Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.61

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.61.1

सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा ।
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥ ३.६१.१ ॥

杀死那猎人之后,这位莲花眼的女子出发前往那座可怖而空寂、充满蟋蟀鸣叫之声的森林。

3.61.2

सिंहद्वीपिरुरुव्याघ्रवराहर्क्षगणैर्युतम् ।
नानापक्षिगणाकीर्णां म्लेच्छतस्करसेवितम् ॥ ३.६१.२ ॥

充满狮子、豹子、鲁鲁鹿、老虎、野猪和熊群,遍布众多鸟群,有蛮夷和盗贼出没。

3.61.3

सालवेणुधवाश्वत्थतिन्दुकेङ्गुदिकिंशुकैः ।
अर्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः ॥ ३.६१.३ ॥

覆盖着娑罗树、竹、达婆树、菩提树、钵树、印古迪树和红花树,被阿周那树与阿利什塔树遮蔽,并有苏因丹那树与舍摩离树相伴。

3.61.4

जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् ।
पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम् ॥ ३.६१.४ ॥

布满蒲桃、芒果、罗德罗、卡迪拉、柚木和藤条等树木,被莲花树、余甘子、枫树、神圣的无花果树环绕。

3.61.5

बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम् ।
प्रियालतालखर्जूरहरीतकिबिभीतकैः ॥ ३.६१.५ ॥

覆盖着棘子树和木橘树,遍布榕树,并有普利亚拉树、棕榈、枣椰、诃子和毗醯勒树。

3.61.6

नानाधातुशतैर्नद्धान्विविधानपि चाचलान् ।
निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः ॥ ३.६१.६ ॥

各式山峦被数百种矿石所装点,鸟鸣回荡的灌木丛,以及景象奇妙的山洞。

3.61.7

नदी सरांसि वापीश्च विविधांश्चरतो द्विजान् ।
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् ॥ ३.६१.७ ॥

她看见河流、湖泊和池塘中游弋的各种飞鸟,还看见许多形貌可怖的毗舍遮、蛇和罗刹。

3.61.8

पल्वलानि तटाकानि गिरिकूटानि सर्वशः ।
सरित्सरांसि च तदा ददर्शाद्भुतदर्शनाम् ॥ ३.६१.८ ॥

小池塘、蓄水池、山峰、河流与湖泊——她那时在各处看见了那些景象奇异的地方。

3.61.9

यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी ।
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥ ३.६१.९ ॥

在这里,毗达婆王之女看见成群的水牛、野猪、豺狼、熊、猴子和蛇。

3.61.10

तेजसा यशसा लक्ष्म्या स्थित्या च परया युता ।
वैर्दभी विचचारैका नलमन्वेषती तदा ॥ ३.६१.१० ॥

毗达婆公主具备光辉、名望、美貌与无上的仪态,那时独自漫游,寻找那罗。

3.61.11

नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् ।
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥ ३.६१.११ ॥

王女薄伽咪在那里毫不畏惧;她因丈夫的厄运而憔悴,已来到一片可怕的森林。

3.61.12

विदर्भतनया राजन्विललाप सुदुःखिता ।
भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता ॥ ३.६१.१२ ॥

大王啊!毗达婆王之女极度悲伤,哀声哭泣;她因对丈夫的哀痛而身心俱疲,便坐在一块岩石上。

3.61.13

सिह्योरस्क महाबाहो निषधानां जनाधिप ।
क्वनु राजन्गतोसि त्वं त्यक्त्वा मां विजने वने ॥ ३.६१.१३ ॥

啊,狮子般胸膛的、大臂的尼until王!啊,国王,你抛弃我在这荒寂的森林里,究竟去了何处?

3.61.14

अश्वमेधादिभिर्वीर क्रतुभिश्चाप्तदक्षिणैः ।
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥ ३.६१.१४ ॥

啊英雄,你已举行马祭等祭祀并慷慨布施祭司,人中之虎啊,你怎么竟对我虚假行事?

