Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.65.1

हृतराज्ये नले भीमः सभार्येऽदर्शनं गते ।
चिन्तयामास बहुशः सहामात्यैर्नराधिपः ॥ ३.६५.१ ॥

当那罗失去王国并与妻子一同消失后,国王毗摩与大臣们多次思虑此事。

3.65.2

समाहूय द्विजान्सर्वानिदं वचनमब्रवीत् ।
अग्रहारं च दास्यामिग्रामं नगरसंमितम् ॥ ३.६५.२ ॥

他召集所有婆罗门,说道:"我将把一个相当于城市的村庄作为婆罗门的封地赐予。"

3.65.3

दमयन्तीं नलं चैव पर्यन्वेषति यो द्विजः ।
गवां शतसहस्राणि दाता तस्मै द्विजातये ॥ ३.६५.३ ॥

凡是寻找到达摩衍蒂与那罗的婆罗门,我将赠予他数十万头牛。

3.65.4

इत्युक्त्वा ब्राह्मणान्सर्वान्समाहूय द्विजोत्तमान् ।
प्रस्थापयामास तदा तयोर्दर्शनकाङ्क्षया ॥ ३.६५.४ ॥

说完这些话,他召集所有最优秀的婆罗门,随即派遣他们,渴望再见到二人。

3.65.5

संदिदेश च तान्भीमो वसु दत्ता च पुष्कलम् ।
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥ ३.६५.५ ॥

毗摩赐予他们丰厚的财物,并下令道:"去寻找那罗与我的女儿达摩衍蒂。"

3.65.6

अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे ।
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ॥ ३.६५.६ ॥

此事完成,若知晓尼沙陀之主的下落,我将赠予能把他带回来的人一千头牛。

3.65.7

अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् ।
हिरण्यंच सुवर्णं च दासीदासं तथैव ॥ ३.६५.७ ॥

我将赠予婆罗门的土地(agrahāra)和一个堪比城市的村庄,黄金与上等金子,同样也赠予男女仆人。

3.65.8

न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा ।
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ॥ ३.६५.८ ॥

即便不能带回达摩衍蒂或那罗,只要有人认出他们,我便赠予千头牛的财富。

3.65.9

इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतो दिशम् ।
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया।
नैव क्वापि प्रपश्यन्ति नलं वा भीमपुत्रिकाम् ॥ ३.६५.९ ॥

婆罗门们听闻此言,欢喜地前往四方,搜寻城邑与国土,却在任何地方都未见到与妻子同在的尼沙陀王那罗,也未见到毗摩之女。

3.65.10

ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः ।
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ॥ ३.६५.१० ॥

于是,名叫苏提婆的婆罗门在美丽的遮提城中搜寻,在王宫里看见了毗陀婆王女。

3.65.11

तयैव राजमाता च ब्राह्मणान्पर्यवेषयत् ।
भोजनार्थे सुदेवोऽपि तत्रैव प्रविवेश ह ॥ ३.६५.११ ॥

她与王太后一同为婆罗门们奉上食物,苏提婆也为了用餐,就在那里进入了。

3.65.12

कृशां विवर्णां मलिनां भर्तृशोकपरायणाम् ।
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥ ३.६५.१२ ॥

她消瘦、面色苍白、蓬头垢面,沉浸于对丈夫的悲痛之中,正与苏南达一起站在国王的吉祥诵经仪式中。

3.65.13

मन्दं प्रख्यायमानेन रूपेणाप्रतिमेन ताम् ।
निबद्धां धूमजालेन प्रभामिव विभावसोः ॥ ३.६५.१३ ॥

她微弱地显现着无与伦比的容貌,如同被烟雾缠绕的火焰之光。

3.65.14

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ।
तर्कयामास भैमीति कारणैरुपपादयन् ॥ ३.६५.१४ ॥

他仔细端详这位大眼睛、十分憔悴污秽的女子,凭种种迹象推断她便是婆伊密。

3.65.15

यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना ।
कृतार्थोस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियं ॥ ३.६५.१५ ॥

