Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.69.1

श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः ।
सारथीन्स समानीय वार्ष्णेयप्रभृतीन्नृपः।
कथयामास यद्वृत्तं ब्राह्मणेन श्रुतं तथा ॥ ३.६९.१ ॥

国王Ṛtuparṇa听了苏提婆的话,召集了御者伏尔什涅耶等人,把他从婆罗门那里听到的事情告诉了他们。

3.69.2

बाहुकं च समाहूय दमयन्त्याः स्वयंवरम् ।
सान्त्यञ्श्र्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥ ३.६९.२ ॥

他召唤巴呼迦,用温和安慰的话语与他谈论达摩衍蒂的自选夫婿典礼。

3.69.3

विदर्भान्यातुमिच्छामि दमयन्त्याः स्वयंवरम् ।
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥ ३.६९.३ ॥

巴呼迦啊,精通马术的人!我想在一天之内赶到毗达婆去参加达摩衍蒂的自选夫婿典礼;如果你认为可以,就告诉我。

3.69.4

एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह ।
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥ ३.६९.४ ॥

贡蒂之子啊,国王如此说后,那》那罗的心因悲痛而碎裂,那位大度的人陷入深思。

3.69.5

दमयन्ती भवेदेवं किंनु दुःखेन मोहिता ।
अस्मदर्थे भवेद्बाऽयमुपायश्चिन्तितो महान् ॥ ३.६९.५ ॥

达摩衍蒂是否因悲痛而如此迷乱?或许这个大计是为了我而想出的。

3.69.6

नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी ।
यया क्षुद्रेण निकृताकृपणा पापबुद्धिना।
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ॥ ३.६९.६ ॥

毗达婆公主,这位苦修者,或许想要行残忍之事。她被那卑鄙、心怀恶念之人欺骗,变得可怜。世间女子的本性善变,而我的过错也十分严重。

3.69.7

मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ।
नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषतः ॥ ३.६९.७ ॥

她因我的悲伤而惶恐,因绝望而腰身消瘦,绝不会这样做,尤其是对待妻妾之间的情敌。

3.69.8

यदत्र सत्यं वाऽसत्यं गत्वा वेत्स्यामि निश्चयम् ।
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥ ३.६९.८ ॥

此事是真是假,我将前往那里并确知;我为满足ṛtuparṇa的愿望,也为我自己的目的而这样做。

3.69.9

इति निश्चित्य मनसा बाहुको दीनमानसः ।
कृतालुरुवाचेदमृतुपर्णं जनाधिपम् ॥ ३.६९.९ ॥

心中如此决定后,心情沮丧的巴护迦合掌向人主ṛtuparṇa说了这些话。

3.69.10

प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप ।
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप।
तत्रादित्योदये काले श्वो विदर्भान्गमिष्यसि ॥ ३.६९.१० ॥

我向你保证,人主,我会去。人中之虎,国王啊,一日之内便可抵达毗达婆城;明天日出之时,你便能到达毗达婆国。

3.69.11

एवमुक्तोऽब्रवीद्राजा बाहुकं प्रहसन्निव ।
किं ते कामं करोम्यद्य तुष्टोऽस्मि तव बाहुक ॥ ३.६९.११ ॥

国王被如此称呼后,仿佛微笑着对巴护迦说:“你有何愿望?今日我便满足你;巴护迦,我对你很满意。”

3.69.12

यावद्यानमिदं सज्जमृतुपर्ण करोम्यहम् ॥ ३.६९.१२ ॥

ṛtuparṇa啊,趁这辆车已经备好,我便去准备它。

3.69.13

ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः ।
अश्वशालामुपागम्य भागस्वरिनृपाज्ञया ॥ ३.६९.१३ ॥

于是,大王,巴胡迦奉国王之命来到马厩,考验那些马匹。

3.69.14

स त्वर्यमाणो बहुश ऋतुपर्णन बाहुकः ।
अश्वाञ्जिज्ञासमानो वै विचार्य च पुनःपुनः।
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥ ३.६९.१४ ॥

巴胡迦在里杜帕尔纳的催促下,渴望了解那些马,反复思量,果然找到了虽然瘦弱、却能在路上胜任并耐受的马匹。

3.69.15

तेजोबलसमायुक्तान्कुलशीलसमन्वितान् ।
वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ॥ ३.६९.१५ ॥

具备精力与力量,血统与品性俱佳,无不吉之相,鼻孔宽阔,颌骨粗大。

3.69.16

शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ।
दृश्यमानान्कृशानङ्गैर्जवेनाप्रतिमान्पथि ॥ ३.६९.१६ ॥

纯净无瑕,具十旋纹,生于信度之地,迅疾如风;外形虽瘦,路上奔驰却无与伦比。

3.69.17

तान्दृष्ट्वा दुर्बलान्नाजा प्राह कोपसमन्वितः ।
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या न ते वचम् ॥ ३.६९.१७ ॥

国王见那些羸弱的马,怒气冲冲地说道:“你为何选这些?不要让你的话欺骗了我。”

3.69.18

कथमल्पबलप्राणा वक्ष्यन्तीमे हया रथम् ।
महानध्वा स चैकाह्ना गन्तव्यः कथमीदृशैः ॥ ३.६९.१८ ॥

这些气力和生命都如此微弱的马,怎能拉动战车?用这样的马,怎能在一日之内走完那漫长的路途?

