Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.68

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.68.1

अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः ।
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥ ३.६८.१ ॥

经过很长时间,名叫帕尔那达的婆罗门回到城中,对薄伽美说了这番话。

3.68.2

नैषधं मृगयाणेन दमयन्ति दिवानिशम् ।
अयोध्यां नगरीं गत्वा भागस्वरिरुपस्थितः ॥ ३.६८.२ ॥

薄伽美啊,那罗陀(那罗)日夜沉迷于狩猎。到达阿约迪亚城后,巴伽斯瓦里前来拜见。

3.68.3

श्रावितश्च मया वाक्यं त्वदीयं स महाजने ।
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥ ३.६८.३ ॥

美丽的人啊,我在那大众之中把你的话说给了大福的里图帕尔纳听,一字不差。

3.68.4

तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः ।
न च पारिषदः कश्चिद्भाष्यमाणो मयाऽसकृत् ॥ ३.६८.४ ॥

国王里图帕尔纳听了之后什么也没说,虽然我多次开口,也没有任何侍从说话。

3.68.5

अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् ।
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥ ३.६८.५ ॥

国王允许之后,在僻静之处,里图帕尔纳的一名侍从对我说话,他名叫巴呼迦。

3.68.6

सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः ।
शीघ्रयानेषु कुशलो मृष्टकर्ता च भोजने ॥ ३.६८.६ ॥

他是那位国王的御者:相貌丑陋,手臂短小,擅长驾驭快车,也善于烹调美味的食物。

3.68.7

स विनिःश्वस्य बंहुशो रुदित्वा च षुनःपुनः ।
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥ ३.६८.७ ॥

他多次深深叹息,反复哭泣,问候我的安好之后,接着说了这些话。

3.68.8

वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ॥ ३.६८.८ ॥

即使陷入困境,贵族妇女也会以自身力量保护自己;忠诚诚实的人定能赢得天堂,毫无疑问。

3.68.9

रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन ।
्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ॥ ३.६८.९ ॥

即使与丈夫分离,优秀的女子也从不发怒;她们以品行为铠甲,守护自己的生命。

3.68.10

विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥ ३.६८.१० ॥

他身陷困境、迷惑失意,因而抛弃了她,她不应因此而发怒。

3.68.11

प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः ।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ ३.६८.११ ॥

对于那位为求生计而奔波、衣服被鸟儿叼走、内心备受煎熬的人,夏摩不应发怒。

3.68.12

सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथागतम् ।
भ्रष्टराज्यं श्रित्या हीनं श्यामा न क्रोद्धुमर्हति ॥ ३.६८.१२ ॥

看到丈夫如此失去王位、落魄无助,无论她曾受他尊重还是遭他轻慢,夏摩都不应发怒。

3.68.13

तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः ।
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदयः ॥ ३.६८.१३ ॥

听了他的这些话,我急忙来到这里。请您将此作为凭证听取,并也禀告国王。

3.68.14

एतच्छ्रुत्वाऽश्रुपूर्णाक्षी पर्णादस्य विशांपते ।
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभापत ॥ ३.६८.१४ ॥

大光主啊,达曼延蒂听了此话,泪眼盈盈,独自来到母亲身边,回答道。

3.68.15

अयमर्थौ न संवेद्यो भीमे मातः कदाचन ।
त्वत्सन्निधौ नियोक्ष्येऽहंसुदेवं द्विजसत्तमम् ॥ ३.६८.१५ ॥

母亲,此事绝不可让婆罗门中最优秀的苏提婆之外的人,以及毗摩知道。在您面前,我将派遣最优秀的婆罗门苏提婆。

3.68.16

यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् ।
यथा त्वया प्रकर्तव्यं मम चेत्प्रियमिच्छसि ॥ ३.६८.१६ ॥

为使国王毗摩不接受我的心意,若您希望我好,您就应当这样去做。

3.68.17

यथा चाहं समानीता सुदेवेनाशु बान्धवान् ।
तेनैव मङ्गलेनाद्य सुदेवो यातु मा चिरम् ॥ ३.६८.१७ ॥

正如苏提婆迅速使我与亲属团聚,愿苏提婆今日即刻启程,不再耽搁,去完成这同样吉祥的事。

3.68.18

समानेतुं नलं मातरयोध्यां नगरीमितः ।
ऋतुपर्णस्य नगरे निवसन्तमरिन्दमम् ॥ ३.६८.१८ ॥

母亲,从此处去,将居住在阿约提亚城、即罗图帕尔纳之城的敌人降伏者那罗接回。

3.68.19

विश्रान्तं तु ततः पश्चात्पर्णादं द्विजसत्तमम् ।
अर्चयामास वैदर्भी धनेनातीव भामिनी ॥ ३.६८.१९ ॥

随后,在他休息之后,光彩照人的维达婆公主以财物隆重款待了再生者中最优秀的帕尔纳达。

3.68.20

लवाच चैनं महता संपूज्य द्रविणेन वै ।
नले चेहागते विप्र भूयो दास्याभि ते वसु ॥ ३.६८.२० ॥

她以财物隆重地款待了他,说道:"婆罗门啊,待那罗陀来到此处,我会再给你更多财物。"

3.68.21

त्वया हि मे बहुकृतंयदन्यो न करिष्यति ।
यद्भर्त्राऽहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥ ३.६८.२१ ॥

您为我做了许多事,是别人不会做的,最优秀的再生者啊:我很快就将与我的丈夫团聚。

3.68.22

स एवमुक्तोऽथाश्वास्य आशीर्वादैः सुमङ्गलैः ।
गृहानुपययौ चापि कृतार्थः सुमहामनाः ॥ ३.६८.२२ ॥

他听了这些话,并得到最吉祥的祝福而得到安慰,心怀宽厚、事已成就,便返回了自己的家。

3.68.23

ततः सुदेवमानाय्य दमयन्ती युधिष्ठिर ।
अब्रवीत्सन्निदौ मातुर्दुःखशोकसमन्विता ॥ ३.६८.२३ ॥

于是,坚战啊,达摩衍蒂召唤苏提婆,满怀悲痛,在母亲身旁说道。

3.68.24

गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् ।
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ॥ ३.६८.२४ ॥

苏提婆啊,你前往阿约陀城,将这话转告住在那里的国王里图帕尔那:我打算另择夫君。

3.68.25

आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥ ३.६८.२५ ॥

毗摩之女达摩衍蒂将再次出席选婿大典。各方的国王和王子都将前往。

3.68.26

तथा च गणितः कालः श्वोभूते स भविष्यति ।
यदि संभाविनीयं ते गच्छ शीघ्रमरिंदम ॥ ३.६८.२६ ॥

时间已经算定,就在明天。若你能够做到,就快去吧,降伏敌人者啊。

3.68.27

सूर्योदये द्वतीयं सा भर्तारं वरयिष्यति ।
न हि स ज्ञायते वीरो नलो जीवन्मृतोपि वा ॥ ३.६८.२७ ॥

日出之时,她将第二次选定夫婿。英雄那罗是生是死,无人知晓。

3.68.28

एवं तथा यथोक्तो वै गत्वा राजानमब्रवीत् ।
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥ ३.६८.२८ ॥

婆罗门苏提婆便照所嘱咐的那样,前去对国王利都波尔那说道:“大王啊!”