Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.64.1

तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः ।
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥ ३.६४.१ ॥

那蛇消失之后,尼沙陀王那罗出发,第十天进入了利图波尔那的城市。

3.64.2

स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् ।
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥ ३.६४.२ ॥

他走近国王说道:“我是巴忽迦。在大地上,驾驭马匹无人能与我相比。”

3.64.3

अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च ।
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥ ३.६४.३ ॥

在艰难的事务和需要技能的事情上,可以向我请教;而且比别人更擅长烹调饭食。

3.64.4

यानि शिल्पानि लोकेऽस्मिन्यच्चैवान्यत्सुदुष्करम् ।
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥ ३.६४.४ ॥

这世上的一切技艺,以及其他极为艰难的事情,我都会努力去做。利图波尔那啊,请收留我吧。

3.64.5

इत्युक्तः स नलेनाथ ऋतुपर्णो नराधिपः ।
उवाच सुप्रीतमनास्तं प्रेक्ष्य च महीपते ॥ ३.६४.५ ॥

那罗如此说完,利图波尔那王心中十分欢喜,看着他说道:“大地之主啊——”

3.64.6

वसबाहुक भद्रं ते सर्वमेतत्करिष्यसि ।
शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः ॥ ३.६४.६ ॥

“留下吧,巴忽迦!愿你吉祥。这一切你都会做到。尤其是,我的心总是专注于快速的车驾出行。”

3.64.7

स त्वमातिष्ठ योगं तं येन शीध्रां हया मम ।
भवेयुरश्वाध्यक्षोसि वेतनं ते शतंशतम् ॥ ३.६४.७ ॥

你去承担那件事,使我的马变得迅捷。你将任马官,你的俸禄将是百上加百。

3.64.8

त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ ।
एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥ ३.६४.८ ॥

婆尔史涅耶与耆婆罗将常侍奉你。与此二人相伴,你将欢喜;巴呼迦,住在我这里吧。

3.64.9

एवमुक्तो नलस्तेन न्यवसत्तत्रपूजितः ।
ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥ ३.६४.९ ॥

他如此说后,那罗在那里受到尊敬,与婆尔史涅耶和耆婆罗一起住在与卢波那的城中。

3.64.10

स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन् ।
सायंसायं सदा चेमं श्लोकमेकं जगाद ह ॥ ३.६४.१० ॥

那位国王住在那里,常常思念毗达婆公主,每天傍晚都吟诵这一首诗。

3.64.11

क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी ।
स्मरन्ती तस्य मन्दस्य कं वाऽऽसाद्योपतिष्ठति ॥ ३.६४.११ ॥

那苦行的女子此刻在何处安睡?饥渴所苦、疲惫不堪的她,想着那愚人,又去投靠何人侍奉呢?

3.64.12

एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् ।
कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक।
आयुष्मन्कस्य वा नारी यामेवमनुशोचसि ॥ ३.६४.१२ ॥

夜间国王如此言语时,耆婆罗说:巴呼迦,你因爱而常常为她悲伤;我想听听。长寿者啊,你如此悲叹的那个女子是谁的?

3.64.13

तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् ।
आसीद्बहुमता नारी तस्या दृढतरश्च सः ॥ ३.६४.१३ ॥

那罗王对他说:某个愚钝之人有一位极为珍视的妻子,他对她的爱更加坚定。

3.64.14

स वै केनचिदर्थेन तया मन्दो व्ययुज्यत ।
विप्रयुक्तः स मन्दात्मा भ्रमत्यसुखपीडितः ॥ ३.६४.१४ ॥

因为某种缘故,那愚钝之人与她分离了;分离之后,这昏昧之人在痛苦中漂泊。

3.64.15

दह्यमानः स शोकेन दिवारात्रमतन्द्रितः ।
निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥ ३.६४.१५ ॥

他被悲痛焚烧,日夜不得安歇,夜间想念她,便吟唱一首诗。

3.64.16

स विभ्रमन्महीं सर्वां क्वचिदासाद्य किंचन ।
वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ॥ ३.६४.१६ ॥

他漂泊于整个大地,偶尔到达某地居住,虽不配如此,却一再回想那份悲伤。

3.64.17

सा तु तं पुरुषं नारी कृच्छेऽप्यनुगता वने ।
त्यक्ता तेनाल्पभाग्येन दुष्करं यदि जीवति ॥ ३.६४.१७ ॥

那女子即便在困厄中,仍随那男子走入森林;却被这薄命之人抛弃——若她还活着,那就艰难了。

3.64.18

एका बालाऽनभिज्ञा च मार्गमाणाऽतथोचिता ।
क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥ ३.६४.१८ ॥

独自一人,年少而无经验,寻找道路,不配如此境遇,身体被饥渴所困——若她还活着,那就艰难了。

3.64.19

श्वापदाचरिते नित्यं वने महति दारुणे ।
त्यक्ता तेनाल्पभाग्येन मन्दप्रज्ञेन मारिष ॥ ३.६४.१९ ॥

在这片广袤可怖、常有猛兽出没的森林里,那个命薄而愚钝的人抛弃了她,尊者啊。

3.64.20

इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् ।
अज्ञातवासं न्यवसद्राज्ञस्तस्य नवेशने ॥ ३.६४.२० ॥

就这样,那位那罗王始终思念着达摩衍蒂,在新国王的麾下隐姓埋名地生活着。