摩诃婆罗多 · 章 3.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.62.1
सा तच्छ्रुत्वाऽनवद्याङ्गी सार्थवाहवचस्तदा ।
जगाम सह तेनैव सार्थेन पतिलालसा ॥ ३.६२.१ ॥
无可挑剔之身的她听了商队首领的话,因渴望丈夫,便随他与那支商队一同前行。
3.62.2
अथ काले बहुतिथे वने महति दारुणे ।
तटाकं सर्वतोभद्रं पद्मसौगन्धिकायुतम् ॥ ३.६२.२ ॥
此后许多日子,在那广大可怖的森林中,出现了一片四面皆吉祥的湖泊,里面满是莲花与苏干地迦花。
3.62.3
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् ।
बहुमूलफलोपेतं नानापक्षिनिषेवितम् ॥ ३.६२.३ ॥
商人们看到那个宜人的地方,草木与柴薪丰饶,遍布根茎与果实,又有众多鸟类栖息。
3.62.4
तं दृष्ट्वा मृष्टसलिलं मनोहारि सुशीतलम् ।
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥ ३.६२.४ ॥
他们见那湖水清澈、令人心旷神怡且极为清凉,便决意在那里安营,因为他们的牲畜已十分疲惫。
3.62.5
संमते सार्थवाहस्य विविशुर्वनमुत्तमम् ।
उवास सार्थः सुमहान्निशामासाद्य पद्मिनीम् ॥ ३.६२.५ ॥
在商队首领同意下,他们进入了那片优良的森林;那大商队抵达莲池,在那里度过了一夜。
3.62.6
अथार्धरात्रसमये निःशब्दे तिमिरे तदा ।
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्।
पानीयार्थं गिरितटान्मदप्रस्रवणाविलम् ॥ ३.६२.६ ॥
此后午夜时分,四周寂静黑暗,疲惫的商队正在熟睡,一群大象从山坡下来取水,那水因它们发情的涌流而浑浊。
3.62.7
अथापश्यत सार्थं तं सार्थजान्सुबहून्गजान् ॥ ३.६२.७ ॥
于是他看见那支商队和商队中许多的大象。
3.62.8
ते तान्ग्राम्यगजान्दृष्ट्वा सर्वे वनगजास्तदा ।
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः ॥ ३.६२.८ ॥
那些野象看见家养的象,个个因发情而狂怒,便急速地向它们冲去,想要杀死它们。
3.62.9
तेषामापततां वेगः करिणां दुःसहोऽभवत् ।
नगाग्रादिव शीर्णानां शृङ्गाणां पततां क्षितौ।
स्पन्दतामपि नागानां मार्गा नष्टा वनोद्भवाः ॥ ३.६२.९ ॥
那些冲来的象的冲力变得难以承受,犹如山顶断裂的峰峦坠落于地;甚至在林中生长的小径也被颤抖的象毁坏了。
3.62.10
मार्गं संरुद्ध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् ।
ते तं ममर्दुः सहसा वेष्टमानं महीतले ॥ ३.६२.१० ॥
他们堵住通往莲池的道路,突然踩踏了那支沉睡中的优秀商队,它在地上翻滚挣扎。
3.62.11
महारवं प्रमुञ्चतो वद्ध्यन्ते शरणार्थिनः ।
वनगुल्मांश्च धावन्तो निद्रया महतो भयात् ॥ ३.६२.११ ॥
那些大声呼喊、寻求庇护的人被杀害;他们怀着极大的恐惧,还在半睡半醒之间,朝着林中的灌木丛奔逃。
3.62.12
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता गजैः ॥ ३.६२.१२ ॥
有人被象牙所杀,有人被象鼻所杀,也有人被象脚所杀。
3.62.13
निहतोष्ट्राश्वबहुलाः पदातिजसंकुलाः ।
भयादाधावमानाश् परस्परहतास्तदा ॥ ३.६२.१३ ॥
骆驼与马匹死伤甚多,步兵挤满战场;因恐惧而奔逃的人们,此时彼此相互杀伤。
3.62.14
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले ।
वृक्षेष्वासज्यसंभग्नाः पतिता विषमेषु च ॥ ३.६२.१४ ॥
发出可怕的叫喊,他们纷纷倒在地上;有的被树木绊住而折断,有的倒在崎岖的地面上。
3.62.15
एवंप्रकारैर्बहुभिर्दैवेनाक्रम्य हस्तिभिः ।
राजन्विनिहतं सर्वं समृद्धं सार्थमण्डलम् ॥ ३.६२.१५ ॥
如此种种,因命运被象群践踏,大王啊,整个富庶的商队都被毁灭了。
3.62.16
आरावः सुमहांश्चासीत्रैलोक्यभयकारकः ।
एषोऽग्निरुत्थितः कष्टस्त्रायध्वं धावताऽधुना ॥ ३.६२.१६ ॥
一片巨大的喧嚷之声响起,令三界震恐:“看哪,可怕的大火已经燃起!现在快跑,救救自己!”