这位女子的模样与我从前所见的一样。今日见到她,我心满意足,仿佛见到了世间所爱的吉祥天女。

3.65.16

पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् ।
कुर्वन्तीं प्रभया देवीं सर्वावितिमिरा दिशः ॥ ३.६५.१६ ॥

面如满月,肤色黝黑,胸乳圆润秀美,以光辉驱散四方黑暗的女神。

3.65.17

चारुपद्मविशालाक्षीं मन्मथस्य रतीमिव ।
इष्टां समस्तलोकस्य पूर्णचन्द्रप्रभामिव ॥ ३.६५.१७ ॥

眼睛美如宽大的莲花,如爱神曼玛塔之妻罗蒂,为世间所爱,如满月之光。

3.65.18

विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् ।
मलपङ्कानुलिप्ताङ्गीं प्रम्लानां नलिनीमिव ॥ ३.६५.१८ ॥

如同被命运之过从毗陀婆湖中拔出的枯萎莲花,肢体沾满污秽的泥浆。

3.65.19

पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् ।
पतिशोकाकुलां दीनां कृशस्त्रोतां नदीमिव ॥ ३.६५.१९ ॥

她如同被罗睺吞食了月亮的满月之夜,又如水流已细的河流,因丈夫之忧而悲苦憔悴。

3.65.20

विध्वस्तपर्णकमलां वित्रासितविहंगमाम् ।
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ॥ ३.६५.२० ॥

她如同莲池,荷叶与莲花被践踏,飞禽惊散,被象鼻搅扰,波澜不宁。

3.65.21

सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ।
दह्यमानामिवार्केण मृणालीमिव चोद्धृताम् ॥ ३.६५.२१ ॥

她柔美,肢体端正,本应居于满是珍宝的殿堂,如今却似被烈日灼烧,又如被拔起的莲茎。

3.65.22

रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् ।
चन्द्रलेखामिव नवांव्योम्नि नीलाभ्रसंवृताम् ॥ ३.६५.२२ ॥

她具有美貌与高尚品德,本应盛装饰物,却未加修饰,如天空中新月被深蓝色云层遮掩。

3.65.23

कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च ।
देहं धारयतीं दीनं भर्तृदर्शनकाङ्क्षया ॥ ३.६५.२३ ॥

失去了心爱的享乐与亲族,她因渴望见到丈夫,憔悴地维持着这具身躯。

3.65.24

भर्ता नाम परं नार्या भूषणं भूषणैर्विना ।
एषा हि रहिता तेन शोभमाना न शोभते ॥ ३.६५.२४ ॥

丈夫实为女子至高之饰,胜过一切珠宝。与他分离的她,即便盛装也不再光彩。

3.65.25

दुष्करं कुरुतेऽत्यन्तं हीनो यदनया नलः ।
धारयत्यात्मनो देहं न शोकेनापि सीदति ॥ ३.६५.२५ ॥

失去她之后,那罗做着极其艰难的事:他支撑着自己的身体,即便悲伤也不使他倒下。

3.65.26

इमामसितकेशान्तां शतपत्रायतेक्षणाम् ।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ॥ ३.६५.२६ ॥

见她黑发垂肩、眼如莲瓣般修长,本应享有幸福却如此忧伤,我的心也感到痛楚。

3.65.27

कदा नु खलुः दुःखस्य पारं यास्यति वै शुभा ।
भर्तुः समागमात्साध्वीरोहिणी शशिनो यथा ॥ ३.६५.२७ ॥

这位吉祥的女子何时才能渡过悲苦的彼岸?如罗希尼与月亮相会,这位贞节的女子也将因与夫君重逢而如此。

3.65.28

अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति ।
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥ ३.६५.२८ ॥

重新得到她,那罗必定会重获欢喜,如同失去王国的国王重新得到大地而欢喜。

3.65.29

तुल्यशीलवयोयुक्तां तुल्याभिजनसंवृतम् ।
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ॥ ३.६५.२९ ॥

