ध्वा चिरात्संज्ञां समुत्थाय महीतलात् ।
समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् ॥ ३.६.४ ॥

过了很久,他恢复知觉,从地上起身,对站在身旁的桑阇耶说了这些话。

3.6.5

भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः ।
तस्य स्मृत्याऽद्य सुभृशं हृदयं दीर्यतीवमे ॥ ३.६.५ ॥

我的兄弟与朋友,宛如另一位法神化身;今日想起他,我的心仿佛要碎裂了。

3.6.6

तमानय स्वधर्मज्ञं मम भ्रातरमाशु वै ।
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत् ॥ ३.६.६ ॥

他说:“快把我那知晓自身法的兄弟带来!”说罢,那位国王悲切地哀叹起来。

3.6.7

पश्चात्तापाभिसंतप्तो विदुरस्मारमोहितः ।
भ्रातृश्नेहादिदं राजा संजयं वाक्यमब्रवीत् ॥ ३.६.७ ॥

悔恨交加、因想念维杜罗而心神迷乱的国王出于兄弟之情,对桑闍耶说了这番话。

3.6.8

गच्छ संजय जानीहि भ्रातरं विदुरं मम ।
यदि जीवति रोषेण मया पापेन निर्धुतः ॥ ३.६.८ ॥

桑闍耶啊,你去打听我的兄弟维杜罗是否还活着——那是我这罪人在愤怒中逐出的人。

3.6.9

न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन ।
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना ॥ ३.६.९ ॥

我那位兄弟,智慧高深、见识无量,从来未曾对我有丝毫的过错。

3.6.10

स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् ।
न जह्माज्जीवितं प्राज्ञ तं गच्छानय संजय ॥ ३.६.१० ॥

那位至为智慧之人,怎会从我这里遭受过错?智者啊,他不会舍弃生命的。桑闍耶,去,把他带回来。

3.6.11

तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च ।
संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति ॥ ३.६.११ ॥

桑闍耶听了国王的话,得到他的允许,说了声“好”,便快速朝迦美雅迦林而去。

3.6.12

सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः ।
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥ ३.६.१२ ॥

他很快抵达了般度五子所在的那片森林,在那里看见了身披黑鹿皮衣的坚战。

3.6.13

विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः ।
भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरंदरम् ॥ ३.६.१३ ॥

与维杜罗同坐,被成千上万的婆罗门和兄弟们环绕,如同被诸天围绕的因陀罗(城市摧毁者)。

3.6.14

युधिष्ठिरमुपागम्य पूजयामास संजयः ।
भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे ॥ ३.६.१४ ॥

桑闼耶走近坚战,向他致敬;怖军、阿周那及双生子也以应有的礼节敬重他。

3.6.15

राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः ।
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥ ३.६.१५ ॥

国王问候他的安好后,坐得安稳的桑闼耶说明了来意,并说出了这些话。

3.6.16

राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः ।
तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् ॥ ३.६.१६ ॥

啊,刹多!安比迦之子国王持国记挂着你。快去见见那位国王,让他重获生机。

3.6.17

सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् ।
नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम् ॥ ३.६.१७ ॥

啊,善人中最优者!你应当向那些人中俊杰、俱卢族的喜悦者们辞别,然后遵照王中狮子(坚战)的命令动身。

3.6.18

एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः ।
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥ ३.६.१८ ॥

被这样告知后,智慧而眷顾亲族的维杜罗,在坚战允许下,再次返回象城(Hāstinapura,即象城)。

3.6.19

तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः ।
दिष्ट्या प्राप्तोसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥ ३.६.१९ ॥

大光明的安比卡之子持国对他说:“幸运地你来了,精通法者!幸运地,无瑕者,你还记得我。”

3.6.20

अद्य चाहं दिवारात्रौ त्वत्कृते भरतर्षभ ।
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ॥ ३.६.२० ॥

今天,婆罗多族的雄牛啊,因为你,我日夜不眠,看着自己的身体,感到异样。

3.6.21

सोङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह ।
क्षम्यतामिति चोवाचयदुक्तोसि मयाऽनघ ॥ ३.६.२१ ॥

他把维杜罗抱在膝上,闻着他的头顶,说:“请原谅我对你说过的话,无瑕者。”

3.6.22

क्षान्तमेव मया राजन्गुरुर्मे परमो भवान् ।
तथाऽहमागतः शीघ्रं त्वद्दर्शनपरायणः ॥ ३.६.२२ ॥

大王啊,我早已原谅了;您是我最尊敬的师长。因此我迅速前来,一心想见您。

3.6.23

भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतनाः ।
दीनानुकम्पिनो राजन्नात्र कार्या विचारणा ॥ ३.६.२३ ॥

人中之虎啊,有些人心向法,怜悯困苦之人。大王啊,此事不必再作考虑。

3.6.24

पाण्डोः पुत्रा यादृशास्ते तादृशा मे सुतास्तव ।
दीना इतीव मे बुद्धिरभिपन्नाऽद्य तान्प्रति ॥ ३.६.२४ ॥

般度的儿子们是怎样的,我的儿子和你的儿子也是怎样的。今天我的心思认为他们是困苦的。

3.6.25

अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती ।
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥ ३.६.२५ ॥

如此,二位大光明的兄弟毗度罗与持国互相安抚之后,获得了无上的喜悦。