Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.60

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.60.1

अपक्रान्ते नले राजन्दमयन्ती गतक्लमा ।
अबुध्यत वरारोहा संत्रस्ता विजने वने ॥ ३.६०.१ ॥

国王啊,那罗离去之后,疲惫已消的美腰达摩衍蒂醒来,在荒僻的森林中惊恐不已。

3.60.2

अपश्यमाना भर्तारं शोकदुःखसमन्विता ।
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् ॥ ३.६०.२ ॥

不见丈夫,满怀忧伤与痛苦,惊恐的达摩衍蒂高声呼喊尼沙陀的那罗:“大王啊!”

3.60.3

हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् ।
हा हताऽस्मि विनष्टाऽस्मि भीताऽस्मि विजने वने ॥ ३.६०.३ ॥

哎呀,夫君!哎呀,大王!哎呀,主人!你为何抛弃我?哎呀,我完了,我毁灭了,我在这荒僻的森林中恐惧万分!

3.60.4

ननु नाम महारज धर्मज्ञः सत्यवागसि ।
कथंविधस्त्वंहि तथा सुप्तामुत्सृज्य मां गतः ॥ ३.६०.४ ॥

大王啊,你不是通晓正法、言语真实的人吗?像你这样的人,怎能在我熟睡时抛下我离去?

3.60.5

कथमुत्सृज्यगन्ताऽसि वश्यां भार्यामनुव्रताम् ।
विशेषतो नापकृतः परेणापकृतो ह्यसि ॥ ३.६०.५ ॥

你怎能抛弃顺从、专一的妻子?尤其是,无人伤害过你,你却被他人所害。

3.60.6

शक्यसे न गिरः सत्याः कर्तुं मयि नरेश्वर ।
यास्त्वया लोकपालानां सन्निधौ कथिताः पुरा ॥ ३.६०.६ ॥

人主啊,你不能为我实现昔日在世界护卫者面前所说的那些真实誓言吗?

3.60.7

नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ ।
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति ॥ ३.६०.७ ॥

人中之牛啊,死亡不会在不该的时候降临于凡人;你所抛弃的爱妻,此刻仍然尚存片刻。

3.60.8

पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ ।
भृशं भीतास्मि दुर्धर्ष दर्शयात्मानमीश्वर ॥ ३.६०.८ ॥

人中之牛啊,这玩笑已经够了;无敌的主啊,请显现吧,我已极为惊恐。

3.60.9

दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध ।
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥ ३.६०.९ ॥

国王啊,我看见你了,我看见你了;纳伊沙陀啊,你就站在这里。为何躲在灌木丛中,不回答我?

3.60.10

नृशंसां वत राजेन्द्र यन्मामेवंगतामिह ।
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ॥ ३.६०.१० ॥

国王之主啊,你不拥抱安慰此刻在此悲泣的我,实在残忍,啊国王。

3.60.11

न शोचाम्यहमात्मानं न चान्यदपि किंचन ।
कथं नु भवितास्येक इति त्वां नृप शोचये ॥ ३.६०.११ ॥

我不为自己悲伤,也不为其他任何事悲伤;国王啊,我为你悲伤,想到你将如何孤独一人。

3.60.12

कथं नु राजंस्तृषितः क्षुक्षितः श्रमकर्शितः ।
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ॥ ३.६०.१२ ॥

国王啊,你口渴、饥饿、疲惫不堪,傍晚在树根旁,再也见不到我,你将如何度过?

3.60.13

ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना ।
इतश्चेतश्च रुदती पर्यधावत दुःखिता ॥ ३.६०.१३ ॥

于是她被强烈的悲痛所折磨,仿佛被忧愤燃烧,悲伤地哭泣着,四处奔跑。

3.60.14

मुहुरुत्पतते बाला मुहुः पतति विह्वला ।
मुहुरालीयते भीता मुहुः क्रोशति रोदिति ॥ ३.६०.१४ ॥

这位少女一次次站起,又一次次因惊惶而倒下;一次次因害怕而依偎,一次次哭喊哭泣。

3.60.15

अतीव शोकसंतप्ता मुहुर्निःश्वस् विह्वला ।
उवाच भैमी निःश्वस् रोदमाना पतिव्रता ॥ ३.६०.१५ ॥

她深受极大悲痛煎熬,屡屡叹息,心神慌乱的毗摩之女,一边哭泣,这位贞洁的妻子说道。

3.60.16

यस्याभिशापाद्दुःखार्तो नैष नन्दति नैषधः ।
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ॥ ३.६०.१६ ॥

因为这位那罗陀所受的诅咒,他痛苦不堪而不得欢喜;那使他如此的人,必将因这痛苦而承受更大的痛苦。

3.60.17

अपापचेतसं पापो य एवं कृतवान्नलम् ।
तस्माद्दुःखतरं प्राप्य जीवत्वमसुखजीविकाम् ॥ ३.६०.१७ ॥

对心地纯洁的那罗陀做出如此行为的罪人,愿他陷入更加痛苦的境地,过着没有幸福的生活。

3.60.18

एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः ।
अन्वेषति स्म भर्तारं वने श्वापदसेविते ॥ ३.६०.१८ ॥

她这样悲叹着,那位大德国王的王后开始在野兽出没的森林中寻找她的丈夫。

3.60.19

उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः ।
हाहा राजन्निति मुहुरितश्चेतश्च धावति ॥ ३.६०.१९ ॥

毗摩之女如发狂般哀哭,四处奔走,一再呼喊:「哎呀,大王!」

3.60.20

तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् ।
करुणं बहुशोचन्तीं विलपन्तीं सुमध्यमाम्। ॥ ३.६०.२० ॥

