摩诃婆罗多 · 章 3.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.7.1
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् ।
धृताराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ॥ ३.७.१ ॥
听说毗都罗已经归来,并已被国王好好安慰,德行不善的持国之子国王便深感痛苦。
3.7.2
स सौबलेयमानाय्य कर्णदुःशासनौ तथा ।
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ॥ ३.७.२ ॥
那位国王召来苏跋罗之子(沙恭尼)、迦尔纳和杜尚舍那,陷入由愚痴所生的黑暗,说出了这些话。
3.7.3
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः ।
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ॥ ३.७.३ ॥
这位归来的大臣毗都罗,受持国所敬重;他是般度诸子的朋友,博学,致力于他们的福祉。
3.7.4
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति ।
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ॥ ३.७.४ ॥
在毗都罗再次扭转他的心意之前,请为我的利益商议如何迎回般度五子。
3.7.5
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन ।
पुनः शोषं गमिष्यामि निरसुर्निष्परिग्रहः ॥ ३.७.५ ॥
如果我看见普利塔之子以某种方式来到这里,我将再次衰弱下去,失去生命,一无所有。
3.7.6
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम् ।
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ॥ ३.७.६ ॥
我将服毒、上吊、用兵器,或投入火中;因为我没有勇气再次在这里看见他们繁荣兴旺。
3.7.7
किं बालिशमतिं राजन्नास्थितोसि विशांपते ।
गतास्ते समयं कृत्वा नैतदेवं भविष्यति ॥ ३.७.७ ॥
君王啊,众生之主,你为何怀抱如此愚蠢的念头?他们已约定期限而离去,事情不会这样发生。
3.7.8
सत्यवाक्येः स्विताः सर्वे पाण्डवा भरतषभ ।
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचिति ॥ ३.७.८ ॥
婆罗多族中的雄牛啊,那些般度之子都被他们诚实的誓言所束缚。亲爱的孩子,他们永远不会接受你父亲的命令。
3.7.9
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् ।
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति ॥ ३.७.९ ॥
他们或者接受,或者重返城中。若抛弃约定的期限,赌注便归我们所有。
3.7.10
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः ।
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः । ॥ ३.७.१० ॥
我们都将作为顺从国王意志的中立者,留意般度诸子的许多过失,同时隐藏得很好。
3.7.11
एवमेतन्महाप्राज्ञ यथा वदसि मातुल ।
नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते ॥ ३.७.११ ॥
正如你所说,尊贵的舅父啊。每当你开口,你的谋略总令我欢喜。
3.7.12
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् ।
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये ॥ ३.७.१२ ॥
随你所愿,难敌啊;我们都注视着你所想要的。国王啊,我看出我们所有人之间是意见一致的。
3.7.13
नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम् ।
आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय ॥ ३.७.१३ ॥
若不约定期限,那些坚定的人便不会前来;若他们因迷惑而再来赌局,你就战胜他们。
3.7.14
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ॥ ३.७.१४ ॥
迦尔那如此说罢,国王难敌心中并不十分欢喜,立即转过身去。
3.7.15
उपलभ्य ततः कर्णो विवृत्य नयने शुभे ।
रोषाद्दुःशासनं चैव सौबलं च तमेव च ॥ ३.७.१५ ॥
迦尔那察觉后,睁大那双美丽的眼睛,怒气冲冲地看着难降,也看着萨巴拉(沙恭尼)。
3.7.16
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना ।
अथो मम मतं यत्तु तन्निबोधत भूमिपाः ॥ ३.७.१६ ॥
他极为愤怒,克制自己,说道:“诸位地上的君主,请听我的意见。”
3.7.17
प्रियं सर्वे करिष्यामो राज्ञः किं करवामहे ।
न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः ॥ ३.७.१७ ॥
“我们都将为国王做他喜爱的事。我们该做什么?在他所喜爱的事上,我们都不知疲倦,能够坚持下去。”
3.7.18
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः ।
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ॥ ३.७.१८ ॥
“我们拿起兵器,登上战车,披挂铠甲,一同前去杀死在林中游荡的般度五子。”
3.7.19
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् ।
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ॥ ३.७.१९ ॥
待他们全都平息并踏上未知的道路之后,持国之子与我们都将摆脱争端。
3.7.20
यावदेव परिद्यूना यावच्छोकपरायणाः ।
यावन्मित्रविहीनाश्च तावद्गच्छाम माचिरम् ॥ ३.७.२० ॥
趁他们憔悴、沉溺于悲伤、失去盟友之时,我们不要耽搁,立即前去。
3.7.21
तस्यतद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः ।
प्रहृष्टमनसः सर्वे प्रत्यूचुः सूतजं तदा ॥ ३.७.२१ ॥
众人听了他的话,一再赞许,心中欢喜,于是便回答了御者之子。
3.7.22
एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक् ।
निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः ॥ ३.७.२२ ॥
说罢,众人极为愤怒,各乘其车,同心决意前去杀害般度五子。
3.7.23
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः ।
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥ ३.७.२३ ॥
得知他们已经出发,清净心的主宰黑岛仙人以天眼看见后,便赶了过来。
3.7.24
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः ।
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम् ॥ ३.७.२४ ॥
于是,他阻止了所有人,受世间尊崇的世尊迅速走近,对坐着的盲者(持国)说道。