与他品性、年龄相当、出身相称的毗达婆女,正配那罗;这位黑眼睛的女子也正配他。

3.65.30

युक्तं तस्याप्रमेयस्य वीर्यसत्ववतो मया ।
समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ॥ ३.६५.३० ॥

我理应去安慰他那位具有无量勇力与德性的妻子,她渴望再见丈夫。

3.65.31

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां दुःखार्तां ध्यानरोदनतत्पराम् ॥ ३.६५.३१ ॥

我要安慰这位面如满月、被隐痛折磨、沉浸于冥想与哭泣之中的女子。

3.65.32

एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् ।
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ॥ ३.६५.३२ ॥

婆罗门苏提婆如此依据种种理由与特征辨认了她后,走近婆罗门女薄伽,说道。

3.65.33

अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा ।
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥ ३.६५.३३ ॥

我是苏提婆,毗达婆之女啊,是你兄长所爱的朋友。依从毗摩的话,我来此寻找你,以寻访国王。

3.65.34

कुशली ते पिता राज्ञि जननी भ्रातरश्च ते ।
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ॥ ३.६५.३४ ॥

王后啊,你的父亲安好,母亲与兄弟们也安好。留在那里的你的两个长寿孩子也都安好。

3.65.35

त्वत्कृतेबन्धुवर्गाश्च गतसत्वा इवासते ।
अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम् ॥ ३.६५.३५ ॥

为了你,亲属们如同失去生气般坐着;寻找你的婆罗门成百上千地在大地上奔走。

3.65.36

अभिज्ञाय सुदेवं तं दमयन्ती युधिष्ठिर ।
पर्यपृच्छत तान्सर्वान्क्रमेण सुहृदः स्वकान् ॥ ३.६५.३६ ॥

般哆衍蒂认出了苏提婆,俱卢子啊,她依次询问了自己所有亲近的友人。

3.65.37

रुरोद च भृशं राजन्वैदर्भी शोककर्शिता ।
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥ ३.६५.३७ ॥

国王啊,被悲伤消瘦的毗达婆公主突然见到她兄长所爱的那位最好的婆罗门须提婆,便痛哭起来。

3.65.38

ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिता ।
सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥ ३.६५.३८ ॥

婆罗多的后裔啊,须南达见她哭泣并与须提婆在僻静处交谈,心中悲伤消瘦……

3.65.39

जनित्र्याः प्रेषयामास सैरन्ध्री रुदते भृशम् ।
ब्राह्मणेन सहागम्य तांविद्धि यदि मन्यसे ॥ ३.६५.३९ ॥

母亲派遣侍女娑衍陀利前往,她哭得非常厉害。若你这样认为,就应知道她是与婆罗门一同前来,并与他同在。

3.65.40

अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा ।
जगाम यत्रसा बाला ब्राह्मणेन सहाभवत् ॥ ३.६५.४० ॥

于是,车底国君的母亲从国王的内宫前往那位少女与婆罗门同在的地方。

3.65.41

ततः सुदेवमानाय्य राजमाता विशांपते ।
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥ ३.६५.४१ ॥

人主啊,于是太后召来须提婆,问道:“这位光彩照人的女子是谁的妻子,或是谁的女儿?”

3.65.42

कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना ।
त्वया च विदिता विप्र कथमेवंगता सती ॥ ३.६५.४२ ॥

婆罗门啊,这位美目女子如何与亲族或丈夫分离?你是如何认识她的?这位贞洁的女子怎会沦落到这般境地?

3.65.43

एतदिच्छाम्यहं श्रोतुं त्वत्तः सर्वमशेषतः ।
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्यादेवरूपिणीम् ॥ ३.६५.४३ ॥

我希望从你那里完整地听到这一切,毫无遗漏。这位有天神之形的女子在问;请如实告诉我。

3.65.44

एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः ।
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ॥ ३.६५.४४ ॥

君王啊,她这样问后,再生者中的最优者苏提瓦安坐下,开始如实讲述达玛扬蒂的经历。