3.61.15

यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते ।
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ॥ ३.६१.१५ ॥

人中最优秀者啊,大光明者,你应当履行你在我面前所说的话,吉祥者啊;愿那是真实的,王中之牛啊。

3.61.16

यच्चोक्तं विहगैर्हंसैः समीपे तव भूमिप ।
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥ ३.६१.१६ ॥

大地之主啊,鸟和天鹅在你身边所说的,以及它们在我身边所说的,你应当加以考虑。

3.61.17

चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः ।
स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः ॥ ३.६१.१७ ॥

一方面是四吠陀及其支分与副支,广泛而熟习,人中之虎啊;另一方面则只是一个真理。

3.61.18

तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर ।
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ॥ ३.६१.१८ ॥

因此,灭敌者啊,人主啊,你应当践行真实。英雄啊,请履行你从前在我面前所说的诺言。

3.61.19

हा वीर ननुनामाहमिष्टा किल तवानघ ।
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ॥ ३.६१.१९ ॥

唉,英雄!无过之人,我难道不是你所爱的吗?在这可怕的森林里,你为何不回答我?

3.61.20

भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः ।
अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥ ३.६१.२० ॥

这头凶猛的、张着大口、形貌可怖的林中之王,被饥饿所困,正在威胁我。你为何不救护我?

3.61.21

न मे त्वदन्या काचिद्धि प्रियाऽस्तीत्यब्रवीस्तदा ।
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥ ३.६१.२१ ॥

你那时曾说:'除你之外,无人为我所爱。'吉祥之人啊,国王啊,请使你先前所说的那句话成真。

3.61.22

उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप ।
ईप्सितामीप्सितोसि त्वं किं मां न प्रतिभाषसे ॥ ३.६१.२२ ॥

人主啊!我,你心爱的妻子,像疯了一样哀号;我是你所求的,你也是我所求的。你为何不回答我?

3.61.23

कृशां दीनां विवर्णां च मलिनां वसुधाधिप ।
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥ ३.६१.२३ ॥

大地之主啊!我,消瘦、憔悴、面色苍白、污秽,只以半幅衣裳遮身,孤独一人,像无依无靠的人那样哀号……

3.61.24

यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन ।
न मानयसि मामार्य रुदन्तीमरिकर्शन ॥ ३.६१.२४ ॥

我像一只离群的母鹿,孤单一人。广目的人啊,高贵的人啊,我哭泣时你却不尊重我,击败敌人的人啊!

3.61.25

महाराज महारण्ये मामिहैकाकिनीं सतीम् ।
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥ ३.६१.२५ ॥

大王啊,在这大森林里,我,你的妻子,忠贞而孤身一人,正在对你说话。你为何不回应我?

3.61.26

कुलशीलोपसंपन्नां चारुसर्वाङ्गशोभनाम् ।
अनुव्रतां महाराज किं मां न प्रतिभाषसे ॥ ३.६१.२६ ॥

大王啊,我出身高贵、品性端正,全身俊美,对你忠顺,你为何不回应我?

3.61.27

नाद्यत्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम ।
वने चास्मिन्महाधोरे सिंहव्याघ्रनिषेविते ॥ ३.६१.२७ ॥

人中之杰啊,今天我在这座山上,也在这片充满狮虎的可怕森林里,都看不到你。

3.61.28

शयानमुपविष्टं वा स्थितं वा निषधाधिप ।
प्रस्थितं वा नरश्रेष्ठ मम शोकनिबर्हण ॥ ३.६१.२८ ॥

尼沙陀之主啊,无论你是躺着、坐着、站着,还是正在出发——人中之杰,消除我忧愁的人啊!

3.61.29

कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता ।
कच्चिद्दृष्टस्त्वयाऽरण्ये संगत्येति नलो नृपः ॥ ३.६१.२९ ॥

我因悲痛而煎熬,为你而忧伤憔悴,该问谁呢?你在森林里遇见过那位名叫那罗的国王吗?

3.61.30

को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नृपम् ।
अभिरूपं महात्मानं परव्यूहविनाशनम् ॥ ३.६१.३० ॥

谁能告诉我,那位今日居住在这森林中的国王——俊美、高尚、摧毁敌军阵形的人——的消息呢?

3.61.31

यमन्वेपसि राजानं नलं पद्मनिभेक्षणम् ।
अयंस इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥ ३.६१.३१ ॥

今日我将从谁口中听到甜美的话语——“他在这里”——关于你所寻找的、莲花眼的那位国王那罗?啊,雄牛!

