摩诃婆罗多 · 章 3.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.63.1
उत्सृज्य दमयन्तीं तु नलो राजा विशांपते ।
ददर्श दावं दह्यन्तं महान्तं गहने वने ॥ ३.६३.१ ॥
国王那罗舍弃了达摩衍蒂,人民之主啊,他看见一场大火在茂密的森林中燃烧。
3.63.2
तत्र सुश्राव शब्दंवै मध्ये भूतस्य कस्यचित् ।
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥ ३.६३.२ ॥
他在那里听见某个生物中间传来一个声音,大声地一再呼喊:“那罗,快向我跑来!你这圣名之人啊!”
3.63.3
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् ।
दद्रश नागराजानं शयानं कुण्डलीकृतम् ॥ ३.६३.३ ॥
那罗说了一句“不要害怕”,便走进火的中央,看见蛇王蜷缩躺在那里。
3.63.4
स नागः प्रञ्जलिर्भूत्वा वेपमानो नलं तदा ।
उवाच मां विद्धिराजन्नागं कर्कोटकं नृप ॥ ३.६३.४ ॥
那蛇于是双手合十,颤抖着对那罗说:“国王啊,你要知道我是蛇王迦尔科塔卡,人主啊。”
3.63.5
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः ।
तेन मन्युपरीतेन शप्तोस्मि मनुजाधिप ॥ ३.६३.५ ॥
“我欺骗了一位无过失、大苦行的梵仁仙人,人主啊;他满怀愤怒,诅咒了我。”
3.63.6
तिष्ठ त्वं स्थावर इव यावदेति नलः क्वचित् ।
इतो नेतासि तत्स त्वं शापान्मोक्ष्यसि मत्कृतात् ॥ ३.६३.६ ॥
“你要像一件不动的东西一样留在这里,直到那罗来到某处。然后他会把你从这里带走,你就会从我所降的诅咒中解脱。”
3.63.7
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् ।
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥ ३.६३.७ ॥
因他的诅咒,我一步也无法离开此地。但我会教你什么是善;你有能力救我。
3.63.8
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः ।
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥ ३.६३.८ ॥
我将成为你的朋友;没有任何蛇与我相等。为了你,我会变得很小;快把我拿起来走吧。
3.63.9
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः ।
दं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम् ॥ ३.६३.९ ॥
说完这话,蛇王变得只有拇指那么大。那罗拿起他,前往一个没有山火的地方。
3.63.10
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥ ३.६३.१० ॥
到达空旷之处,那罗想从黑暗的路上放下他时,蛇王迦尔科塔迦又说道。
3.63.11
पदानि गणयन्गच्छ स्वानि नैषध कानिचित् ।
तत्रतेऽहं महाबाहो श्रेयो धास्यामि यत्परम् ॥ ३.६३.११ ॥
尼沙陀之子那罗啊,数着你自己的步子走吧。大臂者啊,到了那里,我将赐予你至上的善。
3.63.12
ततः संख्यातुमारब्धमदशद्दशमे पदे ।
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥ ३.६३.१२ ॥
于是他开始数步,走到第十步时便咬了他。被咬之后,他的那副形貌立刻消失了。
3.63.13
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः ।
स्वरूपधारिणं नागं ददर्श स महीपतिः ॥ ३.६३.१३ ॥
那位君主见此情景大为惊讶,发觉自己的形貌已变得丑陋;他看见那条恢复了本来面目的蛇。
3.63.14
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् ।
मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति ॥ ३.६३.१४ ॥
于是蛇王迦尔科塔迦安慰纳罗说:“我已隐藏了你的形貌,世人将不会认出你。”
3.63.15
यत्कृते चासि निकृतो दुःखेन महता नल ।
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥ ३.६३.१५ ॥
“纳罗啊,因你而遭受极大痛苦,我的毒液将作为悲伤居留在你体内。”
3.63.16
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति ।
तावत्तु त्वां महाराज क्लेशेऽस्मिन्स नियोक्ष्यति ॥ ३.६३.१६ ॥
“只要他的肢体被毒液所覆,尚未放开你,大王啊,他就会让你一直受这份苦难。”
3.63.17
अनागा येन निकृतस्त्वमनर्हो जनाधिप ।
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥ ३.६३.१७ ॥
“人主啊,那个因愤怒和嫉妒而伤害你的人——你无罪却遭遇不公——我已惩罚了他;我为你做了庇护。”
3.63.18
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोपि वा ।
ब्रह्मवित्त्वं च भविता मत्प्रसादान्नराधिप ॥ ३.६३.१८ ॥
“人中之虎啊,你不必畏惧毒牙,也不必畏惧敌人;人主啊,因我的恩惠,你也将成为梵知者。”
3.63.19
राजन्विषनिमित्ता च न ते पीडा भविष्यति ।
संग्रामेषु न राजेन्द्रशश्वज्जयमवाप्स्यसि ॥ ३.६३.१९ ॥
哦,国王,你不会遭受因毒药而起的任何痛苦。哦,诸王之主,你将在战斗中永远获胜。
3.63.20
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् ।
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ॥ ३.६३.२० ॥
国王啊,你从这里走,说“我是巴胡迦,一个御者”,去到ṛtuparṇa面前吧,因为他确实精通骰子的技艺。
3.63.21
अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर ।
स तेऽक्षहृदयं दाता राजाऽश्वहृदयेन वै ॥ ३.६३.२१ ॥
哦,尼沙陀之主,现在去那可爱的阿逾陀城吧;那位国王将把骰子的秘诀传授给你,也确实会传授驯马的秘诀。
3.63.22
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ।
भविष्यसि यदाऽक्षज्ञः श्रेयसा योक्ष्यसे तदा ॥ ३.६३.२२ ॥
出生于甘蔗王族的光荣者也将成为你的朋友;当你成为精通骰子的人时,那时你将与吉祥相结合。
3.63.23
संयोक्ष्यसे स्वदारैस्त्वं मा स्म शोके मनः कृथाः ।
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥ ३.६३.२३ ॥
你将与你自己的妻子重聚。不要让心沉溺于悲伤。你将与王国和两个儿子重聚——这是我对你说的真理。
3.63.24
स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप ।
संस्मर्तव्यस्तदा तेऽहंवासश्चदं विवासयेः ॥ ३.६३.२४ ॥
哦,人主,当你想要看见自己本来的形貌时,就应当想起我;那时你应当脱去这件衣服(我所穿的这件)。
3.63.25
अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे ।
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा ॥ ३.६३.२५ ॥
“以此衣遮覆,你将恢复你自己的形貌。”说完,他便把一对天衣交给了他。
3.63.26
एवं नलं च संदिश्य वासो दत्ताव च कौरव ।
नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥ ३.६३.२६ ॥
哭,考罗婆啊!这样,那蛇王教导了那罗并赠送了衣服之后,便就在那里消失了,大王啊。