3.62.17
रत्नराशिर्विशीर्णोऽयं गृह्णीध्वं किं प्रधावत ।
सामान्यमेतद्द्रविणं न मिथ्या वचनं मम ॥ ३.६२.१७ ॥
这堆珠宝散落在地;拿去吧,为何奔跑?这些财富是大家共有的;我的话并不虚假。
3.62.18
पुनरेवाभिधास्यामि चिन्तयध्वं सुकातराः ।
एवमेवाभिभाषन्तो विद्रवन्ति भयात्तदा ॥ ३.६२.१८ ॥
我再说一遍,你们这些极其惊恐的人,且好好想想。就这样说着,他们便因恐惧而四散奔逃。
3.62.19
तस्मिंस्तथा वर्तमाने दारुणे जनसंक्षये ।
दमयन्ती च बुबुधे भयसंत्रस्तमानसा।
अपश्यद्वैशसं तत्र सर्वलोकभयंकरम् ॥ ३.६२.१९ ॥
当那场可怕的人群杀戮正在进行时,达摩衍蒂因心中惊恐而醒来。她在那里看见了一场令所有世界恐惧的屠杀。
3.62.20
अदृष्टपूर्वं तद्दृष्ट्वा बाला पद्मनिभेक्षणा ।
संसक्तवदनाश्वासा उत्तस्थौ भयविह्वला ॥ ३.६२.२० ॥
她看见了从未见过的景象,那位眼如莲花的少女因恐惧而慌乱,以手掩面、喘息不已地站了起来。
3.62.21
ये तु तत्र विनिर्मुक्ताः सार्थात्केचिदविक्षताः ।
तेऽब्रुवन्सहिताः सर्वे कस्येदं कर्मणः फलम् ॥ ३.६२.२१ ॥
那些从商队中逃出、有的毫发无伤的人,一同说道:“这是谁的行为所得的果报?”
3.62.22
नूनं न पूजितोऽस्माभिर्मणिभद्रो महायशाः ।
तथा यक्षाधिपः श्रीमान्न वै वैश्रवणः प्रभुः ॥ ३.६२.२२ ॥
我们一定没有礼敬那位大名鼎鼎的摩尼跋陀罗,同样也没有礼敬药叉的光荣之主、毗沙门天王。
3.62.23
न पूजा विघ्रकर्तॄणामथवा प्रथमं कृता ॥ ३.६२.२३ ॥
没有向制造障碍者献祭礼拜,或者没有先向他们礼拜。
3.62.24
शकुनानां फलं वाऽथ विपरीतिमिदं ध्रुवम् ।
ग्रहा न विपरीतास्तु किमन्यदिदमागतम् ॥ ३.६२.२४ ॥
或者这是征兆的果报,无疑是不吉的。星辰并不逆行;那么还有什么别的来到了?
3.62.25
अपरे त्वब्रुवन्दीना ज्ञातिद्रव्यविनाकृता ।
याऽसावद्य महासार्थे नारी ह्युन्मत्तदर्शना ॥ ३.६२.२५ ॥
其他人哀叹道:那位失去亲族与财富、神情癫狂的女子,今天就在这支大商队里。
3.62.26
प्रविष्टा विकृताकारा कृत्वा रूपममानुषम् ।
तयैवं विहिता पूर्वं माया परमदारुणा ॥ ३.६२.२६ ॥
她以扭曲的形象进来,化作非人的模样;先前她也曾以这样的方式施展极其可怖的幻术。
3.62.27
राक्षसी वा ध्रुवं यक्षी पिशाची वा भयंकरी ।
तस्याः सर्वमिदं पापं नात्र कार्या विचारणा ॥ ३.६२.२७ ॥
她必定是罗刹女、夜叉女或可怖的毕舍遮;这一切恶行都是她的,此事无须再作考虑。
3.62.28
यदि पश्याम तां पापां सार्थघ्नीं नैकदुःखदाम् ।
लोष्टभिः पांसुभिश्चैव तृणैः काष्ठैश्च मुष्टिभिः।
अवश्यमेव हन्यामः सार्थस्य किल कृत्यकाम् ॥ ३.६२.२८ ॥
若我们看到这个作恶的女子,她毁灭商队,带来无数苦难,我们必定用土块、尘土、草、木棍和拳头将她打死,因为她是商队的祸害。
3.62.29
दमयन्ती तु तच्छ्रुत्वा वाक्यं तेषां सुदारुणम् ।
ह्रीता भीता च संविग्रा प्राद्रवद्यत्र काननम् ॥ ३.६२.२९ ॥
然而达摩衍蒂听到他们那极为残酷的话语,又羞又怕又惶乱,便朝着森林的方向逃去。
3.62.30
आशङ्कमाना तत्पापमात्मानं पर्यदेवयत् ॥ ३.६२.३० ॥
她担心那罪名,便为自己哀叹起来。
3.62.31
अहो ममोपरि विधेः संरम्भो दारुणो महान् ।
नानुबध्नाति कुशलं कस्येदं कर्मणः फलम् ॥ ३.६२.३१ ॥
唉!命运的可怕而巨大的打击降临于我;善果不附于我身。这是谁的业报之果?