3.61.32

अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः ।
शार्दूलोऽभिमुखोऽभ्येति पृच्छाम्येनमशङ्किता ॥ ३.६१.३२ ॥

这位森林之王、威严的四牙大颌之虎正迎面而来;我毫无惧色地问他。

3.61.33

भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः ।
विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥ ३.६१.३३ ॥

你是这片森林中万兽的主宰;请知道我是毗达婆国王之女达摩衍蒂。

3.61.34

निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः ।
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ॥ ३.६१.३४ ॥

我是尼沙陀之主、诛灭敌人的那罗的妻子;我独自寻找丈夫,悲苦无依,被忧伤消瘦。

3.61.35

आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः ।
सिंहस्कन्धो महाबाहुः पद्मपत्रनिभेक्षणः ॥ ३.६१.३५ ॥

百兽之王啊,若你曾在此见过那罗,请安慰我——那狮肩、大臂、莲瓣眼的那罗。

3.61.36

अथवाऽरण्यनृपते नलं यदि न शंससि ।
मां खादय मृगश्रेष्ठ दुःखादस्माद्विमोचय ॥ ३.६१.३६ ॥

或者,森林之王啊,若你不告诉我那罗的消息,百兽之最,请吞食我吧,使我脱离这痛苦。

3.61.37

श्रुत्वाऽरण्ये विलपितं ममैष मृगराट् स्वयम् ।
यात्येष मृष्टसलिलामापगां सागरोपमाम् ॥ ३.६१.३७ ॥

这森林之王听到我在林中的哀号,竟自行走向一条甘甜之水、如大海般的河流。

3.61.38

इमं शिलोच्चयं पृच्छे शृङ्गैर्बहुभिरुच्छितैः ।
विराजितं दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥ ३.६१.३८ ॥

我询问这座岩石山,它以众多高耸入云的山峰而璀璨,山峰色彩各异,令人心醉。

3.61.39

नानाधातुसमाकीर्णं विविधोपलभूषितम् ।
आस्यारण्यस्य महतः केतुभूतमिवोच्छितम् ॥ ३.६१.३९ ॥

此山蕴藏众多矿石,点缀各色奇石,如同高高的旗帜矗立在广袤森林的面容之上。

3.61.40

सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् ।
पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ॥ ३.६१.४० ॥

狮子、老虎、大象、野猪、熊与鹿众多,四面八方回荡着各种飞鸟的鸣叫。

3.61.41

किंशुकाशोकबकुलपुन्नागैरुपशोभितम् ।
कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम् ॥ ३.६१.४१ ॥

以金苏、无忧、八树、龙树诸树装点,又有吉祥树、菩提树与榕树的美丽花朵点缀其间。

3.61.42

सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम् ।
पृथिव्या रुचिराकारं चूडामणिमिव स्थितम्।
निरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥ ३.६१.४२ ॥

对这山中之王,它满是江河、飞鸟与山峰,形态秀美,犹如大地的冠上明珠——大王啊,我如今要向它发问。

3.61.43

भगवन्नचलश्रेष्ठ दिव्यद्रशन विश्रुत ।
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ॥ ३.६१.४३ ॥

尊者啊,不动者中最殊胜者,具有神圣的容貌,名声远扬,给予庇护,充满吉祥,大地的承载者:向您致敬。

3.61.44

प्रणमे त्वाऽभिगम्याहं राजपुत्रीं निबोध माम् ।
राजस्नुषां राजभार्यां दमयन्तीति विश्रुताम् ॥ ३.६१.४४ ॥

我走近您,向您致敬。请知道我是国王之女、国王的儿媳、国王的妻子,名为达摩衍蒂。

3.61.45

राजा विदर्भाधिपतिः पिता मम महारथः ।
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥ ३.६१.४५ ॥

我的父亲,毗达婆国的君主,大车将Bhīma,大地之主,四种姓的守护者。

3.61.46

राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् ।
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥ ३.६१.४६ ॥

诸王中最杰出者,举行了富于布施的拉贾苏耶祭与马祭,双眼宽广、美丽而修长。

3.61.47

ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः ।
शीलवान्वीर्यसंपन्नः पृथुश्रीर्धर्मविच्छुचिः ॥ ३.६१.४७ ॥

敬重婆罗门,行为端正,言语真实,无嫉妒,品德高尚,具备勇力,大有光荣,通晓法,清净无染。

3.61.48

सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः ।
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥ ३.६१.४८ ॥

善于守护毗达婆人、征服敌军的君主,请知道我是他的女儿,尊者啊,我现在站在您面前。

3.61.49

निषधेषु महाराजः श्वशुरो मे नरोत्तमः ।
गृहीतनामा विख्यातो वीरसेन इति स्म ह ॥ ३.६१.४९ ॥