3.69.19

एको ललाटे द्वे मूर्ध्नि द्वौद्वौ पार्श्वोपपार्श्वयोः ।
द्वौद्वौ वक्षसि विज्ञैर्यौ प्रयाणे चैक एव तु ॥ ३.६९.१९ ॥

额上一个,头上两个,两侧与次侧各两个,胸前各两个;这些是智者在旅途中所知的征兆,但真正吉祥的只有一个。

3.69.20

एते हया गमिष्यन्ति विदर्भान्नात्र संशयः ।
यानन्यान्मन्यसे राजन्ब्रूहि तान्योजयामिते ॥ ३.६९.२० ॥

这些马必定能抵达毗达婆,毫无疑问。国王啊,若你认为其他马更好,请说出,我便套上那些。

3.69.21

त्वमेव हयतत्त्वज्ञः कुशलो ह्यसि बाहुक ।
यान्मन्यसे समर्थास्त्वं क्षिप्रं तानेव योजय ॥ ३.६९.२१ ॥

巴呼迦,唯有你通晓马的本性,且善于此道。把你认为有能力的马迅速套上吧。

3.69.22

ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् ।
योजयामास कुशलो जवयुक्तान्रथे नलः ॥ ३.६९.२२ ॥

于是灵巧的那罗把四匹出身良好、性情温顺、善于疾驰的良马套上了车。

3.69.23

ततो युक्तं रथं राजा समारोहत्त्वरान्वितः ।
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥ ३.६९.२३ ॥

于是国王急忙登上已套好的战车;那些良马便屈膝倒在地上。

3.69.24

ततो नरवरः श्रीमान्नलो राजा विशांपते ।
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥ ३.६९.२४ ॥

然后,人主啊,光辉的国王那罗,人中之雄,安抚了那些充满精神与力量的马。

3.69.25

रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः ।
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥ ३.६९.२५ ॥

纳拉握住缰绳,想要出发。他让御者瓦尔史涅耶登上战车,便以至高的速度驰骋。

3.69.26

ते चोद्यमाना विधिवद्बाहुकेन हयोत्तमाः ।
समुत्पेतुरिवाकाशं रथिनं मोहयन्ति च ॥ ३.६९.२६ ॥

那些良马在巴呼迦如法的驱策下,仿佛要飞向天空,一跃而起,使车上的御者惊惑不已。

3.69.27

तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः ।
अयोध्याधिपतिः श्रीमान्विस्मयं परमं ययौ ॥ ३.६९.२७ ॥

见那些疾如风的良马如此拉车前行,阿逾陀的光辉之主大为惊叹。

3.69.28

रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् ।
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥ ३.६९.२८ ॥

瓦尔史涅耶听到那车声与驭马的手法,心中思忖巴呼迦驾驭良马的本领。

3.69.29

किंनु स्यान्मातलिरयं देवराजस्य सारथिः ।
तथा तल्लक्षणं वीरे बाहुके दृश्यते महत् ॥ ३.६९.२९ ॥

此人莫非是天王因陀罗的御者摩多梨?勇士巴呼迦身上确实显现出如此伟大的征兆。

3.69.30

शालिहोत्रोऽथ किंतु स्याद्धयानां कुलतत्त्ववित् ।
मानुपं समनुप्राप्तो वपुः परमशोभनम् ॥ ३.६९.३० ॥

或许此人是通晓马之血统的沙利霍特罗,化作了极为俊美的人形?

3.69.31

उताहोस्विद्भवेद्राजा नलः परपुरंजयः ।
सोयं नृपतिरायात इत्येवं समचिन्तयत् ॥ ३.६९.३१ ॥

或许这是征服敌城的那罗王。他心想:“这位国王来了。”

3.69.32

अथवाऽयंनलात्प्राप्तो विद्यां तामेव बाहुकः ।
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥ ३.६९.३२ ॥

或者这位巴忽迦从那罗那里获得了那门学问。我看到巴忽迦与那罗的智慧相等。

3.69.33

अपिचेदं वयस्तुल्यं बाहुकस्य नलस्य च ।
नायं नलो महावीर्यस्तद्विद्यश्च भविष्यति ॥ ३.६९.३३ ॥

此外,巴忽迦与那罗的年龄相同。此人并非威力强大的那罗,也不会是通晓那门学问之人。

3.69.34

प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् ।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः ॥ ३.६९.३४ ॥

大智者隐身行走于这片大地,他们秉承天命,并依循经典所载的规范。

3.69.35

भवेन्न मतिभेदो मे गात्रवैरूप्यता प्रति ।
प्रमाणात्परिहीनस्तु भवेदिति मतिर्मम ॥ ३.६९.३५ ॥

我对他肢体的畸形不应有异议。我的看法是,他的身高或许略有不足。

3.69.36

वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः ।
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥ ३.६९.३६ ॥

年龄的量度相同,但外貌却恰好相反。最终,我认为巴忽迦就是具备一切德行的那罗。

3.69.37

एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत् ।
हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥ ३.६९.३७ ॥

如此反复思量之后,毗利什尼之子在心中沉思,大王啊,他是圣名者的御者。

3.69.38

ऋतुपर्णश्च राजेनद्रो बाहुकस्य हयज्ञताम् ।
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥ ३.६९.३८ ॥

诸王之王梨杜波尔那想到巴呼迦的驭马技艺而欢喜,与毗利什尼之子御者同在。

3.69.39

ऐकाग्र्यं च तथोत्साहं हयसंग्रहणं च तत् ।
कौशलं चापि संप्रेक्ष्य परां सुदमवाप ह ॥ ३.६९.३९ ॥

看到他专注一心、同样的热忱、驾驭骏马,以及那份技艺,他获得了至高的喜悦。