3.62.32
न स्मराम्यशुभं किंचित्कृतं कस्यचिदण्वपि ।
कर्मणा मनसा वाचा कस्येदं कर्मणः फलम् ॥ ३.६२.३२ ॥
我不记得曾对任何人以行为、心念或言语做过哪怕极微小的恶事。那么这是哪一业的果报?
3.62.33
नूनं जन्मान्तरकृतं पापां माऽऽपतितं महत् ।
अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहम् ॥ ३.६२.३३ ॥
必定是前世所造的大罪降临到我身上,我才遭遇这最后、痛苦的灾难。
3.62.34
भर्तृराज्यापहरणं स्वजनाच्च रपराजयः ।
भर्त्रा सह वियोगश्च तनयाभ्यां च विच्युतिः।
निर्नाथता वने वासो बहुव्यालनिषेविते ॥ ३.६२.३४ ॥
丈夫的王国被夺,被亲族所败,与丈夫分离,与儿子们离散,无人庇护,住在多有猛兽出没的森林中。
3.62.35
अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा ।
वनगुल्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम्।
भ्रातरं पितरं पुत्रं सखायं च नराधिप ॥ ३.६२.३५ ॥
次日,人主啊,那些在屠杀中幸存的人从林丛中走出,哀悼所遭的杀戮,哀悼兄弟、父亲、儿子和朋友。
3.62.36
हन्यमाने तदा सार्थे दमयन्ती शुचिस्मिता ।
ब्राह्मणैः सहिता तत्रवने तु न विनाशिता ॥ ३.६२.३६ ॥
当商队被杀戮时,笑容纯净的达摩衍蒂与婆罗门们一同在林中,她并未被毁灭。
3.62.37
अशोचत्तत्र वैदर्भी किंनु मे दुष्कतं कृतम् ।
योपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः ॥ ३.६२.३७ ॥
维达尔巴公主在那里悲叹:"我做了什么恶事,以致在这荒僻的森林中,这人海竟压到我身上?"
3.62.38
स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत् ।
प्राप्तव्यं सुचिरं दुःखं नूनमद्यापि वै मया ॥ ३.६२.३८ ॥
那群人被一群大象所击倒;这只是因为我的不幸。无疑,即使今天,我仍须长久承受痛苦。
3.62.39
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ।
या नाहमद्य मृदिता हस्तियूथेन दुःखिता ॥ ३.६२.३९ ॥
未到时候,无人会死;听从长者教诲的人也不会死。同样,今天我虽然悲伤,却没有被象群踩碎。
3.62.40
न ह्यदैवकृतंकिंचिन्नराणामिह विद्यते ।
न च मे बालभावेऽपि किंचित्पापकृतं कृतम् ॥ ३.६२.४० ॥
在此世间,人所遭遇的一切无不是命运所定;我在童年时也从未做过任何恶事。
3.62.41
कर्मणा मनसा वाचा यदिदं दुःखमागतम् ।
मन्ये स्वयंवरकृतेलोकपाला समागताः ॥ ३.६२.४१ ॥
我想,这由行为、思想和言语而降临于我的痛苦,是因为诸世界守护者为了选婿大会而聚集。
3.62.42
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः ।
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥ ३.६२.४२ ॥
在那里,我为了那罗而拒绝了诸神;无疑,我正是因他们的力量而与(那罗)分离。
3.62.43
एवमादीनि दुःखार्ता सा विलप्य वराङ्गना ।
प्रलापानि तदा तानि दमयन्ती पतिव्रता ॥ ३.६२.४३ ॥
那位善良的女子因悲痛而如此哀叹;于是忠于丈夫的达摩衍蒂说出了这些哀词。
3.62.44
हतशेषैः सह तदा ब्राह्मणैर्वेदपारगैः ।
अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥ ३.६२.४४ ॥
王中之虎啊!那时她与幸存的精通吠陀的婆罗门一同前行,沉浸于悲痛与忧伤之中。
3.62.45
गच्छन्ती सा चिराद्बाला पुरमासादयन्महत् ।
सायाह्नि चेदिराजस् सुबाहोः सत्यवादिनः ॥ ३.६२.४५ ॥
那少女走了许久,傍晚时分到达了说实话的遮提王苏波呼的大城。
3.62.46
सा तु तच्चारुसर्वाङ्गी सुबाहोस्तुङ्गगोपुरम् ।
वस्त्रार्धेन च संवीता प्रविवेश पुरोत्तमम् ॥ ३.६२.४६ ॥
她全身美丽,只以半幅衣裳遮身,从苏波呼高大的城楼进入了那座优美的城市。
3.62.47