在尼沙陀国,伟大的国王,我的岳父,人中最优秀者,以毗罗塞那之名闻名于世。

3.61.50

तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः ।
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ॥ ३.६१.५० ॥

他的儿子,英勇、光荣、真正勇猛的人,依次从父亲那里继承王国并统治着它。

3.61.51

नलो नामारिहा श्यामः पुण्यल्को इति श्रुतः ।
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ॥ ३.६१.५१ ॥

名为那罗的,摧敌者,肤色黝黑,有圣洁名声的人:敬重婆罗门,精通吠陀,善于言辞,行善积德,饮苏摩,建造火坛。

3.61.52

यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता ।
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥ ३.६१.५२ ॥

他是行祭者、施主、武士,且善于治理。山中至尊啊,请知道我,来到此地的人,是他的妻子。

3.61.53

त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् ।
अन्वेषमाणां भर्तारं नलं नरवरोत्तमम् ॥ ३.६१.५३ ॥

被财运抛弃、失去丈夫、无人庇护、遭受不幸的我,正在寻找我的丈夫那罗,他是人中最优秀者中的至尊。

3.61.54

खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः ।
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ॥ ३.६१.५४ ॥

山中至尊啊,你以这数百座峰峦触碰天空,是否在这可怕的森林中见过国王那罗?

3.61.55

विक्रान्तः सत्त्ववान्वीरो भर्ता मम महायशाः ।
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥ ३.६१.५५ ॥

我那勇敢、有力、英武、大名鼎鼎的夫君,尼沙陀之主那罗,你可曾见到?

3.61.56

कं मीं विलपतीमेकां पर्वतश्रेष्ठ विह्वलाम् ।
गिरा नाश्वासयस्यद्यस्वां सुतामिव दुखितां ॥ ३.६१.५६ ॥

山中之王啊!我独自哀号、心神慌乱,你为何今日不以言语安慰我,如同安慰你自己悲伤的女儿?

3.61.57

वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते ।
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ॥ ३.६१.५७ ॥

勇士啊,英武的人,知法者,守诺者,大地之主!你若在这片森林中,国王啊,便请亲自现身吧。

3.61.58

कदा सुस्निग्गम्भीरां जीमूतस्वनसन्निभाम् ।
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ॥ ३.६१.५८ ॥

我何时才能听到尼沙陀那温柔深沉、如云中雷鸣、如甘露般的声音?

3.61.59

वैदर्भ्येहीति विस्पष्टां शुभां राज्ञो महात्मनः ।
आत्माभिधायिनीमृद्धां मम शोकविनाशिनीं ॥ ३.६१.५९ ॥

“维达尔毗啊,来吧”——那清晰吉祥、大德之王自报身份的声音,丰盈圆满,能消除我的忧愁。

3.61.60

इतिसा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी ।
दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥ ३.६१.६० ॥

对那山中之王说完这些话,王女达玛延蒂便又朝北方走去。

3.61.61

सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना ।
तापसारण्यमतुलं दिव्यकाननशोभितम् ॥ ३.६१.६१ ॥

她走了三天三夜,见到了那无与伦比、装饰着天界园林的苦行者之林。

3.61.62

वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् ।
नियतैः संयताहारैर्दमशौचसमन्वितैः ॥ ३.६१.६२ ॥

装饰着与婆私吒、跋利古、阿底利相等的苦行者,他们克己、节食,具备自制与清净。

3.61.63

अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च ।
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥ ३.६१.६३ ॥

饮水者、食风者、食叶者,以及诸根已调伏、极具福德、渴望看见天道之路的苦行者。

3.61.64

वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः ।
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥ ३.६१.६४ ॥

她看见了那可爱的仙人精舍群,住着身披树皮与鹿皮、诸根调伏的仙人。

3.61.65

नानामृगगणैर्जुष्टं शाखामृगगणायुतम् ।
तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत् ॥ ३.६१.६५ ॥

这里有许多鹿群出没,猴群充满,苦行者聚集。她一看见便感到安慰。

3.61.66

सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना ।
वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना ॥ ३.६१.६६ ॥

眉目秀美,发美,腰美,胸美,齿美,面美,光彩照人,步态稳重,目白而修长。

3.61.67

सा विवेशाश्रमपदं वीरसेनसुतप्रिया ।
योषिद्रत्नं महाभागा दमयन्ती तपस्विनी ॥ ३.६१.६७ ॥

她是毗罗色那之子所爱的女人,女中之宝,大福的达摩衍蒂,以苦行者的身份进入了修道院的范围。

3.61.68

साऽभिवाद्य तपोवृद्धान्विनयावनता स्थिता ।
स्वागतं त इतिप्रोक्ता तैः सर्वैस्तापसोत्तमैः ॥ ३.६१.६८ ॥

她向苦行中的长者致敬,谦恭地低头站立。那些苦行者中的最优秀者们都对她说:“欢迎你。”

3.61.69

पूजां चास्या यथान्यायं कृत्वा तत्रतपोधनाः ।
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ॥ ३.६१.६९ ॥

那些苦行富足的人依礼向她致敬,说:“请坐。”随后又说:“请说,我们该为你做什么?”