那位纤腰女子,日渐消瘦,如鹗鸟般哀号,悲痛地大声哭泣。

3.60.21

सहसाऽभ्यागतां भैमीमभ्याशपरिवर्तिनीम् ।
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ॥ ३.६०.२१ ॥

毗摩之女忽然走近,在附近徘徊,被一条巨蟒般的、身躯庞大而饥饿的鳄类怪物抓住。

3.60.22

सा ग्रस्यमाना ग्रहेण शोकेन च पराजिता ।
नात्मानं शोचति तथा यथा शोचति नैषधम् ॥ ३.६०.२२ ॥

她被鳄怪抓住,又被悲痛击倒,哀悼自己的程度,远不及哀悼尼沙陀王那罗的程度。

3.60.23

द्वा नाथ मामिह वने ग्रस्यमानामनागसम् ।
ग्राहेणानेन विजने किमर्थं नानुधावसि ॥ ३.६०.२३ ॥

夫君啊!在这荒僻的森林里,你为何不跑来救我这个无辜、被这鳄怪抓住的人?

3.60.24

कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध ।
कथं भवाञ्जगामाद्य मामुत्सृज्य वने प्रभो।
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चोतो धनानि च ॥ ३.६०.२४ ॥

尼沙陀之子啊!你日后想起我,又将如何?主啊!你今日为何将我抛弃在森林中而离去?摆脱罪过之后,重新获得智慧与财富,你又将如何?

3.60.25

श्रान्तस्य ते क्षुधार्तस् परिग्लानस्य नैषध ।
कः श्रमं राजशार्दूल नाशयिष्यति तेऽनघ ॥ ३.६०.२५ ॥

尼沙陀之子啊,疲惫、饥饿所苦而极度困乏的你,其劳累将由谁消除?王中之虎啊,无罪者啊?

3.60.26

तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् ।
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह ॥ ३.६०.२६ ॥

他看到这位大眼睛的女子被蛇如此抓住,又听到她的哭喊,便迅速向她奔去。

3.60.27

तां तु दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् ।
त्वरमाणो मृगव्याधः संचरन्गहने वने।
समभिक्रम्य वेगेन सत्वरः स वनेचरः ॥ ३.६०.२७ ॥

他看到这位大眼睛的女子被蛇如此抓住,在茂密的森林中游荡的猎人急忙迅速地冲向她。

3.60.28

मुखे तं पाटयामास शस्त्रेण निशितेन च ।
निर्विचेष्टं भुजङ्गं तं विशस् मृगजीवनः ॥ ३.६०.२८ ॥

他用锋利的武器剖开了蛇的嘴,那猎鹿人杀死了这条不动的蛇。

3.60.29

मोक्षयित्वा स तांव्याधः प्रक्षाल्य सलिलेन ह ।
समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥ ३.६०.२९ ॥

他解救了她,用水为她洗净,安慰她,待她吃过东西之后,那猎人便问她,婆罗多的后裔啊。

3.60.30

कस्य त्वं मृगशावाक्षि कथं चास्यागता वनम् ।
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ॥ ३.६०.३० ॥

鹿崽般眼睛的女子啊,你是谁家的女儿,怎么会来到这片森林?光彩照人的女子啊,你怎么会遭受这样的大难?

3.60.31

दमयन्ती तथा तेन पृच्छ्यमाना विशांपते ।
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ॥ ३.६०.३१ ॥

她被他这样询问,众民之主啊,达摩衍蒂将所发生的一切如实讲给他听,婆罗多啊。

3.60.32

तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् ।
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ॥ ३.६०.३२ ॥

她半裹着一件衣裳,臀部与乳房丰满,肢体柔嫩而无瑕,面容如满月。

3.60.33

अरालपक्ष्मनयनां तथा मधुरभाषिणीम् ।
लक्षयित्वा मृगव्याधः कामस्य वशमीयिवान् ॥ ३.६०.३३ ॥

猎人看到她那双睫毛不甚张开的眼睛和甜美的言语,便被欲望所控制。

3.60.34

तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया ।
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ॥ ३.६०.३४ ॥

那被欲望折磨的猎人便先用温和柔顺的话语安慰她;那位美丽的女子察觉了他的心思。

3.60.35

दमयन्त्यपि तं दुष्टमुपलभ्य पतिव्रता ।
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ॥ ३.६०.३५ ॥

忠于丈夫的达摩衍蒂也察觉了那恶人,充满了强烈的愤怒,仿佛因愤怒而燃烧起来。

3.60.36

स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः ।
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ॥ ३.६०.३६ ॥

可是那卑劣、心怀恶念、急于侵犯她的人,却认为她如燃烧的火焰一般不可接近。

3.60.37

दमयन्ती तु दुःखार्था पतिराज्यविनाकृता ।
अतीतवाक्यथे काले शशापैनं रुषा किल ॥ ३.६०.३७ ॥

然而达摩衍蒂因悲痛,失去丈夫与王国,在言语之时已过之后,怒而诅咒了他。

3.60.38

यथाऽहं नैषधादन्यं मनसाऽपि न चिन्तये ।
तथाऽयं पततां क्षुद्रः परासुर्मृगजीवनः ॥ ३.६०.३८ ॥

正如我即使心中也不思念那罗(纳湿陀)以外的他人,愿这个杀鸟、以猎鹿为生的卑劣之人,失去生命。

3.60.39

उक्तमात्रे तु वचने तया स मृगजीवनः ।
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ॥ ३.६०.३९ ॥

她话音刚落,那个以猎鹿为生的猎人便失去生命,倒在地上,如同被火焚烧的树木。