तां विह्वलां कृशां दीनां मुक्तकेशीममार्जिताम् ।
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥ ३.६२.४७ ॥
城中居民看见她神情慌乱、消瘦憔悴、狼狈可怜,披散着头发,蓬乱不整,像疯了一样行走。
3.62.48
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा ।
अनुजग्मुस्तत्र बाला ग्रामिपुत्राः कुतूहलात् ॥ ३.६२.४८ ॥
村里的孩子们看见她走进遮提王的城中,出于好奇便跟在她身后。
3.62.49
सा तैः परिवृताऽगच्छत्समीपं राजवेश्मनः ।
तां प्रासादगताऽपश्यद्राजमाता जनैर्वृताम् ॥ ३.६२.४९ ॥
她被众人围绕着走近王宫。宫中站立的王太后看见她被人群包围。
3.62.50
धात्रीमुवाच च्छैनामानयेह ममान्तिकम् ।
जनेन क्लिश्यते बाला दुःखिता शरणार्थिनी ॥ ३.६२.५० ॥
她对乳母说:“把她带到我这里来。这女子被人群所困扰,忧伤而寻求庇护。”
3.62.51
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम् ।
उन्मत्तवेषा कल्याणी श्रीरिवायतलोचना ॥ ३.६२.५१ ॥
我看到如此的容貌,照亮了我的家。这位身着狂乱装束的吉祥女子,长眼如同吉祥天女。
3.62.52
सा जनं वारयित्वा तं प्रासादतलमुत्तमम् ।
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥ ३.६२.५२ ॥
她阻止众人,将她引上上好的宫殿平台,惊讶地,啊,国王,问达摩衍蒂。
3.62.53
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः ।
भासि विद्युदिवाभ्रेषु शंस मे काऽसिकस्य वा ॥ ३.६२.५३ ॥
虽然忧伤缠身,你仍有至高的身体,如云中闪电般明亮。请告诉我:你是谁?属于谁?
3.62.54
न हि ते मानुषं रूपं भूषणैरपि वर्जितम् ।
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥ ३.६२.५४ ॥
你的形貌并非人类之相,即便没有饰物。啊,你光彩如天神,虽无伴侣,却不畏惧世人。
3.62.55
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् ।
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥ ३.६२.५५ ॥
闻其言,毗摩之女(达摩衍蒂)答道:请知我是人类女子,是追随丈夫的妻子。
3.62.56
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् ।
फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ॥ ३.६२.५६ ॥
我是梳妆侍女,出身良好,是随心而居的侍女,以果根为食,独自一人,哪里夜幕降临便在哪里投宿。
3.62.57
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः ।
भक्ताऽहमपि तं वीरं छायेवानुगता पथि ॥ ३.६२.५७ ॥
我的丈夫具有无数德行,并且始终顺从于我。我也忠于那位英雄,在路上如影随形地跟随他。
3.62.58
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं सुदेवने ।
द्यूते स निर्जितश्चैव वनमेक उपेयिवान् ॥ ३.६२.५८ ॥
命运使他过度沉迷于骰子之戏(苏提婆那)。在那场赌局中败北,他独自进入了森林。
3.62.59
तमेकवसनच्छन्नमुन्म्तमिव विह्वलम् ।
आश्वासयन्ती भर्तारमहमप्यगमं वनम् ॥ ३.६२.५९ ॥
他只披一件衣服,如疯癫般惶乱。我也去了森林,一路安慰我的丈夫。
3.62.60
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे ।
क्षुत्परीतस्तु विमना वासश्चैकं व्यसर्जयत् ॥ ३.६२.६० ॥
有一次,在森林里,因另外的缘故,那位英雄饥饿所迫、心情低落,便舍弃了他唯一的一件衣服。
3.62.61
तमेकवसना नग्नमुन्मत्तवदचेतसम् ।
अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ॥ ३.६२.६१ ॥
跟随着他——那个赤身裸体、如疯人般失去知觉的人,我身着单衣,夜夜从不入睡。
3.62.62
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् ।