3.61.70

तानुवाच वरारोहा कच्चिद्भगवतामिह ।
तपःस्वग्निषु धर्मेषु मृगपक्षिषु चानघाः ॥ ३.६१.७० ॥

那位腰肢美好的女子对他们说:“无罪的尊者们,此处你们的苦行、圣火、法,以及鹿和鸟,都平安吗?”

3.61.71

कुशलं वो महाभागाः स्वधर्माचरणेषु च ।
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ॥ ३.६१.७१ ॥

“诸位大福者,你们履行自己的法是否安好?”他们回答这位有名望的女子:“吉祥的人啊,到处都好。”

3.61.72

ब्रूहि सर्वानवद्याङ्गि का त्वं किंच चिकीर्षसि ।
दृष्ट्वैव ते परंरूपं द्युतिं च परमामिह ॥ ३.६१.७२ ॥

“请告诉我们,你肢体无瑕的人,你是谁?你想在此做什么?看到你至高的容貌与卓越的光辉,确实是……”(我们这样问)。

3.61.73

विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ।
अस्यारण्यस्य देवी त्वमुताहोऽस्य महीभृतः।
अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते ॥ ३.६१.७३ ॥

我们感到惊奇。请宽心,不要悲伤。你是这森林的女神,还是这座山的,或这条河的?吉祥无瑕的人啊,请说实话。

3.61.74

साऽब्रवीत्तानृपीन्नाहमरण्यस्यास्य देवता ।
न चाप्यस्य गिरर्विप्रा नैव नद्याश्च देवता ॥ ३.६१.७४ ॥

她对那些仙人说:我不是这森林的女神,婆罗门们,也不是这座山的,更不是这条河的女神。

3.61.75

मानुषीं मां विजानीत यूयं सर्वेतपोधनाः ।
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥ ३.६१.७५ ॥

诸位苦行之士,请知道我是凡间女子。我将详细述说,请从我这里听全部。

3.61.76

विदर्भेपु महीपालो भीमो नाम महीपतिः ।
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥ ३.६१.७६ ॥

在毗达婆国有一位名叫毗摩的君主,大地之主。诸位再生者中的至尊,请知道我是他的女儿。

3.61.77

निपधाधिपतिर्धीमान्नलो नाम महायशाः ।
वीरः संग्रामजिद्विद्वान्मम भर्ता विशांपतिः ॥ ३.६१.७७ ॥

尼沙陀的主君,聪慧、名声远扬的英雄那罗,战场上的胜者,博学之士,人民之主,是我的夫君。

3.61.78

देवताभ्यर्चनपरो द्विजातिजनवत्सलः ।
गोप्ता निपधवंशस्य महातेजा महाबलः ॥ ३.६१.७८ ॥

虔诚供奉诸神,爱护再生者,守护尼沙陀家族,光辉盛大,力量强大。

3.61.79

सत्यवान्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः ।
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः ॥ ३.६१.७९ ॥

他诚实守信,知晓法义,智慧过人,言出必践,能摧毁敌人,敬重婆罗门,虔诚奉神,光辉显赫,能攻克敌方城池。

3.61.80

नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः ।
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ॥ ३.६१.८० ॥

那位名叫那罗的王中之王,光辉如天王因陀罗,是我的丈夫,眼睛宽大,面容如满月,能杀敌。

3.61.81

आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः ।
सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥ ३.६१.८१ ॥

他主持最重要的祭祀,精通吠陀及其支分,战场上斩杀敌人,光辉与日月相等。

3.61.82

स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभिः ।
आहृय पृथिवीपालः सत्यधर्मपरायणः।
देवनेकुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥ ३.६१.८२ ॥

那位守护大地、专心于真理与法的国王,被一些心怀诡诈、不善、不克己、擅长掷骰而奸诈的人召去,输掉了王国与财富。

3.61.83

तस्य मामवगच्छध्वं भार्यां राजर्पभस्य वै ।
दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम् ॥ ३.६१.८३ ॥

请知道,我是那位王中雄牛的妻子,名叫达摩衍蒂,渴望再见我的丈夫。

3.61.84

सा वनानि गिरींश्चैव सरांसि सरितस्तथा ।
पल्वलानि च सर्वाणि तथाऽरण्यानि सर्वशः ॥ ३.६१.८४ ॥

她走遍森林与山岳、湖泊与河流、小池塘以及所有荒野,处处寻找。

3.61.85

अन्वेपमाणआ भर्तारं नलं रणविशारदम् ।
महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥ ३.६१.८५ ॥

我寻找善战、心胸高尚、精通武艺的丈夫那罗,悲伤地在此游荡。

3.61.86

कच्चिद्भगवतां रम्यं तपोवनमिदं नृपः ।
भवेत्प्राप्तो नलो नाम निपधानां जनाधिपः ॥ ३.६१.८६ ॥

或许名叫那罗的国王,尼沙陀之主,曾来到这座尊者们可爱的苦行林吗?

3.61.87

यत्कृतेऽहमिदं दुःखं प्रपन्ना भृशदारुणम् ।
वनं प्रतियं धोरं शार्दूलमृगसेवितम् ॥ ३.६१.८७ ॥

因为他,我陷入这极其可怖的苦难,来到这充满虎豹与鹿群的可怕凶险之林,

3.61.88

यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् ।
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोक्षणात् ॥ ३.६१.८८ ॥

若在几日几夜之内我见不到国王那罗,我将舍弃此身,以求自身的善果。

3.61.89

कोनु मे जीवितेनार्थस्तमृते पुरुषर्षभम् ।
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ॥ ३.६१.८९ ॥

没有他,这位人中雄牛,我的生命还有什么意义?我今日被夫君之痛折磨,如何能活下去?

3.61.90

तथा विलपतीमेकामरण्ये भीमनन्दिनीम् ।
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥ ३.६१.९० ॥

独自在林中如此哀叹的般度(毗摩)之女达摩衍蒂,那些诚实的苦行者便对她说道。

3.61.91

उदर्कस्तव कल्याणि कल्याणो भविता शुभे ।
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥ ३.६१.९१ ॥

善良吉祥的女子啊,你的结局必将吉祥。我们凭借苦行之力看见,你很快就会见到尼沙陀王。

3.61.92

निपधानामधिपतिं नलं रिपुनिपातिनम् ।
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥ ३.६१.९२ ॥

毗摩之女啊,你将见到尼沙陀之主、摧伏敌人者、护持正法者中最上的那罗,他已脱离悲热。

3.61.93

विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् ।
तदेव नगरं श्रेष्ठं प्रशासतमरिन्दमम् ॥ ३.६१.९३ ॥

那座从一切罪过中解脱、具备一切珍宝的殊胜之城,正由摧伏敌人者治理。

3.61.94

द्विपतां भयकर्तारं सुहृदां शोकनाशनम् ।
पतिमेष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥ ३.६१.९४ ॥

吉祥的女子啊,你将得到一位令敌人畏惧、消除朋友忧愁、出身吉祥之族的国王作为丈夫。

3.61.95

एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् ।
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तथा ॥ ३.६१.९५ ॥

对那位王女——那罗心爱的正妃——这样说完后,那些苦行者连同他们的火祭林居一起隐没了。

3.61.96

सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत्तदा ।
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥ ३.६१.९६ ॥

她见到这大奇迹,果然大为惊异。四肢无瑕的达摩衍蒂,毗罗犀那王之媳,此时真正感到惊讶。

3.61.97

चिन्तयामास वैदर्भी किमेतद्दृष्टवत्यहम् ॥ ३.६१.९७ ॥

毗陀婆国的公主沉思道:"我刚才看到的这是什么?"

3.61.98

किंनु स्वप्नो मया दृष्टः कोऽयंविधिरिहाभवत् ।
क्वनु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥ ३.६१.९८ ॥

"这难道是我做的梦?这里发生了什么命运?那些苦行者都去了哪里?那片修行林园在哪里?"

3.61.99

क्व सा पुण्यजला रम्या नदी द्विजनिषेविता ।
क्वनु ते ह नगा हृद्याः फलपुष्पोपशोभिताः ॥ ३.६१.९९ ॥

"那条圣水盈盈、清丽迷人、为婆罗门所常居的河流在哪里?那些缀满果实与花朵的可爱树木又在哪里?"