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ॥ ३.६२.६२ ॥
其后许多天,他在我熟睡时将我弃于某处,剪去衣服的一半,抛弃了我这个无辜之人。
3.62.63
तं मार्गमाणा भर्तारं दह्यमाना दिवानिशम् ।
न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम् ॥ ३.६२.६३ ॥
我寻找那位丈夫,日夜焦灼,却找不到那如天神般、我所爱、我生命之主的夫君。
3.62.64
इत्युक्त्वा साऽनवद्याङ्गी राजमातरमप्युत ।
स्थिताऽश्रुपरिपूर्णाक्षी वेपमाना सुदुःखिता ॥ ३.६२.६४ ॥
她这样说完,身段无瑕的她站在王太后面前,双目盈满泪水,颤抖着,极为悲伤。
3.62.65
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु ।
राजमाताऽब्रवीदार्ता भैमीमार्तस्वरां स्वयम् ॥ ३.६२.६५ ॥
对那位泪眼盈盈、如此痛哭不已的毗摩之女,忧伤的王太后亲自以哀痛的声音说道。
3.62.66
वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि ।
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥ ३.६२.६६ ॥
吉祥的女子啊,你就留在这里吧;我对你的爱最为深厚。善良的女子啊,我的人会去寻找你的夫君。
3.62.67
अपि वा स्वयमागच्छेत्परिधावन्नितस्ततः ।
इहैव वसती भद्रे भर्तारमुपलप्स्यसे ॥ ३.६२.६७ ॥
或许他自己会四处奔走而来。吉祥的女子啊,你若住在这里,便能找到你的丈夫。
3.62.68
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् ।
समयेनोत्सहे वस्तुं त्वि वीरप्रजायिनि ॥ ३.६२.६८ ॥
达摩衍蒂听了太后的话,便说道:英勇子嗣之母啊,我只能在一些条件下才愿意留在您这里。
3.62.69
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् ।
न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन ॥ ३.६२.६९ ॥
我不吃剩余的食物,也不为人洗脚,无论如何也不与其他男人说话。
3.62.70
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् ।
वध्यश्च ते सकृन्मन्द इतिमे व्रतमाहितम् ॥ ३.६२.७० ॥
若有男人向我求欢,他便该受罚;愚人啊,他一旦如此,便该由你立即诛杀。这是我坚定立下的誓愿。
3.62.71
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ।
यद्येवमिह वत्स्यामि त्वत्सकाशे न संशयः।
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ॥ ३.६२.७१ ॥
但为寻找丈夫,我会去见婆罗门。若我这样住在您这里,便无疑问;除此之外,以其他方式居住的念头,我心中从未有过。
3.62.72
इत्युक्ता दमयन्त्या तु राजमातेदमब्रवीत् ।
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥ ३.६२.७२ ॥
达摩衍蒂如此说完,太后便道:这一切我都会照做;幸好你立下了这样的誓愿。
3.62.73
एवमुक्त्वा ततो भैमीं राजमाता विशांपते ।
उवाचेदं दुहितरं सुनन्दां नाम भारत ॥ ३.६२.७३ ॥
王母对薄磨子说完这些话后,乃对名叫苏南达的女儿说道,婆罗多啊,人民之主。
3.62.74
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् ।
वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम्।
एतया सह मोदस्व निरुद्विग्रमना सदा ॥ ३.६२.७४ ॥
苏南达啊,你要认识这位具有天女之相的萨伦德里。她年纪与你相当,愿她成为你的朋友。与她相伴,常怀无忧之心而欢乐吧。
3.62.75
ततः परमसंहृष्टा सुनन्दा गृहणागमत् ।
दमयन्तीमुपादाय सखीभिः परिवारिता ॥ ३.६२.७५ ॥
于是苏南达极为欢喜,带着达摩衍蒂,被众侍女簇拥着回到宫中。
3.62.76
सहसा न्यवसद्राजन्राजपुत्र्या सुनन्दया ।
चिन्तयन्ती नलं वीरमनिशं वामलोचना ॥ ३.६२.७६ ॥
大王啊,她忽然与王女苏南达同住,而那双眼睛美丽的达摩衍蒂则不断思念英勇的那罗。