3.61.100

इत्येवं नरशार्दूल विस्मिता कमलेक्षणा ।
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता।
भर्तृशोकपरा दीनाविवर्णवदनाऽभवत् ॥ ३.६१.१०० ॥

人中之虎啊!如此惊讶的莲花眼、毗摩之女达摩衍蒂,面带纯净的微笑,久久沉思。沉浸于对丈夫的忧伤之中,她变得憔悴,面容苍白。

3.61.101

सा गत्वाऽथापरां भूमिं बाष्पसंदिग्धया गिरा ।
विललापाश्रुपूर्णाक्षी दृष्ट्वाऽशोकतरुं ततः ॥ ३.६१.१०१ ॥

随后她走到另一处地方,声音哽咽,泪眼盈盈,看见无忧树便悲泣哀号起来。

3.61.102

उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने ।
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् ॥ ३.६१.१०२ ॥

走近那棵树中最好的无忧树,它在林中开花,枝叶繁茂,秀美可爱,鸟鸣声回荡其间——

3.61.103

अहो बतायमगमः श्रीमानस्मिन्वनान्तरे ।
आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव ॥ ३.६१.१०३ ॥

啊!这棵光彩夺目的树在林中,以众多花簇闪耀,如同群山之王。

3.61.104

विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन ।
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ॥ ३.६१.१०४ ॥

哦,令人愉悦的阿输迦树!请速使我脱离忧愁。你可曾见到那位不被忧愁、恐惧和苦恼所困的国王?

3.61.105

नलं नामारिदमनं नमयन्त्याः प्रियं पतिम् ।
निमधानामधिपतिं दृष्टवानसि मे प्रियम् ॥ ३.६१.१०५ ॥

你可曾见到那位那摩衍蒂的心爱夫君、降伏敌人者、尼沙陀之主那罗?你见到了我的心爱之人。

3.61.106

एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् ।
व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥ ३.६१.१०६ ॥

那位英雄只披着一件衣服的一半,身体与皮肤娇嫩,为灾难所折磨,来到了这片森林。

3.61.107

यथा विशोका गच्छेयमशोकनग तत्कुरु ।
सत्यनामा भवाशोक मम शोकविनाशनात् ॥ ३.६१.१०७ ॥

哦,阿输迦树啊,请做到这点,使我能够脱离忧愁而离去。你名副其实,名为阿输迦(无忧者),因为你消除了我的忧愁。

3.61.108

एवंसाऽशोकवृत्तं तमार्ता वै परिगम्य ह ।
जगाम दारुणतरं देशं भैमी वराङ्गना ॥ ३.६१.१०८ ॥

那位受苦的优秀女子婆伊米(那摩衍蒂)绕行阿输迦树之后,便向一片更加可怖的地方走去。

3.61.109

सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा ।
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥ ३.६१.१०९ ॥

她看见许多山岳和河流,许多美丽的山峰,以及许多鹿和鸟。

3.61.110

कन्दरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः ।
ददर्श तान्भीमसुता पतिमन्वेषती तदा ॥ ३.६१.११० ॥

毗摩之女寻找丈夫,那时她看见了洞穴、山坡和景象奇妙的河流。

3.61.111

गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता ।
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम् ॥ ३.६१.१११ ॥

走了很远的路之后,笑容纯净的达摩衍蒂看见了一支满是象、马和战车的大商队。

3.61.112

उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् ।
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥ ३.६१.११२ ॥

渡过那条可爱的河流,河水清澈、甘美、极其清凉,河面宽阔,周围环绕着芦苇。

3.61.113

प्रोद्धुष्टां क्रौञ्चकुररैश्चक्रबाकोपकूजिताम् ।
कूर्मग्राहझवाकीर्णां विपुलद्वीपशोभिताम् ॥ ३.६१.११३ ॥

回荡着鹤与鹗的鸣叫,充满赤鸭的啼声,布满龟、鳄与鱼,装点着广阔的岛屿。

3.61.114

सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी ।
उपसर्प्य वरारोहा जनमध्यं विवेश ह ॥ ३.६१.११४ ॥

她一看见那支大商队,名声显赫的那罗之妻,腰肢纤美,便走近,进入人群之中。

3.61.115

उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता ।
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ॥ ३.६१.११५ ॥

她因悲痛而憔悴,形容如狂,身上只裹着半件衣裳,瘦弱、面色苍白、污秽,头发被尘土弄得散乱。

3.61.116

तां दृष्ट्वा तत्रमनुजाः केचिद्भीताः प्रदुद्रुवुः ।
केचिच्चिन्तापरास्तस्थुः केचित्तत्रविचुक्रुशुः ॥ ३.६१.११६ ॥

众人见到她,有人惊恐逃走,有人陷入沉思而站立,还有人当场呼喊起来。

3.61.117

प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे ।
कुर्वन्त्यस्यांदयांकेचित्पप्रच्छुश्चापि भारत ॥ ३.६१.११७ ॥

有人嘲笑她,有人辱骂她,有人对她生出怜悯,哦婆罗多,还有人向她发问。

3.61.118

काऽसि कस्यासि कल्याणि किं वा मृगयसे वने ।
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसिं मानुषी ॥ ३.६१.११८ ॥

你是谁,属于谁,哦吉祥的女子?你在森林中寻找什么?见到你,我们在此感到不安。你莫非是人类女子?

3.61.119

वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः ।
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ॥ ३.६१.११९ ॥

请说实话:你是这森林、这座山,或是某个方位的神灵吗?哦吉祥的女子,你必定是女神;我们前来投奔你的庇护。

3.61.120

यक्षी वा राक्षसी वा त्वमुताहोसि सुराङ्गना ।
सर्वथाकुरु नः स्वस्ति रक्ष चास्माननिन्दिते ॥ ३.६१.१२० ॥

你是夜叉女、罗刹女,还是天界仙女?无论如何,请赐予我们平安,保护我们,哦无瑕的女子。

3.61.121

यथाऽयंसर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् ।
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत् ॥ ३.६१.१२१ ॥

愿此商队能全然安稳、迅速地从此离去,吉祥的女子啊,请如此安排,使我们得以吉祥。

3.61.122

तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा ।
प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता ॥ ३.६१.१२२ ॥

商队如此相告之后,为丈夫的不幸所苦的贤德王女达摩衍蒂便回答道。

3.61.123

सार्तवाहं च सार्थं च जना ये चात्र केचन ।
युवस्थविरबालाश् सार्थस्य च पुरोगमाः ॥ ३.६१.१२३ ॥

商队首领与商队,以及此处所有的人——青年、老人、孩童,以及走在商队前面的人。

3.61.124

मानुषीं मां विजानीत मनुजाधिपतेः सुताम् ।
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ॥ ३.६१.१२४ ॥

请知道我是人类女子,人主之女,国王的儿媳,国王的王后,渴望见到丈夫。

3.61.125

विदर्भराण्मम पिता भर्ता राजा च नैषधः ।
नलोनाम महाभागस्तं मार्गाम्यपराजितम् ॥ ३.६१.१२५ ॥

毗达婆国王是我的父亲,尼沙陀国王那罗是我的丈夫——大福之人,不可战胜者。我正在寻找他。

3.61.126

यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् ।
नलं पुरुषशार्दूलममित्रगणसूदनम् ॥ ३.६१.१२६ ॥

如果你们认识这位国王,请速告诉我那令人欣喜的消息——关于那罗,人中之虎,摧毁敌军的人。

3.61.127

तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः ।
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ॥ ३.६१.१२७ ॥

无瑕肢体的她,大商队的主人、名叫舍遮的商队首领对她说:吉祥的人啊,请听我的话。

3.61.128

अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते ।
मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥ ३.६१.१२८ ॥

我是商队的首领,商队之主。纯洁微笑的人啊,荣耀的人啊,我没有看见名叫那罗的人。

3.61.129

कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि ।
पश्याम्यस्मिन्वने कृत्स्ने ह्यमनुष्यनिषेविते ॥ ३.६१.१२९ ॥

在这座无人居住的整片森林里,我看见大象、虎、水牛、狮子、熊,也看见鹿。

3.61.130

ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने ।
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥ ३.६१.१३० ॥

在这大森林里,除了你,我看不到任何会死的人类。愿夜叉之王摩尼跋陀罗今日对我们慈悯。

3.61.131

साऽब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः ।
क्वनु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि ॥ ३.६१.१३१ ॥

她于是对所有商人和那位商队首领说:这支商队将往何处去?你们应当告诉我。

3.61.132

सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिनः ।
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥ ३.६१.१३२ ॥

这支商队将很快前往谛见真理的车底国王苏巴护的领土,为了获利,人之女啊。